________________
कथा
भाग्यं फलति सर्वत्र
सा. दीप्रयशाश्रीः
एको ब्राह्मणः पत्न्या पुत्रेण च सह नदीतटेऽवसत् । अतिदीनावस्थायां जीवनं यापयन् स भगवतो नामस्मरणं करोति स्म ।
एकदा व्योममार्गेण गतवता नारदेनैष दृष्टस्तेन च तस्य हृदये करुणा सञ्जाता । ततो विष्णोः समीपं गतवानुक्तवाँश्च नारदः युष्माकं सेवकः किमर्थं दुःख्यस्ति ?
भगवानुवाच तस्य भाग्ये सुखमेव नास्ति ।
नारदः कथितवान् – नैतद् योग्यमस्ति । भवान् किमपि करोतु येन स सुखीभवेत् ।
'तथाऽस्तु' इत्युक्तवान् भगवान् । त्वं तं निवेदय यदागामिनि पूर्णिमादिने नद्यां त्रयोऽप्येकमेकं वरं याचेरन्, इति ।
नारदेन ब्राह्मणाय सर्वमपि कथितम् ।
पूर्णिमादिवस आगतः । प्रभाते जागृता ब्राह्मणी चिन्तितवती यत् प्रथमं वरमहं याचेय । ततो नद्यां स्नात्वा तया याचितं यत् 'भगवन् ! राजमहिष्याः सौन्दर्यं प्राप्नुयाम्' इति । तत्क्षणं ब्राह्मणी राजमहिषीसदृशी मनोहरा जाता । तदैव तन्मार्गेण गच्छता राज्ञा सा दृष्टा । एषा तु मम योग्याऽस्ति, इति चिन्तयन् यावत्तामपहरति तावदेव पितापुत्रौ च द्वौ अपि बहिरागत्य तद् दृष्टवन्तौ । तेन तौ द्वौ क्रुद्धौ व्याकुलौ च जातौ ।
-
ततश्च ब्राह्मणेन वरो याचितो यद् - भगवन् ! मम पत्नी अजा भवतु, इति । तत्क्षणं राज्ञी अजा सञ्जाता । ततो राजसेवकैर्हक्किता सा नदीतटे पुनरागता । ततस्तस्याः दयया पुत्रेण याचितं यद् - भगवन् ! अजारूपं त्यक्त्वा मम माता मे लभताम्, इति । तत्क्षणं सा ब्राह्मणी सञ्जाता ।
एवं त्रयोऽपि वरा निरर्थका जाता: ।
सन्ध्याकाले नारदस्तत्राऽऽगतवान् । तेन सर्वमपि ज्ञातम् । तदा विष्णु भगवतो वाक्यं स्मृतिपथमागतम् - भाग्यं विना भगवानपि न दातुं शक्तः, इति ।
Jain Education International
७२
For Private & Personal Use Only
www.jainelibrary.org