________________
सुभाषितानि प्रा. डॉ. किशोरचन्द्रपाठकः ।
मेघः समुद्रं प्रति ।
_(वसन्ततिलकावृत्तम्) पीतं समुद्र ! तव यज्जलबिन्दुलेशं तं तुभ्यमेव खलु सादरमर्पयामि । को वा वदेन्मम कृतोपकृतं त्वदर्थं यद्यर्प्यते सलिलमद्य च पूर्वपीतम् ॥ कोऽजो वदेद् यदि ममोच्चमधस्त्वदीयं स्थानं कदापि भुवने न विषादहेतुः । निम्नस्थितो गुरुतयोपरि संस्थितोऽहं प्रायोऽल्पता भवति मोहकरी जनानाम् ॥ क्षारं जलं भवति सागर ! तावकीनं कामं बृहद्वपुरिदं तव निन्दनीयम् । अन्तस्तलां समुपयाति जनस्त्वदीयं रत्नाकरस्त्वमसि संविदितो जनेन ॥ स्यादुत्सवस्तव शशाङ्ककलाप्रवृद्धौ क्षीणे विधौ तव वपुः क्षयमेति नूनम् । दृष्टं त्वयि परमरम्यमुदारसख्यं सन्मित्रलक्षणमिदं समुदाहरामि ॥
(४)
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org