________________
(१)
(२)
Jain Education International
गान्धी
(शार्दूलविक्रीडितवृत्तम्)
यत्कृष्णस्य कृपावलोकनमहो यच्छ्रीसुदाम्नस्तपः ब्राह्मण्याः परतत्त्वकृष्णविषये प्रेम्णः प्रवाहोऽपरः । पित्रोः पुण्यसमुच्चयोऽतिविमलः कीर्तिः समग्रा भुवः एभिः पुण्यपुरे हि मोहन इति त्वन्वर्थनामाऽभवत् ॥
यात्रा
(शार्दूलविक्रीडितवृत्तम्)
नानादेशनिरीक्षणं परिचयो लोक स्वभावाध्ययस्तीर्थानामवलोकनं चतुरता बुद्धेः प्रसन्नं मनः । मेदच्छेददृढं वपुर्लघुतरं हृद्याः प्रशस्ता गिरो ज्ञानारोग्यकरी सदा गुणकरी यात्रा न किं सेव्यते ॥
३३
For Private & Personal Use Only
पद्मपाणि
७ आनन्दनगर अमरेली ३६५६०१
www.jainelibrary.org