________________
अमूल्यांस्तत्प्राणान् अवति कुरुते चाऽन्ध्यहरणं ततो वैद्यं साक्षाद्धरिरिति जनः स्तौत्यविरतम् ॥१०१॥ विद्यन्तेऽद्यापि नार्यः पतिहितनिरता भूरि कष्टानि सोदवा याः क्षेमं साधयन्ति प्रतिदिनमभितो भर्तुरत्यन्तमिष्टम् । मिष्टं पाकं च कृत्वा शिशुमपि समये लालयित्वा कथंचित् कार्यागारं च गत्वा विदधति बहु यास्ताः कथं वा न वन्द्याः ॥१०२॥ वेदानां कणिकाऽपि यस्य शिरसि स्वप्नेऽप्यवाप स्थलं शास्त्राणामपि जिघ्रति स्म न च यो गन्धं जनुस्सप्तके । यो जानाति न काव्यपद्यचरणं श्रोतुं न यस्याऽऽदरस्तं विद्वन्मणयोऽनुयान्ति धनिनं यस्मिन् कलौ तं च धिक् ॥१०३॥ मूर्ख ज्ञानसमुद्रमाहुरखिला वित्ताशया प्रेरिताः विद्याहीनमपि प्रशंसति जनो लिप्सुः पदं किञ्चन । अज्ञातामलकं भिषड्मणिरिति स्तौति प्रभावेप्सया सत्यं किं किमसत्यमित्यपि कलौ को ज्ञातुमर्हो नर: ? ॥१०४॥ सन्त्येवाऽत्र गुणाः सदा कलियुगे सन्त्येव दोषास्तथा विद्वांसो निवसन्ति यज्जनपदे मूर्खाश्च तत्राऽऽसते । तादृङ् नैव बभूव कालशकलं यस्मिन् समस्ता गुणाः दोषा वाऽत्र बभूवुरित्यनुचिता निन्दा कलेः सर्वथा ॥१०५॥ अहिंसाख्यं तत्त्वं जिनपतिवचोबोधितमिदं तथा सत्याख्यं तन्लिगमनिवहैनिश्चितमपि । दयातत्त्वं बुद्धप्रकटितमिहाऽस्ति त्रयमदो जगत् त्रातुं शक्तं न खलु कलिभीतिर्मनसि मे ॥१०६॥ नागराजेन कविना रचितं शतकं कलेः । विमर्शनाय विदुषां सन्तोषं जनयत्विदम् ॥
90, 9th Cross
Navilu Raste,
Kuvempunagar MYSORE 510023
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org