SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कथा बुद्धिर्यस्य बलं तस्य मुनिअक्षयरत्नविजय: [पू.युग.आ.श्रीविजयधर्मसूरीश्वरसमुदायवर्ती] बहुवर्षेभ्यः प्राक् कश्मीरराज्ये (अपरनाम्नि विकणिके) एको नृपो राज्यं कुर्वन्नासीत् । सोऽतिदयावानुदारमनाः प्रजाकल्याणतत्परश्चाऽऽसीत् । किन्तु कतिपयेभ्यो वर्षेभ्यः समुद्भूतैकेदृशी समस्या तस्य मनसि चिन्तां कारयति स्म, यदर्थं स यथा यथा विकल्पं करोति स्म तथा तथा भृशं मुह्यति स्म । समस्येयं नदीपूरस्याऽऽसीत् । __ कश्मीरमध्ये तदा सरिदेकाऽवहत् । साऽधुना 'जेलम' इति नाम्ना विद्यमानाऽस्ति । किन्तु तदा तस्या आख्या 'वितस्ता' इत्यासीत् । वितस्ता विकर्णिकस्य क्षेत्राण्युद्यानानि च सिञ्चन्त्यासीत् । लोकानां तृषमपि तर्पयन्त्यासीत् । किन्तु यदा वर्षर्तुरागच्छति स्म तदा वृद्धिंगता वितस्ता तटद्वयौ लङ्घित्वा मत्तमातङ्ग इव ग्रामाणामत्ययं कुर्वन्ती, पादपानुन्मूलयन्ती मनुष्यान्पशूश्च आत्मना सह सिन्धुं नयन्त्यासीत् । इत्थं तया प्रतिवर्ष ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy