________________
कथा
धर्मनिष्ठा मुनिधर्मकीर्तिविजयः
कस्मिंश्चिद् नगरे मुस्लिमज्ञातीयौ द्वौ भ्रातरौ वसतः स्म । तौ द्वौ अपि अल्लाहं प्रति दृढं समर्पितौ बभूवतुः । नियतकाले सदा तौ अल्लाहोपासना(नमाझ) कुरुतः स्म ।
एकदा तौ द्वौ आपणे उपविष्टौ आस्ताम् । उपासनासमयो जातः । तदैवैको वणिग् आपणं प्रत्यागच्छन् दृष्टस्ताभ्याम् । आगच्छन्तं तं वीक्ष्य 'शेतान आगच्छति' इत्युक्त्वा कार्यं विमुच्य तौ द्वौ उपासनां कर्तुं मग्नौ जातौ ।
__इतः ‘शेतान' इति निशम्य स वणिग् - किमहं शेतानोऽस्मि, अहमत्राऽनेकशो व्यवसायार्थमागतोऽस्मि । तथाऽप्यद्यैष कथमेवमुक्तवान् ? - इति चिन्ताकुलो जातः ।
उपासनानन्तरं द्वाभ्यां भ्रातृभ्यां व्यवसायकार्यं प्रारब्धम् । तदा वणिक् पृष्टवान् - 'शेतान आगच्छति' इति मामुद्दिश्य कथमुक्तं भवद्भ्याम् ?
एकेनोक्तम् - भो ! त्वां दृष्ट्वा मनसि लोभो जागृयात्तर्हि उपासनायां विघ्नः स्यात् । अतः शेतान आगच्छति, इत्युक्तं मया, न तु त्वामुद्दिश्य ।।
६L
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org