________________
कथा
अनुल्लङ्घनीया मातुराज्ञा मुनिधर्मकीर्तिविजयः
कोलकातान्यायालयस्य न्यायाधीशः कोलकाताविश्वविद्यालयस्य चोपकुलपतिः श्रीआशुतोषमुखरजीमहोदय आसीत् । प्रसङ्गवशेन विदेशं गन्तुं योग्यजनरूपेण स महोदय उच्चाधिकारिभिश्चित आसीत् । किन्तु स तत्र गन्तुं निषिद्धवान् । ततो 'भाग्यवान् जन एव विदेशं गन्तुं शक्नोति' - इति चाटुवाक्यैर्मित्रैर्बहुशो विज्ञप्तिः कृता । तथाऽपि सा विज्ञप्तिर्न स्वीकृता तेन महोदयेन ।
तत्कालीनो राजप्रतिनिधिः(वाइसरोय) लोर्डकर्झन्महोदयो 'मुखरजीमहोदयो विदेशं गन्तुं निषेधयति, तत्र कारणमस्ति तस्य माता' इति ज्ञातवान् । ततः कर्झन्-इत्यनेन स मुखरजीमहोदय आहूत आदिष्टश्च - कर्झन्-इत्यनेन विदेशं गन्तुमहमादिष्ट इति भवान् भवदीयमातरं कथयेत्, ततः सा निषेधं न करिष्यति, इति ।
मुखरजीमहोदय उक्तवान् - मातरमेवमाख्यातुं न शक्तोऽहम् । यतो मम कृते कर्झन्-इत्यस्याऽऽज्ञा न महत्त्वपूर्णा, अपि तु मम मातुराजैव अनुल्लङ्घनीयाऽऽदरणीया चाऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org