SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द्वितीय उवाच - कनकलालः । स तु कर्णराजस्याऽवतारोऽस्ति, इति मन्येऽहम् । यतः स्वसमीपे यत्किमप्यस्ति तत्सर्वमपि याचकाय दातुं शक्नोति । _तृतीयोऽवोचत् - भवद्भ्यां यदुक्तं तत् सत्यमस्ति । तथाऽपि श्रेष्ठो दाता तु धर्मवीरश्रेष्ठी एव । स पारसमणिसदृशोऽस्ति । तस्य श्रेष्ठिनः स्पर्शमात्रेणैव लोहखण्डोऽपि सुवर्णं भवति, एतादृशो महाप्रभावोऽस्ति श्रेष्ठिदेहस्य । एषा वार्तेकया वृद्धया श्रुता । साऽतीव दुःखिन्यासीत् । युवानौ द्वौ पुत्रौ मृतौ, तदाघातवशेन तयोः पिताऽपि मृत्युं प्राप्तवान् । अतः साऽतीव दुःखिनी जाता । इदानीमेको लघुवयस्कः पुत्रोऽस्ति, किन्तु सोऽपि मृत्युशय्यायां पतित आसीत् । तस्याः समीपे पुत्रचिकित्सार्थमावश्यकं धनमपि नाऽऽसीत् । अतः पुत्रस्य मुखं दर्शं दर्श निरन्तरमाक्रन्दति स्म । तदैनां वार्तां निशम्य तस्याश्चित्ते आशा सञ्जाता । दण्डस्य साहाय्येन शनैः शनैः सा वृद्धा लोहखण्डं गृहीत्वा धर्मवीरश्रेष्ठिनो गृहं गतवती । स श्रेष्ठी गृहाङ्गणे पल्यङ्के स्वपिति स्म । ततः सा वृद्धा श्रेष्ठिनः पादे यावद् लोहखण्डं स्पर्शयति तावत् श्रेष्ठी जागृतः । वृद्धाया एतादृशं कौतुकजनकं वर्तनं दृष्ट्वा श्रेष्ठी आश्चर्यं प्राप्तवान् पृष्टवाश्च - रे वृद्धे ! किं करोषि? वृद्धोवाच - श्रेष्ठिवर्य ! भवान् पारसमणिरस्ति, भवतः स्पर्शमात्रेणैव लोहमपि सुवर्णं भवति - इति जनश्रुतिरस्ति । श्रेष्ठिन् ! क्षमस्व । अहं दुर्भाग्यशिरोमणिः पापिनी चाऽस्मि । मयि जीवन्त्यां सत्यामपि धनाभावेन पति पुत्रौ च पञ्चत्वं प्राप्तवन्तः । अधुना मे आधाररूपोऽवशिष्ट एकाकी पुत्रोऽपि मृत्युशय्यायां पतितोऽस्ति । अतः केवलं धनप्राप्तेराशयैव भवतः समीपे आगतवत्यस्मि । यदि लघुर्लोहखण्डोऽपि सुवर्णखण्डो भवेत्तर्हि मदीयः पुत्र उचितौषधेन नूतनं जीवनं प्राप्नुयात् - इति । वृद्धाया वचनं निशम्य श्रेष्ठिनो हृदये करुणाऽजनिष्ट । मातर् ! लोहखण्डं मह्यं देहि, त्वमत्रोपविशेत्युक्तं श्रेष्ठिना । लोहखण्डं गृहीत्वा 'अस्य लोहखण्डस्य तुलां करोतु' इत्यादिष्टः सेवकः श्रेष्ठिना । श्रेष्ठिन् ! पञ्चविंशतितोलकप्रमाणो लोहखण्डोऽस्ति - इति तेन सेवकेनोक्तम् । एतच्छ्रुत्वा "जलेन भृते चषकेऽधिकं जलं पतेत् तत्सर्वं बहिर्निर्गच्छति, तत् किं दानमुच्यते ? नैव । जलभृतचषकमध्यादेव जलं तृषिताय दद्यात् तदेव दानमुच्यते'' इति चिन्तयता श्रेष्ठिना सेवक आदिष्टः - पञ्चविंशतितोलकप्रमाणं सुवर्णमेतस्यै वृद्धायै ददातु । तत्क्षणं सेवकेन तस्यै तावत् सुवर्णं दत्तम् । सुवर्णं गृहीत्वा गच्छन्ती सा गद्गद्स्वरेणोक्तवती - प्रभो ! अस्य श्रेष्ठिनः सदा रक्षणं कुरु, यत एष अनेकेषां जीवानां रक्षकोऽस्ति, वस्तुत एष पारसमणिरस्ति । ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy