________________
पत्रम् मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये ।
गुरुभगवता साकं वयमेकस्मिन् नगरे स्थितवन्त आस्म । तत्र द्वौ शक्तिसम्पन्नौ श्रेष्ठिनौ वसतः स्म । तत्रैकः पूर्वग्रहग्रथिल आसीत् । सोऽन्यश्रेष्ठिना कथितेषु सर्वेष्वपि कार्येषु विरोधमेव प्रदर्शयति स्म। तदा समाजस्य कियदहितं जातं तद् मया प्रत्यक्षतया दृष्टम् । तस्मिन् काले पूर्वग्रहविषये किञ्चिच्चिन्तनं जातं तल्लिखामि ।
पूर्वग्रहो नामैकान्तवादो मूढता, दृष्टेः सङ्कोचनं च । पूर्वग्रहशून्यता नाम स्याद्वादो दृष्टविस्तारश्च ।
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org