________________
अत्र कस्यचिदपि वस्तुनो घटनाया व्यक्तिविशेषस्य च सर्वतो निरीक्षणं करणीयम् । कदाचिदपि कुत्रचिदपि च स्वमतस्य स्वाग्रहस्यैव च नाऽवकाशोऽस्ति, अपि तु सर्वस्या अपि संभावनाया मुक्तमनसा स्वीकारोऽस्ति ।
एष पूर्वग्रहो जनान् सत्यतो वस्तुस्थितितश्च दूरीकरोति, तथाऽहितस्याऽसत्यस्य च मार्गे नयति । एष सतोः नयनयोरपि जनानन्धीकरोति । अहं यन्मन्ये तदेव सत्यमित्याग्रहादेतादृशो जनोऽन्यजनान् निरन्तरं पीडयति, बहूनां जनानां च शक्तिं निरोधयति, तेषां जीवने क्लेशमप्युत्पादयति च । एतदेव पूर्वग्रहस्य वैशिष्ट्यमस्ति ।
जनः पूर्वं यादृश आसीत् तादृश एव सर्वदा स्थास्यतीति चिन्तनं नाम पूर्वग्रहः । ततः स जनो यदा किमपि कुर्याद् वदेच्च तदा स पूर्वग्रहदृष्ट्यैव तस्य कार्यस्य कथनस्य च मूल्याङ्कनं करोति । एष जन एवमवदत् ततो निश्चितं ज्ञेयम् - अस्य मनस्येतादृशस्तादृशो वा भावोऽस्तीति । अत्र केवलं स्वकल्पित-विकल्पानामेव प्राधान्यमस्ति, न तु सत्यस्य ।
यथा - एष जनो ह्यः कर्णावतीनगरं गतः, अद्याऽपि तत्र गतवान्, श्वश्चाऽपि तत्रैव गमिष्यति, ततोऽस्य मनसि कोऽपि विशिष्ट आशयोऽस्ति - इति मननं नाम पूर्वग्रहः ।
अस्य देहे ह्यः प्रतिकूलता जाता, अद्याऽप्येवं जातं, तद् एतेनाऽभक्षणीयं किमपि भक्षितमिति कल्पनं नाम पूर्वग्रहः ।
तथा – एष जनोऽद्यैवं वदेत्, कुर्याद् वर्तेत च, स सर्वदा एवंरीत्यैव वदिष्यति, करिष्यति, वर्तिष्यते चेति चिन्तनं नाम पूर्वग्रहः ।
बन्धो ! अस्माभिरेतादृशः पूर्वग्रहो न करणीयः । यत एष क्लेशस्य मूलमस्ति । यदि यत्तद्घटनायाः सन्दर्भे तद्व्यक्तिचित्तनिष्ठभावना दीर्घदृष्ट्या मुक्तमनसा च विचिन्त्यते तहि क्लेशस्याऽसत्यकल्पनायाश्च संभावना नोत्पद्यते । किन्तु तद्व्यक्ति प्रति पूर्वग्रहेण बद्धचित्तः स जनोऽन्यद् न किमपि विचिन्तयितुं शक्तोऽस्ति ।
पूर्वग्रहोऽपि बहुविधोऽस्ति । किमपि वस्त्वाश्रित्य, कुत्रचिद् विशिष्ट स्थानमाश्रित्य, कदाचिद् विशेषकथनस्य, कदाचिच्च व्यक्ते: पूर्वग्रहोऽपि संभवेत् ।
यथा - एतद् वस्तु यदा यदा मम गृहे आगच्छेत्तदा किमप्यशुभं भवेदेव । दैवयोगेन तद्वस्तुनि गृहे आगते सति येन केन प्रकारेणाऽप्यलाभो भवति । ततस्तद्वस्तु दृष्ट्वैव तन्मनसि क्लेश उत्पद्येत, एष वस्तुनः पूर्वग्रहः ।
अद्यावधि क्षीरपाकस्य भोजनेन प्रसन्नता देहपुष्टिश्च भवति, इति मन्यते स्म । किन्त्वेकदा केनाऽपि कारणेन तद्भोजनेन देहे प्रतिकूलता जाता, ततस्तेन निर्णीतं क्षीरपाकेनैतज्जातम् । तत्पश्चान्न कदाऽपि क्षीरपाकं भक्षयेत् । एषोऽपि पूर्वग्रहः ।
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org