________________
एवं स्थानमाश्रित्य, कथनमाश्रित्य, व्यक्तिविशेषं चाऽऽश्रित्याऽपि पूर्वग्रहो बध्यते ।
पूर्वग्रहवशेन अ-जनं प्रति रागोऽस्ति - एष अ-जन: सरल: सज्जनश्चाऽस्ति, एष मेऽहितकरं न कदाऽपि कुर्यात् कारयेच्चेति । पश्चात् स अ-जनोऽसभ्यरीत्या वर्तेत, मम कृते एव वितथं वदेत, तथाऽपि तं प्रति रागवशेन स अ-जनः सरल एव प्रतिभाति - व्यक्तिमाश्रित्यैष रागस्य पूर्वग्रहः ।
तथैव ब-जनं प्रति द्वेषोऽस्ति - एष मे प्रतिकूलं वर्तते, मम विरोध्यस्ति, ममाऽहितकरणे प्रयततेइति । अत्र ब-जनस्य चित्तेऽद्यावधि मम कृते मलिनविचारलेशोऽपि नाऽऽगतः, स तु सदा मे शुभकरणे एव प्रयतते । कदाचित्तु ममाऽशुभचेष्टां केवलं ब-जन एव जानाति, तथाऽपि स ब-जनो मां प्रशंसते एव । तथाऽपि पूर्वग्रहवशेन ब-जनं प्रति मे यो द्वेषोऽस्ति तेन स ब-जनो मम दुष्टतयैव प्रतिभाति । एष व्यक्तिमाश्रित्य द्वेषस्य पूर्वग्रहः ।।
कदाचित् कश्चिद् ब-जनस्य द्वेषी अस्ति । स द्वेषी ब-जनस्याऽहितं भवेदिति स्पहयति, किन्तु स तत्कर्तुं न शक्तो जातः । ततः स द्वेषी मम समीपमाग 4 ब-जनविषयकं वितथं वदेत् । एवं मे चित्ते यो द्वेष आसीत्, तस्मिन् वृद्धिं करोति । एवमपि पूर्वग्रहो दृढो भवति ।
व्यक्तिमाश्रित्योक्त एष पूर्वग्रहः । अत्र सर्वेऽपि पूर्वग्रहा अहितकरा एव सन्ति, तथाऽपि व्यक्तिविशेषस्य पूर्वग्रहस्तु नितरामनर्थकरोऽस्ति । बन्धो ! पूर्वग्रहेण कियदहितं भवति, तत्तु कदाचिदनुभवेन, कदाचित् स्वाध्यायेन, कदाचिच्च सामाजिकवातावरणेन ज्ञायते । सर्वेऽपि जनाः शक्तिमन्तः सन्ति । तत्र कस्यचिज्जनस्य बुद्धिकौशल्यं, कस्यचिज्जनस्य वाक्शक्तिः, कस्यचिज्जनस्य व्यवहारनैपुण्यं, कस्यचिज्जनस्य कार्यनिपुणता, कस्यचिज्जनस्य नेतृत्वशक्तिः, कस्यचिज्जनस्य च व्यवसायचातुर्यं स्यात्, किन्तु सर्वेऽपि जनाः सर्वशक्तिसम्पन्नाः स्युरेवेति कदाऽपि न संभवति । जनेषु या या शक्तिर्विद्यमानाऽस्ति तस्या यदि यथार्थोपयोगः स्यात्तर्हि सा शक्तिबहुजनहिताय भवेत् । हन्त ! अस्माकं दुर्भाग्यं यच्चित्ते प्रवर्तमानेन पूर्वग्रहेण जनानां सद्गुणानां तत्तत्शक्तीनां चोपेक्षां कृत्वा केवलं निषेधात्मकदृष्टिमेव केन्द्रीकृत्य पश्यामो वयम्।
कदाचित् कश्चिज्जनो विशेषशक्तिसम्पन्नोऽस्ति, किन्तु तस्य केनाऽपि कारणेन कस्यचिदन्यव्यक्तिविशेषस्याऽवलम्बनमावश्यकमस्ति । यदीदानीमालम्बनदातैव पूर्वग्रहवशेनाऽन्यजनस्य समक्षं तज्जनस्य निन्दामवहेलनां च कुर्यात्तर्हि किं भवेत् ? एष कीदृशोऽस्ति, इति त्वन्यजनो न जानाति । तथाऽप्यस्याऽऽलम्बनदातुः समाजे प्रभुत्वमस्ति, ततस्तत्कथनानुसारेणाऽन्यजनस्य चित्ते तस्य जनस्य कृते कुविकल्पा: संशयाश्चोत्पद्यन्ते एव । पश्चात् सर्वेष्वपि कार्येषु तं जनं तदृष्ट्यैव द्रक्ष्यति । एवमेकस्य जनस्य पूर्वग्रहेण साक्षात् परम्परया वा बहूनां जनानामहितं भवति, तदेतेन ज्ञायते ।
एवं च सर्वत उपेक्षावशेन विशेषशक्तिसम्पन्नस्याऽपि जीवस्य शक्तिनिरर्थका कुण्ठिता च भवति । किञ्च - तस्य चित्ते पूर्वग्रहयुक्तस्य जनस्य कृतेऽरुचिर्दुर्भावश्चाऽपि प्रकटितो भवति - एष एव मे मार्गेऽव
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org