SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ यद् - यद्यहं जलप्लवनं कुर्यां भ्रातरं रक्षितुं तदाऽहमपि म्रियेय अतः स तट एव तिष्ठति । अत्र च, नकुला एतेऽपि जानन्ति स्म यद् - गरुडस्याऽस्य विरोधं कुर्वाणा वयं म्रियेम एव । एवं सत्यपि मनुष्यवत्तटस्था न भवन्तस्ते गरुडस्य सम्मुखीना जाता एव । अतो मनुष्यादपि तेऽधिकं दयावन्तः परहितनिरताश्चेति निश्चितं खलु ! इदानीमन्तिमं दृष्टान्तं विलोकयामः । पश्चिम एशियाखण्डे, उत्तर- आफ्रिकायां दक्षिणे च यूरोपखण्डे पतरङ्गा (Bee-eaters) नामकाः पक्षिणो भवन्ति । एते हि पक्षिणः सदा यूथेन सहैव वसन्ति । आदिनं यूथस्था एवैते आहारं मृगयन्ते, नीडानपि च यूथस्थिता एव निर्मान्ति । अथ च केचित् नीडान् बध्नन्ति केचिच्च न । तत्र ये न बध्नन्ति ते परहितार्थमेव । कथमिति चेत् ? एवम् - ते हि नीडानिर्मातारोऽन्येषां नीडनिर्माणे साहाय्यं कुर्वन्ति । एवंकरणेन ते किं प्राप्नुवन्तीति न प्रष्टव्यं प्रत्युतैवंकरणेन ते किं विनाशयन्तीति प्रष्टव्यम् । ते हि स्वगृहवासावसरं विनाशयन्त्येवं परसाहाय्यकरणेन । आश्चर्यजनकं प्रतिभाति खल्वेतत् ! कोऽपि मनुष्यः कदाऽप्येवं परोपकारार्थं स्वगृहं प्रज्वालयेत् खलु ? किन्तु पक्षिणामेतेषां परोपकार एव पक्षपातोऽतस्ते स्वनीडनिर्माणं त्यक्त्वाऽन्येषां स्वजातीयानां नीडनिर्माणे साहाय्यं कुर्वन्ति । अन्यदा बेङ्गलूरुनगराभ्यर्णवर्तिषु वनप्रदेशेषु एस्. श्रीधरः प्रवीण- कारन्थश्चेति द्वौ पक्षिशास्त्रिणौ निरीक्षणार्थं गतवन्तौ । तदात्वे हि पक्षिणामेतेषामृतुकाल आसीत् । अतस्ते नीडनिर्माणे निरता आसन् । अथाऽऽभ्यां पक्षिशास्त्रिभ्यां निरीक्षितं यत् ४० प्रतिशतान् (४०%) नीडान् केवलं पक्षि-पक्षिण्यौ न निर्मातः किन्त्वन्येऽपि स्वयंसेवकरूपाः पक्षिणस्तत्र साहाय्यं कुर्वन्तीति । यदा च नीडनिर्माणं पूर्णीभवति तदैते स्वयंसेवकाः स्वनीडनिर्माणं प्रारभन्ते । फलतश्च तेऽत्यल्पतयाऽण्डानि प्रसवितुं शक्ता अभवन् सर्वथा वाऽण्डप्रसवनं न कृतवन्तः, यत एतेषां पक्षिणामृतुकालोऽत्यल्पो भवति । स्वयंसेवकपक्षिणां तेषां कीदृशी निःस्वार्थता परोपकारिता च ! अथवा मनुष्यमनोवृत्त्या तु सर्वथा मूर्खता ! यतो मूर्खा एव स्वगृहं विनाश्य परोपकारार्थं धावन्ति । एवं ते किमर्थं कुर्वन्तीति न केऽपि पक्षिशास्त्रिणो जानन्ति । केवलं तेऽनुमान्ति यत् - तेषां पक्षिणामृतुकालस्याऽल्पत्वात् यदि सर्वेऽपि पक्षिणः स्वस्वनीडान् निर्मातुं निरताः स्युस्तदा तदर्थं कालव्ययोऽधिकः स्यात् फलतश्चाऽण्डप्रसवनमल्पीयो भवेत् । वन्यपक्षिषु बालमरणान्यकालमरणान्यपि च बहुधा भवन्तीति क्रमेण समग्राऽपि जातिरेव विनष्टा स्यात् । एवंस्थिते यदि केचन एव पक्षिणोऽधिकाण्डप्रसवनं कुर्युः केचन च सर्वथा न कुर्युस्तदैव तेषां हितं स्यात्, जातिश्च रक्षिता भवेत् । अनुमानमिदं सर्वथा सङ्गच्छते । अण्डसङ्ख्यावृद्धिरपि निरीक्षकैर्लक्षिताऽस्ति । किन्तु रहस्यमेकमनुद्घाटितमेव तिष्ठति यत् - मनुष्यवदेते पक्षिणः किमर्थं स्वार्थिनो न सन्ति ? किमर्थं ते साहाय्ययाचनं विहाय साहाय्याने उद्युक्ता भवन्ति ? किमर्थं ते स्वहितं विनाश्याऽपि परहितनिरता भवन्ति ? यद्यवकाशो लभ्येत तदा रहस्यमिदमधिकृत्य विचारयितव्यमस्माभिः । प्रायशस्तु स्वार्थनिरता वयं निरर्थकतया प्रतिभासमानमेतादृशं विचारयितुमवकाशमेव न लभेमहि खलु !! (आधार: गुर्जरभाषीया सफारी - विज्ञानपत्रिका ) Jain Education International ३९ For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy