________________
*ट्रायोलेट-द्वयम् प्रा. अनिल द्विवेदी
१. सम्बन्धः क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा । अहो सम्बन्धानां भवति गणितं विस्मयकरम् । क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा । यदा स्वार्थान्मुक्तो, व्रजति समये नश्यति न हि, यदा स्वार्थाऽऽसक्तः, सरति समये क्षायति शनैः । क्वचित्सम्बन्धोऽयं चलति समये पुष्प्यति सदा,, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा ।
२. साहित्यम् साहित्ये नितो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः । साहित्ये सति भाति विश्वमखिलं, नष्टं भवेदन्यथा । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत् । काव्यास्वादपयोधिमग्नमनसां विश्वं भवेत्सुन्दरम्, ते कुर्वन्ति जनाः सदैव सफलं स्वं मानवत्वं खलु । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः ।
* Triolet इति फ्रेन्चकाव्यप्रकारोऽयम ।
आरोही एपार्टमेन्ट पटेल कोलोनी, जामनगरम्
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org