________________
Jain Education International
५. वेपन्ते
द्रुमाः समीरस्यैः काननेषु वेपन्ते जनाः शरीरभयैः प्राङ्गणेषु वेपन्ते ॥ १ ॥ दिने समर्च्य निशीथे नु लुण्टतिच्छत्रम् अर्चकं प्रेक्ष्य सुरा मन्दिरेषु वेपन्ते ॥२॥ आत्मघाताय चितोऽयं ममाऽतिभक्तो वा वन्दनीय इति स्रगर्पणेषु वेपन्ते ॥३॥ विषं निपाय्य हरन्तेऽखिलं नु यात्रायाम् शतं विहाय जनाः सज्जनेषु वेपन्ते ॥४॥ प्रापयन्त्योऽद्य मुखं भक्ष्यपेयसामग्रीम् अहो निजाङ्गुलयो भोजनेषु वेपन्ते ॥५॥ साधुरस्यद्य परं द्रक्ष्यसे भविष्ये किम् ! इतीवं चेतना हृत्स्पन्दनेषु वेपन्ते ॥६॥ मूलमातङ्कतरोर्धर्म एव जातश्चेत् तर्हि सद्भावनाः पैगम्बरेषु वेपन्ते ॥७॥
ध्रुवं विषाक्ततरा मानवा इमेऽरमत्तः धियेति नम्रफणाश्चन्दनेषु वेपन्ते ॥८॥
१६
For Private & Personal Use Only
Sunrise Villa
Lower Summer Hill Shimla 171005
www.jainelibrary.org