________________
नागराजविरचितं कलिविमर्शनशतकम्
एच्. वि. नागराजरावः
Jain Education International
समस्ते भूमिवलये सुखदुःखविदालये । सम्प्राप्तनित्यबलये कलये कलये नमः ॥१॥ अविमृश्य गुणान् दोषान् पुण्यं पापं च केचन । युगं कलिं विनिन्दन्ति सम्प्रदायं समाश्रिताः ॥२॥ निष्पक्षपातया दृष्ट्या परीक्षा क्रियतां बुधैः । 'उच्चावचं समालोक्य जगच्चरितमद्भुतम् ॥३॥ गुणाश्च दोषाश्च परीक्षणीयाः निष्पक्षपातैः `कृतिभिर्युगानाम् । पूर्वेऽभिवन्द्याश्रमे तु निन्द्या युगस्तु कश्चिन्न हि गर्हणीयः ॥४॥ सर्वेषु कालेषु भवन्ति दुष्टाः शिष्टाश्च कालो न हि तत्र हेतुः । प्राज्ञास्तथाऽज्ञाश्च भवन्ति लोके तिक्तं च मिष्टं च फलं द्रुमेषु ॥५॥ विद्वांसः कविपुङ्गवाः सुकृतिनो दानव्रतप्रोज्ज्वलाः सच्चारित्रविभूषणाश्च गुरवो ज्ञानप्रदानोत्सुकाः । सर्वत्रैव परोपकारनिरताः विद्यादिहृद्योद्यमाः विद्यन्ते
कलावपि क्षितितले कस्मादयं निन्द्यते ॥ ६ ॥ प्रचरति जिनभक्ति: श्रूयते देवगानं मधुरनिगमशब्दो बोभवीति प्रकृष्टः ।
यतिचरणसपर्यां कुर्वते सर्वलोकाः कलियुगमिह कस्मान्निन्दति प्राज्ञलोकः ? ॥७॥
१. उच्चावचो नैकभेद:
२. धीमान् सूरिः कृती कृष्टिः ३. प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति सर्वनामता
१८
For Private & Personal Use Only
www.jainelibrary.org