SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीमन्तः पूज्याः नन्दनवनकल्पतरुसम्पादकाः कीर्तित्रयीसञ्ज्ञया प्रसिद्धाः यतीश्वराः प्राप्यते नन्दनवनकल्पतरुः समयानुसारेणाऽनवरतम् । अस्मिँश्च सामयिके जैनधर्मस्य संस्कृतसाहित्यस्य वैविध्यमवश्यं पठ्यते शास्त्रविद्भिर्विद्यार्थिभिश्च । भवन्तोऽभिनन्दनार्हाः । मान्याः, यावत् गङ्गा च गोदां च यावद् नगो हिमालयः । यावच्चन्द्रश्च सूर्यश्च तावज्जयतु संस्कृतम् ॥५॥ अक्षरधाम, गांधीनगरम् सादरं प्रणामाः । - श्रीहेमचन्द्राविशेषाङ्के – 'प्रास्ताविके' सत्यं निगद्यते । संस्कृतभाषया साम्प्रतं समग्रजगतो मार्गदर्शनं कर्तुं शक्यते । प्रागपि भारतस्य जगद्गुरुत्वं देववाण्या बले प्रतिष्ठितं बभूव । 'कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यस्य विशेषे' महनीय श्रीहेमचन्द्राचार्यस्य विषये विशिष्टा लेखाः सर्वथाऽभिनन्द्यसत्त्वाः सन्ति । विलक्षणप्रतिभोपेतस्य पूज्याचार्यवर्यस्य प्रत्येकं क्षेत्रेषु कृतानि कार्याणि चिरं संस्मरणीयानि सन्ति । तस्यौदार्यमिदानीमपि न केवलं भारते, अपि तु निखिलजगति विविधधर्मेषु सम्प्रदायेषु च सद्भावं संस्थापयितुं शक्नोति । आचार्यवर्यस्य ग्रन्थानां संक्षिप्तः परिचयोऽस्मान् प्रसादयति, किन्तु तेषां ग्रन्थाः कुतः प्राकाश्यं नीताः - इति न सूचितम् । यद्यपि पत्रिकायाः मुद्रणं भव्यं रम्यं चास्ति, तथापि मम लेखे ११७तमे पृष्ठे ऋग्वेदमन्त्रे तृतीयपङ्क्तौ 'बाहू राजन्य: कृत:' इति स्थाने 'बाहू संरक्षकः कृतः' मुद्रितमस्ति । Jain Education International - साधुः श्रुतिप्रकाशदासः ‘वार्तायाम्’-‘नन्दनकल्पकरोरुद्भवो विकासयात्रा च' इति लेखतो न केवलं पत्रिकायाः प्रकाशनस्य समुद्भवस्य विकासयात्रायाः च विवरणं ज्ञायते, अपि तु 'कीर्तित्रयी' इति शब्दस्य तात्पर्यमपि विस्पष्टं भवति । मम मनसि विषयेऽस्मिन् काचिद् भ्रान्तिरासीत् । जयतु संस्कृतं संस्कृतिश्च । डॉ. रूपनारायणपाण्डेयः For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy