________________
অনেলে সনিসক্সে:
संपूज्याः,
भवद्भिः कृपया प्रेषिता नन्दनवनकल्पतरोः षड्विंशी शाखा अत्र प्राप्ता अस्ति धन्यवादाः । पञ्चविंशीम् अहं श्रद्धया पठितवान् ।
(१) जैनदर्शनविषये अहम् इतः पर्यन्तम् अज्ञ आसम्, प्रायः । कल्पतरोर्वाचनेन, विशिष्य तत्र नूतनतया आरब्धस्य "जैनदर्शनसत्कतत्त्वविभावनाः" इत्यस्य स्तम्भस्य पठनेन प्रबोधितः भवामि । पञ्चविंश्यां शाखायाम् अग्रिमा शाखा कलिकालसर्वज्ञविशेषाङ्कः भविष्यति इति उद्धृष्टम् आसीत् । अधुना दीर्घ प्रतीक्ष्यमाणां षड्विंशी प्राप्य अहम् अतीव प्रमुदितः अस्मि ।
(२) पत्रिकायां गये पद्ये च विशिष्टप्रयोगाः दृश्यन्ते । तेषां क्रोडीकरणेन मामकं संस्कृतज्ञानमपि वर्धमानम् अस्ति ।
- इति भवदीयः
रवीन्द्रः M.A. Ravindran Palghat-678012 (Kcrala)
*
*
*
सम्मान्याः,
सादरं नमो नमः ।
अकारणकरुणावरुणालयैर्भवद्भिः कृपया संप्रेषितौ नन्दनवनकल्पतरुः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेष: इति, श्रीहेमचन्द्राचार्यः (जीवनचरितम्) इति च द्वौ ग्रन्थरत्नौ सम्प्राप्तौ । इदं ग्रन्थरत्नद्वयं सहृदयानां कृते परमानन्दकारकमनुसंधित्सूनां कृते बहूपकारकं भविष्यति तत्र नास्ति सन्देहलेशः ।
- किशोरचन्द्रः पाठकः
षड्विंशतितमी शाखा प्राप्ता । कलिकालसर्वज्ञप्रतिभातन्मयं चित्तं सञ्जातम् । कल्पतरुर्विद्वज्जनसङ्के जैनमुनीनां विद्वत्तां नितान्तं ख्यातां करोति । भवतां प्रयत्नेभ्यः शतशोऽभिनन्दनानि.... अन्तत आन्तं कल्पतरुस्तिष्ठेदिति, विद्वज्जनमनांसि चमत्कुर्यात्सदेति च वीतरागाय प्रार्थनम्....
- मुनितीर्थबोधिविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org