________________
सारस्वतानां मान्यः हेमचन्दः ॥
डॉ. वासुदेव वि. पाठक: ‘वागर्थ'
हेम्नः तेजस्विता यत्र, शैत्यं चन्द्रस्य शोभते । जाते तयोश्च संयोगे हेमचन्द्रायितं वरम् ॥
आचार्ये हेमचन्द्रेऽस्ति सारस्वतमहोज्ज्वलम् । गौरवं गूजरातस्य भारतस्य च गौरवम् ॥
मणिकाञ्चनसंयोगः सुवर्णस्य सुगन्धिता । द्विगुणितं हि वैशिष्ट्यं हेमचन्द्रे तथाऽभवत् ॥
स कलिकालसर्वज्ञः नानाशास्त्रविशारदः । मान्यः सारस्वतानां च संस्कृतानां विशेषतः ॥
श्रीसिद्धराजस्य सुज्ञत्वमेव श्रीहेमचन्द्रस्य वप्रसादः। सारस्वतं तेन कृतं प्रदानं भव्या कृता संस्कृतकर्मशोभा ॥
सार-दाः शारदापुत्राः साम्प्रते लोकविश्रुताः । आचार्यों हेमचन्द्रस्तु राजते पूर्णचन्द्रवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org