SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (अनुष्टुप्) (शार्दूल०) (मन्दाक्रान्ता) (शार्दूल०) ॥ अथ स्तुत्यनामगर्भो बीजपूरप्रबन्धः ॥ यस्य गौः पाति संसारं, यस्योड्डीनं यशो वरम् । यस्य शक्तिरवेन्नारं यत्नात्सोऽस्तु श्रिये परम् ॥३८॥ श्रीगौडीपतिपार्श्वसंस्तुतिमिमां गायन्ति शृण्वन्ति ये ते पार्श्वेकपरायणा भुवि नरास्त्राणप्रवीणा वराः ॥ आर्त्तिं शल्यनिभां निहत्य सकलां शान्तिश्रियालिङ्गिताः ख्यातिं निश्चितमश्नुवन्ति भुवने सिद्धिं च ते विन्दते ॥३९॥ श्रीमन्नेमीश्वरगुरुवरोत्कृष्टपादप्रसादादेवं गौडीपुरपतिवरस्संस्तुतः पार्श्वनाथः ॥ मोहध्वान्तप्रमथनपटुः पण्डितः पुण्यदाने दोषप्लोषं विकिरतु सतां सत्यमार्गप्रदाता ॥ ४० ॥ मायामोहतमोविमोहितदृशामाशापिपासाकुलस्वान्तानां परितो गवेषितशमानन्दामृतानां नृणाम् ॥ श्रीनेमीश्वरसूरिराज्यसमये पार्श्वस्तुतिस्संस्तुता भूयाच्छान्तिकरी प्रपूर्णमनसां नित्यं तु पार्श्वस्तुतौ ॥ ४१ ॥ गौडीशस्तुतितो न किञ्चिदपरं याचे फलं लौकिकं नो वाऽलौकिक मिष्टदेव ! भवतः किन्त्वेकमेचाऽस्तु मे ॥ तत्त्वातत्त्वविवेचनैक चतुरस्याऽऽत्यन्तिकं भावतः श्रीनेमीश्वरसद्गुरोः शमनिधेरानन्दपूर्णं मनः ॥४२॥ इतिश्रीदुर्लालितसकलदुरितोद्वेगदुर्व्वेगसरित्पयोऽपारपूरविप्रोषभीष्मग्रीष्मायमाणसंसारभार नल्पकुविकल्पोद्गच्छदतुच्छदुःखदावानलप्रशमनकैधाराधरायमाणसंसर्पत्सपण्डवर्गदर्शनाम विदारणागदङ्कारायमाणजिनवरवरचरणस्मरणप्रसादसन्दर्भनिर्भरगभीरगीर्भ्रमन्मन्यदाराष्ट्र ध्धुमधुमितसिन्धुप्रतिभटायमान श्रीमद्विजयनेमिसूरीश्वराणां चरणचञ्चरीकायमाणविनेययशोविजयावेरचितं श्रीगौडीपुरपति पार्श्वनाथस्तवनं पूज्यपादारविन्दानां गुरुवराणां श्रीमद्विजयनेमिसूरीश्वराणां प्रसादात् समाप्तम् ॥ Jain Education International ७ For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy