SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कामयते 'आगच्छतु ह्यधुना श्रीरामः । लोकः भवतु नूनमभिरामः || अत्र कोऽपि परहितं न पश्यति, सर्वत्रैव च स्वार्थो नृत्यति ॥ अज्ञः लोलुपतामवगच्छति, मनोरमा मानवता नश्यति । नास्ति दृश्यते शान्तिविरामः । आगच्छतु ह्यधुना श्रीराम: ॥ ' ( संस्कृत०, पृ. ६५) अपि न केवलं मानवताया रक्षणाय, दानवतायाश्च संहरणाय श्रीरामस्य चरितमादर्शभूतं विद्यते, तु परिवारनियोजनायाऽपि स सततं संस्मरणीयोऽस्ति । 'अभिरामं श्रीरामं पश्यतु, तस्याऽऽदर्शं मनसि च रक्षतु । मितपरिवारयुतः सः रामः, सुस्मरणेन भवति विश्रामः ॥ तस्य सुकर्म च हृदये धार्यम् । कुलनियोजनं सम्यक् कार्यम् ॥' (संस्कृतः, पृ. ८२) परिवेशपरिशुद्धिः समग्रविश्वस्य कृते नितरामपेक्ष्यते । तत्राऽपि गीतकारस्योपदेशः स्मर्तव्योऽस्ति । सोऽन्तः परिवेशशुद्धिमपि वाञ्छति Jain Education International * 'वप वप सम्यक् वृक्षसमूहम्, ' त्यज त्यज दोषं दुविधाव्यूहम् । जलमध्ये न तु मलं विसर्जय, जलं जीवनं सम्यग् रक्षय ॥' (संस्कृत०, पृ. ९२) गेयता गीतानां मुख्यं तत्त्वं मन्यन्ते विद्वांसः । यद्यपि कृतिरियं प्रसादगुणोपेता सद्भावसम्पूरिता च विद्यते, तथापि सर्वत्र गीतेषु गेयताया माधुर्यं न प्रसादयति मानसम् । यत्र तत्र मुद्रणस्खलितानि सन्ति ( द्र० - पृ० १, ५, ७, ९२ - इत्यादि) तानि भाविनि संस्करणे संशोधनीयानि सन्ति । न केवलं बालानां कृते, अपि समेषां कृते कृतिरियं पठनीया संग्राह्या च । जयतु संस्कृतं संस्कृतिश्च । 'पठनीया ननु संस्कृतभाषा ।' (अत्रैव पृ. १८) ★ अत्र पाठश्चिन्त्यः, मुद्रणत्रुटिर्वा । ५४ For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy