________________
ग्रन्थेऽस्मिन्-वीणावादिनी मातृभूमिं राष्ट्र संस्कृतभाषां शिक्षां जीवनमूल्यं सदाचारं कर्तव्यं लोकहितं मानवतां दर्पदारणं श्रमं संस्कारं सुमतिं धैर्यं श्रीरामं हरिस्मरणं कुमतिवारणं सौहार्द सत्सङ्गं जननी नारीसम्मानं कुलनियोजनं लघुपरिवारं मानवजाति नराणामभेदं मायां पर्यावरणं वृक्षरक्षणं कृषकं वसन्तं मेघं विद्यामन्दिरं विद्यां भगवदर्शनं स्वतन्त्रतां सत्यं शिष्टवाणीं मौनं गुरुं नेतारं चातकं वायसं मनःशान्ति दुर्बुद्धिनिवारणं परमेश्वरं याचनां शिवं समयं कालं कालमहिमानञ्चाऽऽश्रित्य त्रिंशदधिकशतं गीतानि सन्ति । ग्रन्थात् प्राक् कृतिकारस्य 'कथ्यम्', प्रो. डा. राजेन्द्रमिथस्य 'नान्दीवाक्' च विलसतः । प्रतिपृष्ठं ग्रन्थकृतो नामाऽपि शोभते ।
सुकुमारमतीनां शिशूनां बालानां च मनसि निहिताः संस्काराः तु समग्रं जीवितं प्रभावयन्ति । ग्रन्थेऽस्मिन् सरलभाषया लिखितानि यानि गीतानि सन्ति, तानि नैतिकगुणानां संवर्धने, राष्ट्रभक्तेः पोषणे, सद्भावानां समुद्भावने, संस्कृतभाषायाः संस्कृतेश्च संरक्षणे च सहकारं कर्तुं शक्नुवन्ति । राष्ट्रस्य रक्षणं संस्कृतभाषाया अध्ययनं विना न शक्यते । गीतकारस्य मतमिदं का संस्कृतज्ञो न स्वीकुर्यात् ?
'पठतु संस्कृतं राष्ट्र धारय । सुसंस्कृतं च हि देशं कारय ॥ अस्माकं संस्कृतिः संस्कृते, नास्ति समृद्धिः संस्कृताद् ऋते । सन्ति पुराणान्यस्यां वेदाः, विद्या ननु विश्वस्याऽशेषाः । उपयोगं त्वस्या निर्धारय ।
पठतु संस्कृतं राष्ट्रं धारय ।" (संस्कृत०, पृ. २०) सवृत्तस्य क्षीणता सर्वत्र संदृश्यते । दुराचारिणं निन्दता गीतकृता सत्यमुच्यते -
'सदाचारहीनाः ये जनाः । ते तु जारजाः, ते तु जारजाः ।। ये ननु चोत्कोचं गृह्णन्ति, ये च हि प्रदूषणं जनयन्ति । येषां हृदि न च राष्ट्रभावना चित्ते न च कर्तव्यकामना । मातृभूमिभक्ताः न ये जनाः ।
ते तु जारजाः, ते तु जारजाः ॥' (संस्कृत०, पृ.३०) भारतीयसंस्कृतौ भगवतो रामचन्द्रस्य विशदं विशुद्धं च चरितं विश्वविश्रुतं विद्यते । कुत्राऽपि चरित्रस्य संरक्षणाय संवर्धनाय च श्रीरामस्य नवावतारोऽपेक्ष्यते । एकस्मिन् गीते कविः श्रीरामस्याऽऽगमनं
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org