________________
ग्रन्थसमीक्षा
'श्रीहेमचन्दाचार्यः' (जीवनचरितम्) समीक्षकः - डा. रूपनारायणपाण्डेयः
आलेखनम् - मुनिकल्याणकीर्तिविजयः प्रकाशकः - श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा । प्रथममुद्रणम् - वि.सं. २०६७, ई. २०११ । पृ. सं. ८+१०८ । मूल्यम् - १००/प्राप्तिस्थानम् - आ. श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर ।
१२, भगतबाग, जैननगर, पालडी, शारदामन्दिर रोड, अहमदाबाद-३८०००७ । विद्यन्ते विबुधवाण्यां वेदेषु पुराणेषु रामायणेषु काव्येषु च भगवतोऽवताराणां महापुरुषाणां महर्षीणां महामुनीनां कवीनां च महनीयतरं चरितम् । यशोगीतानि च । किन्तु तेषां संक्षिप्तं समीचीनं जीवनचरितं प्रभूतं न विराजते । 'नन्दनवनकल्पतरु'-प्रकाशनान्तर्गतं श्रीमता मुनिकल्याणकीर्तिविजयमहाभागेन 'श्रीहेमचन्द्राचार्यः' इति ग्रन्थं प्राकाश्यं नीत्वा सुरभारतीसाहित्यस्य तत्क्षेत्रं समृद्धतरं सम्पादितम् ।
ग्रन्थेऽस्मिन् - 'कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जीवनचरितम्' 'श्रीहेमचन्द्राचार्याणां शिष्यवृन्दम्', 'श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः', 'श्रीहेमचन्द्राचार्याणां काव्यसृष्टिः', 'श्रीहेमचन्द्राचार्याणां प्रशस्तिः' चेति पञ्चाध्यायाः सन्ति । अन्ते – 'परिशिष्टम्' अस्ति, यत्र 'श्रीमहादेवद्वात्रिंशिका', 'पाण्डवानां प्रव्रज्या', 'चारिसञ्जीवनीदृष्टान्तम्', 'प्रसङ्गाः' च विलसन्ति ।।
कस्मिन्नपि जीवनचरिते चरितनायकस्य जीवनस्य प्रमुखघटनाः, तस्य कार्याणि, गुणा दोषाश्च, समाजस्य राष्ट्रस्य समग्रभूतसमुदायस्य च कृते तस्याऽनुप्रदानञ्चेत्यादीनि मुख्यानि तत्त्वानि भवन्ति । ग्रन्थेऽस्मिन् श्रीमतो हेमचन्द्राचार्यस्य (११४५-१२२८ वि.सं.) जीवितस्य प्रमुखा घटनाः कुमारपालप्रतिबोधप्रबन्धचिन्तामणि-प्रबन्धकोशादिग्रन्थान् समाश्रित्य वर्णिताः सन्ति । ग्रन्थकारः स्वयं वदति - 'कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्ण जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटनाः प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद्वर्णितमस्ति' (श्रीहेम०, पृ. ६२) । आचार्यवर्यस्य पिता श्रेष्ठी चच्चोऽभूत, माता च चाहिणी । केषुचिद् ग्रन्थेषु तस्य मातुर्नाम 'पाहिणी' इत्यप्यभिधीयते, किन्तु ग्रन्थेऽस्मिन् तस्मिन् विषये किमपि नोक्तम् । जन्मतः 'चङ्गदेवः' इति नाम्ना श्रुतस्य तस्य ११५४तमेऽब्दे मुनिसोमचन्द्र इति नाम दीक्षाकाले गुरुणा श्रीदेवचन्द्रसूरिणा कृतम् । वाग्देवतां भगवतीं सरस्वती समाराध्य सिद्धसारस्वतस्य तस्य त्वेकया विलक्षणया घटनया ११६६तमेऽब्दे, आचार्यहेमचन्द्रसूरिरिति नाम गुरुवर्येण विहितम् (पृ.१९-२०) । तेन निखिलं जीवितं प्रायशः सिद्धराजजयसिंहस्य कुमारपालस्य च राजसभायां मार्गदर्शकरूपेण यापितम् । तस्य प्रेरणया सौराष्ट्र (गूर्जरप्रदेशे) पशुवधो निषिद्धः । ग्रन्थकारो मन्यते गूर्जरजनेषु या सौम्यता शिष्टता सहिष्णुता वा विद्यते, तत्र प्रधानहेतुः
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org