________________
- दृष्टिसमक्षं निरन्तरं किमप्यतीव सुन्दरं वस्तु स्थापनीयम् । भवतु नाम, एकस्मिन् पात्रे पुष्पमपि
स्यात् । - त्वया यत् कार्यं कर्तुं शक्यं तत् करणीयमेव, किन्तु किमपि नैव करणीयमिति न चिन्तनीयम् । - न सम्पूर्णतार्थम्, अपि तु श्रेष्ठतार्थमेव प्रयतनीयम् । - यत्तुच्छमस्ति तत् प्रथमं परीक्षणीयं, ततस्तदवगणनीयम् ।
जये पराजये च सर्वदा प्रामाणिकताऽऽचरणीया, तथा प्रशंसा जनसमक्षं, निन्दा चैकान्ते करणीया। विश्वस्मिन् विश्वे यत् सुन्दरं तदन्वेषणीयम् ।
तव कुटुम्बिजनांस्त्वं कियत् प्रीणयसि तत् प्रतिदिनं तव शब्दैः स्पर्शेर्विचारैश्च दर्शनीयम् । - कदा वदनीयं कदा च न वदनीयं तदपि सर्वदा चिन्तनीयम् । - स्वकीयजीवननिर्वाहार्थं प्रयतमानैः सर्वैरपि जीवैः सह सादरं ससन्मानं च वर्तनीयं, भवतु नाम तेषां
कार्यमतीव लघ्वपि स्यात् । त्वया तादृशं जीवितव्यं यत्, त्वदीया बालकाः प्रामाणिकताविषये निष्ठाविषये च त्वां सदा संस्मरेयुः । दृढमस्तिष्केण कोमलहृदयेन च भाव्यं त्वया । कः सत्यवादी - इति चिन्तने समयव्ययो न करणीयः, अपि तु किं सत्यमिति निश्चयनीयम् ।
या ग्रन्थिः शिथिलीकर्तुं शक्या सा नोच्छेदनीया । - महत्स्वपि सङ्घर्षेषु विजयप्राप्त्यर्थं लघुष्वपि सङ्घर्षेषु हसित्वा वर्तनीयम् ।
एकस्य दिवसस्य यावन्तो घण्टास्त्वयोपलब्धास्तावन्त एव घण्टाः 'हेलनकेलर-मधरटेरेसाआइन्स्टाइन-महोदयादिभिरपि प्राप्ताः' ततो 'नास्ति समय: - इति न कदाऽपि वक्तव्यम् । सत्तायाः सम्पत्तेः प्रतिष्ठायाश्चोपरि नास्ति सुखस्याऽऽधारः किन्तु वयं येभ्यो जनेभ्यो रोचामहे, याँश्च
सन्मानयामस्तादृशैर्जनैः सह यो मधुरसम्बन्धोऽस्ति तस्योपर्यस्ति, इति न कदाऽपि विस्मर्तव्यम् । - त्वया सन्मानादिके प्राप्ते सत्यन्येऽपि सहभागिनः करणीयाः । - नाऽहं जानामि, मयाऽपराधः कृतः, मदीयस्खलेनाऽहं खेदमनुभवामि - इत्यादिकथने न भीतिर्लज्जा
चाऽऽसेवनीया । निष्फलतायाः सत्कारार्थमपि सदा सन्नद्धो भवः ।
महेन्द्रमेघाणी-संगृहीत'अर्धी सदीनी वाचनयात्रा' इति
पुस्तकात् संकलितम् ।
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org