________________
अनुवादः
जीवनपाथेयम् मुनिधर्मकीर्तिविजयः
स्वपुत्राय किञ्चिद् जीवनपाथेयं देयमित्युद्दिश्य केनचिद् पित्रा कानिचिद् हितवाक्यानि लिखितानि सन्ति । तान्यत्र लिख्यन्ते - - उत्तमानि सुन्दराणि च पुस्तकानि सदा क्रेतव्यानि । तानि कदाचिदपि न पठ्यन्ते तद्यपि चिन्ता न
कार्या । - प्रतिदिनं चमत्कारा भवन्ति । ततः सर्वदाऽऽशा न त्याज्या ।
सर्वेष्वपि कार्येषु श्रेष्ठताया आग्रह आसेवनीयः । देहस्य स्वास्थ्यं सदा स्वानुकूलमेव स्यादिति न मननीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org