________________
काव्यानुवादः
अदृष्टयागं विमलं तवेक्षणम् समश्लोकानुवादः प्रा. डॉ.किशोरचन्द्रपाठकः
(उपजातिवृत्तम्) अदृष्टरागं विमलं तवेक्षणं स्पृष्टं न वा तन्नवयौवनश्रिया । वासः कृतः स्वामिगृहेऽद्य हन्त भोः कृतं चिताभस्मविभूषणं त्वया ॥१॥
नव्या विकाशं न वपुलता ययौ स्फुटं वपौ ते न नवं च यौवनम् । रुढं त्वया जीवनमंशुकं नवं प्रभ्रष्टमेतद् वपुषस्तवोज्ज्वलात् ॥२॥
स्थित्वा तटं विश्वमहोदधेस्त्वया एको गृहीतः सदयं जलाञ्जलिः । ज्ञातं नवा स्वादु नवा कटु त्वया पदच्युतिस्ते त्वभवन्महोदधौ ॥३॥
आयात् स कालः शिशिरो यथोचितं दहेद् दवाग्निर्मूदुपल्लवश्रियम् । ईषन्मधुश्वाससमीरणेन हा समुद्धृतं कोमलपुष्पकुड्मलम् ॥४॥
पद्मपाणि ७ आनन्दनगर अमरेली ३६५६०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org