________________
श्रीहेमचन्द्राचार्यस्य कार्याणां कृतीनां गुणानां शिष्याणाञ्च विशिष्टः प्रभावोऽस्ति ।
समाजस्य राष्ट्रस्य समेषां च प्राणिनां कृते तस्याऽनेकानि कार्याणि चिरं संस्मरणीयानि सन्ति । व्याकरणे कोशे भाषाशास्त्रे छन्दःशास्त्रे आयुर्वेदे काव्यशास्त्रे काव्येऽध्यात्मविद्यायां योगे च प्रगल्भप्रतिभोपेतस्य तस्य महनीयानि ग्रन्थरत्नानि विलसन्ति । तस्य समन्वयकारित्वादिगुणानां विवरणं ग्रन्थेऽस्मिन् पदे-पदे विराजते। तद्यथा - "इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः - 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत् ।' ..... तावता गुरवो मधुरवचोभिरुक्तवन्तः - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितं सोमनाथमहादेवमन्दिरं म्लेच्छैविनाशितमस्ति । समग्र देशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपाजितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमन्दिरस्य जीर्णोद्धारं कृत्वा.....सोमनाथमहादेवं प्रतिष्ठितं करोतु ।' (श्रीहेम० पृ. ५०) । १२११तमे विक्रमाब्दे शिवपुराणवर्णितविधिना भगवतो महादेवस्य प्रतिष्ठा कृता । आचार्यचरणेन नितरामुदारभावेन 'श्रीमहादेव-द्वात्रिंशिका' इति स्तोत्रमपि तदानीं प्रणीतम् । अनया घटनया ज्ञायते यत्तस्य मनसि कस्यचिदपि धर्मस्य सम्प्रदायस्य वा समाराध्ये देवे दुर्भावो नाभूत् । (द्र० - श्रीहेम०, पृ. ५०-५२)
मानवे द्वेषभावः सहजो भवति । कदाचित्तस्य निवारणं प्रयत्नेनाऽपि न सम्भवति । अहिंसकस्याऽऽचार्यप्रवरस्य सततं सामीप्यमुपगम्य अपि सिद्धराजस्य जयसिंहस्य कुमारपाले हिंसाभावो न व्यपगतः । (श्रीहेम०, पृ. ३९) भाग्येन, आचार्यवर्यस्य दयावृत्त्याऽपि कुमारपालस्य संरक्षणं जातम् । सिद्धराजजयसिंहस्य कुमारपालस्य च कृत्यानां वर्णनेन, आचार्यशिष्याणां ग्रन्थानां च संक्षिप्तेन परिचयेन, तस्य च कृतीनां कतिपयैरुद्धरणैः, आचार्यचरणानां च विविधाभिः प्रशस्तिभिः प्रसङ्गैश्च ग्रन्थोऽयं सर्वैः सुरभारतीसमुपासकैः संग्राह्यः पठनीयश्च । ग्रन्थेऽस्मिन् यदि महनीयतरस्याऽऽचार्यवर्यस्य विविधानां ग्रन्थानाम्, ग्रन्थस्याऽस्य च लेखने प्रयुक्तानां ग्रन्थानां प्रकाशनस्थलानां प्राप्तिस्थलानां वा निर्देशः, तथैवाऽत्र समुद्धृतानामंशानां च संदर्भ-निर्देशो विधीयेत, तर्हि शोधकर्मणि संलग्नानां विद्वज्जनानां महोपकारः स्यात्, अस्य ग्रन्थस्य च विशिष्टो गरिमा भवेत् ।*
___ मन्येऽग्रे संस्कृतानुरागिभिस्तु श्रीरामकृष्णादिमहापुरुषान् भगवतोऽवतारान् वा श्रीवाल्मीकि-व्यासकालिदास-भास-भारवि-माघ-श्रीहर्षादिकवीन्, श्रीशङ्कर-रामानुजादीन् आचार्यचरणांश्च समवलम्ब्य एतादृशा जीवनचरितग्रन्थाः प्रणीताः स्युः, यैराधुनिका जना भारतीयसंस्कृतौ निष्ठावन्तः स्युः । जयतु संस्कृतं संस्कृतिश्च ।
'रागद्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ ।
महादेवं तु तं मन्ये, शेषा वै नामधारकाः' ॥ (श्रीमहादेवद्वात्रिंशिका ५, श्रीहेम०, पृ. ९९) *हेमचन्द्राचार्याणां विविधा ग्रन्थास्तथा तच्चरितालेखने उपयुक्तानां ग्रन्थानां केचिद् ग्रन्था जालपुटे (www.jainelibrary.org इत्यत्र) प्राप्यन्ते । हेमचन्द्राचार्यविरचिता ग्रन्थाश्च साक्षात् - सरस्वती पुस्तक भण्डार, ११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१ - इत्यत्रोपलभ्यन्ते । (-सं.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org