________________
(४) जगदिदं मनसोत्पन्नम् गुरुः कथयति स्म यज्जना जगत्यत्र यथार्थदर्शिनो न भवन्ति किन्तु तेषां मनो यदुत्पादयति तदेव पश्यन्ति ।
एतद् विधानमसहमानो विद्वान् कश्चन गुरुणा सह विवदितुमागतः । तदा गुरुणा द्वे काष्ठयष्टी भूमौ आङ्ग्लाक्षरं 'T' इत्येनमनुक्रियमाणे स्थापिते । ततः पृष्टः स विद्वान् - 'भोः ! किमस्त्येतत् ?'
तेनोक्तम् – 'अयमस्त्याङ्ग्लाक्षरः 'T' इति' ।
गुरुणोक्तं - 'यथा मया चिन्तितं तथैवाऽभवत् । अस्मिन् जगति 'T' - इत्याख्यं किमपि वस्त्वेव नाऽस्ति । 'T' इति तु भवतो मनसि विद्यमानं चिह्नमात्रमेकम् । इदं दृश्यमानं तु केवलं काष्ठखण्डद्वयं यष्टिस्वरूपमस्ति' ।
(५) भिक्षुकाभिवादनम् एकदा गुरु: केनचित् गृहस्थशिष्येण सह पर्यटितुं निर्गत आसीत् । चारं चारं तौ चतुष्पथं प्राप्तौ। तत्र चैकस्मिन् कोणे एकोऽन्धो भिक्षुकः भिक्षां याचमान उपविष्ट आसीत् ।
गुरुणा शिष्याय कथितं – 'प्रयच्छाऽस्मै याचमानाय किञ्चित्' । शिष्येण स्वकोषाद् रूप्यकमुद्रा निष्कास्य तस्य भिक्षापात्रे निक्षिप्ता । ततो द्वावपि निर्गतौ । मार्गे गुरुणोक्तं - 'भोः ! त्वया तस्य भिक्षुकस्याऽभिवादनं कृतं न वा ?' तेन पृष्टं – “किमर्थं तत् ?' गुरुणोक्तं – 'भिक्षादानमपि सादरं कर्तव्यमित्येतदर्थम्' । तेन कथितं – 'किन्तु प्रभो ! सोऽन्ध आसीत्' । गुरुणा स्मित्वोक्तं – 'त्वं नैव जानासि । कदाचित् स प्रतारकोऽपि स्यात् !!'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org