________________
(३) ज्ञानस्य प्रथम सोपानम् एको राजपुत्रः कस्यचिज्झेनगुरोः सकाशे गतो ज्ञानप्राप्त्यर्थम् । गुरुं वन्दित्वा विनयेन स तं ज्ञानदानार्थं विज्ञप्तवान् उक्तवांश्च - 'प्रभो ! मह्यं सम्प्रत्येव ज्ञानं ददातु यतो ममाऽन्यान्यपि बहूनि कार्याणि सन्ति, अतोऽहं प्रतीक्षार्थं सज्जो नाऽस्मि' । एतन्निशम्य कोपमकुर्वाणेन गुरुणा कथितं - 'भो ! यद्यप्येवं ज्ञानदानार्थं मे सज्जता नाऽस्ति तथाऽपि यदि भवतो धैर्यं न स्यात् तदा चलतु, एतदर्थमपि प्रयत्नं कुर्याम' ।
तदनन्तरं तेन सह विविधालापं कुर्वता गुरुणाऽज्ञायि यदयं चतुरङ्गक्रीडां सम्यक्तया जानाति । ततः स स्वीयमठाच्चतुरङ्गक्रीडकमेकं साधुमाहूय राजपुत्रेण सह चतुरङ्ग क्रीडितुमाज्ञापयत् । तत्राऽयं पणः स्थापितो यद् - यो ह्यस्यां क्रीडायां पराजितः स्यात् तस्य शिरश्छेदनीयमिति ।
क्रीडा प्रारब्धा । राजकुमारेण विलोकितं यत् - स्वयं तस्मात् साधोः सुन्दरतरं क्रीडति - इति । सोऽचिन्तयत् – 'अहं मठेऽत्र स्वार्थं पोषयितुं समागतः सन्नस्य निर्दोषस्य साधोप॑त्युनिमित्तं भविष्यामी'ति । ततः स दयाप्रेरितो भूत्वा धियैवाऽशोभनं क्रीडितुं प्रावर्तत । किन्तु श्रेष्ठतया क्रीडनं तस्य स्वभाव आसीत्, अतोऽशोभनं क्रीडितुं स स्वीयं समग्रमप्यवधानं क्रीडायां न्यदधात् । सहैव, स बुद्ध्याऽशोभनं क्रीडन्नस्ति - इति तं साधुं ज्ञापयितुमपि नैच्छत् । अतस्तस्य समग्रमस्तित्वं द्वयमप्येतत् प्रकर्तुं व्यापृतम् । तेन च तस्य सर्वेऽपि ज्ञानतन्तवोऽत्यन्तमातता इव, समग्रं च शरीरं प्रस्वेदग्रस्तं जातम् ।
__ स्तोकवेलानन्तरं गुरुणा तयोः क्रीडनं निरुद्धं राजपुत्राय च कथितं - 'भो ! एष भवतः प्रथमः पाठ आसीत् । अत्र भवान् द्वौ गुणावशिक्षयः - दया एकाग्रता च । अधुना यस्य निमित्तेन भवान् द्वयमप्येतच्छिक्षितवान् तस्य भवतः सहक्रीडकस्य कृतज्ञतां प्रदर्शयतु ।
(नवनीत-समर्पणतः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org