________________
(२) आयोजनं वृथा जातम् ! अत्युच्चशिक्षणं प्राप्तवान् कश्चन युवकः कदाचिद् गुरोः पार्वे समागमत् । गुरुं वन्दित्वा स कथितवान् – 'प्रभो ! मया मम जीवनं प्रोन्नतं कर्तुं किञ्चिदायोजनं कृतमस्ति । तदर्थं च भवता सह किञ्चिद् विचारणं कर्तुमागतोऽस्मि । किं भवान् ममाऽऽयोजनं शृणुयाद् वा ?' गुरुरवोचद् - 'अवश्यं श्रोष्यामि, कथयतु भवान्' ।
सोऽचकथत् - 'इदं मे आयोजनम् - अधुनाऽहं विदेशीयसंस्थायामत्युच्चे पदे कार्यं करोमि । कतिचिद्दिनानन्तरं सुन्दर्या युवत्या सह मे परिणयो भविता । ततोऽहं विविधव्यवसायोद्योगादिभिः कोटिशो रूप्यकाण्यर्जयित्वा वैभवशालि जीवनं जीविष्यामि भौतिकसुखप्राप्त्यर्थं चाऽऽधुनिकानि सर्वाण्यपि साधनान्युपकरणानि चोपयोक्ष्ये । तदनन्तरमहं राजनीतौ प्रवेक्ष्यामि, मत्प्रतिभया च सर्वानपि विपक्षान् जित्वा शासको भविष्यामि । मम शासनं च सुस्थिरं लोकप्रियं च भविष्यति । ततोऽहं साहित्यजगति प्रविश्य सर्वेषां दर्शनानां सारभूतं पुस्तकमेकं लेखिष्यामि । तत्पुस्तकं सर्वत्र प्रसिद्धं सर्वसम्मतं च भविष्यति ममाऽपि च यशः सर्वत्र प्रसरिष्यति । ततः सर्वमपि तत् त्यक्त्वाऽहं संन्यस्तं ग्रहीष्याम्यध्यात्ममार्गं गृहीत्वा च भवादृशः सत्पुरुषो भविष्यामि ।
एषा मे योजनाऽस्ति । अत्र च भवतः किमपि सूचनं स्यात् तदा कथयतु, अहं समादरिष्ये' ।
गुरुणोक्तं - 'भवत आयोजनं तु सर्वथा प्रतिपूर्णमस्ति । नाऽस्त्यत्र काऽपि न्यूनता । किन्त्वेतत् तु ध्यानार्हमत्र यद् भवत्कृतस्याऽऽयोजनस्य परिसमाप्तिं यावद् यदि भवान् जीवितो न भवेत् तदाऽऽयोजनमिदं कथं पूर्णीभविष्यति ?'
श्रुत्वैतत् स युवा प्रचकितो जातः । क्षणेनैव स्वस्थो भूत्वा च कथितवान् - 'तर्हि तु सर्वमप्यायोजन मे निष्फलं भविष्यति !' ।
___ गुरुणा पुनः कथितं - 'अन्तेऽपि च भवान् अध्यात्ममार्गमारुह्य सत्पुरुषो भवितुमिच्छति तर्हि किमर्थं विलम्बः ? अधुनैव तं मार्गमाश्रित्य सत्पुरुषो भवतु । एतत् सर्वं कृत्वा पश्चात् तदाश्रयणं भृशं कष्टप्रदं भविता' ।
युवको हसित्वाऽवदत् - 'सत्यम् । सम्पूर्ण मे आयोजनं निष्फलं जातम् । नेत्रे निमील्य मया तत् कृतमासीत् । भवता मे नेत्रे उद्घाटिते' । ततः शीघ्रमेव स युवाऽध्यात्मसाधने लग्नः सत्पुरुषश्चाऽभवत् ।
(हिन्दीमूलं - सन्तअमिताभः)
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org