________________
मर्म गभीरम् मुनिकल्याणकीर्तिविजयः
(१) अविनाशिनः सन्तः तदात्वे तुर्कस्तान-इरानदेशयोर्मध्ये घोरं युद्धं प्रचलति स्म । तुर्कसैनिका यद्यपि बलशालिन आसन्, तथाऽपि सर्वस्थाम्ना विक्रमं प्रदर्शयतां इरानीयानां पुरतस्तेषां पराजयो निश्चितोऽभवत् । एवंस्थिते एकदा इरानदेशस्य महान् सूफीसत्पुरुषः फरीदुद्दीन-अत्तारसाहेबः कुतश्चित् स्थानादागच्छन् कथञ्चित् तुर्कसैनिकानां दृष्टिपथमागतः । सद्य एव तैः स बन्दीकृतो 'गुप्तचरोऽयमस्माकं गतिविधीनां निरीक्षणं कुर्वाण आसी'दित्यारोपमधिक्षिप्य च मृत्युदण्डस्तस्य घोषितः ।
वृत्तमेतज्ज्ञात्वा इरानीया जना अत्यन्तं व्यथिता अभवन् । सर्वेऽपि च युद्धभूमि प्रति धाविताः । बहुभिरग्रगण्यैर्जनैस्तुर्कसैनिकेभ्यस्तस्य सत्पुरुषस्य मोचनार्थं विज्ञप्तिः कृता किन्तु ते निष्ठुरतया तां निराकृतवन्तः । तदा कञ्चनैको धनिकोऽग्रे आगत्य कथितवान् - 'भोः सैनिकाः ! अस्य महापुरुषस्य पुण्यदेहस्य यावद् गुरुत्वं तावन्मानानि रत्न-मणि-सुवर्णादीनि दातुमहं सिद्धोऽस्मि, कृपयैनं मुञ्चतु' । तदाऽपि ते सैनिकाः सर्वथाऽविचलाः । एवं च बहुभिर्जनैर्बहुधा विज्ञप्ता अपि तुर्कस्तानीयाः सैनिका तं सत्पुरुषं नैव मुमुञ्चुः ।
प्रान्ते, इरानदेशस्य राजा(शाह) तत्राऽऽगतः । स तुर्कस्तानाधिपं सुल्तानं समधिगम्य नम्रतया विज्ञप्तवान् - 'भवान् इरानदेशमपि गृह्णातु, परं सत्पुरुषं कृपया मुञ्चतु' । एतेन सर्वथा विस्मयापन्नः सुल्तान: पप्रच्छ - 'घोरयुद्धेन भीषणरक्तपातेन चाऽपि भवतो यं देशं वयं जेतुं नाऽशक्नुम तं देशं केवलमस्य सत्पुरुषस्यैकस्यैव कृते भवान् कथं समर्पयति ?' राजोवाच - 'साम्राज्यं हि क्षणविनाशि, सन्तस्तु अविनाशिनः ! क्षणिकस्य राज्यस्य कृते यदि सन्तं न रक्षेम तदा इरानदेशः सर्वकालं कलङ्कितो भविष्यति !!'
(अखण्ड-आनन्दात्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org