________________
(६) पद्धतिः 'भवतः पार्वे समागतस्य मम चत्वारो मासा जाताः । अद्यावधि भवता मे न काऽपि पद्धतिविधिर्वा शिक्षितौ' - एकः शिष्यो गुरुमवदत् ।
'पद्धतिः !, किं कर्तुं त्वं पद्धतिं शिक्षितुमिच्छसि ?' गुरुरपृच्छत् ।
'आन्तरशान्ति मुक्तिं च प्राप्तुं, प्रभो !' ____ गुरुरट्टहासेन हसितवान् कथितवांश्च – 'प्रथमं तु भवता पद्धति-नामकात् पाशात् स्वं मोचयितुं शान्ति च प्राप्तुं महान् प्रयत्नः करणीयः ॥'
(७) ममत्वम् 'ममत्वं ह्यस्माकं बोधं दृष्टिं च निरुणद्धी'त्येतद् गुरोर्भूयोभूयः कथ्यमानं वचनम् । अस्योदाहरणतया गुरुः प्रस्तौति -
"मयैका माता पृष्टा - 'भवत्याः पुत्री कथमस्ति ?'
'अहो ! मे प्रिया पुत्री ! साऽतीव सौभाग्यशालिन्यस्ति । तस्याः पतिरत्यन्तमुदारोऽस्ति तां च भृशं प्रीणाति । तेन तस्यै श्रेष्ठं काऱ्यानं, यथेच्छमलङ्कार-वस्त्रादीनि च प्रदत्तानि । तस्याः सेवायां सेवकानां समुदाय एवाऽस्ति । स स्वयमेव तस्याः प्रातराशं प्रगुणीकृत्य शयनखण्डे एव परिवेषयति । साऽपि च मम पुत्री मध्याह्नं यावत् शय्याया नोत्तिष्ठति । नूनमद्भुतस्तस्याः पतिर्भाग्यं चाऽपि सर्वथाऽद्भुतं तस्याः !!'
'तथा भवतः पुत्रः ?' मयोक्तम् ।
'अरे ! स वराकः ! किं कथययेम् ? तेन परिणीता स्त्री तु सर्वथोद्वेजिन्यस्ति । मम प्रियपुत्रस्तस्यै काऱ्यानं, वस्त्रा-लङ्काराणां पेटिकाः महासैन्यं च सेवकानां प्रदत्तवानस्ति । एवं सत्यपि सा मध्याह्नं यावत् शय्याया नोत्तिष्ठति, प्रत्युत तस्याः प्रातराशोऽपि मे पुत्रेण प्रगुणीकर्तव्यः !!' किञ्चिदस्त्यत्र दुर्बोधम् ?' गुरुः पृष्टवान् ।
(चतुर्णामप्येषामाङ्ग्लमूलम् -
"One Minute Nonsense" . लेखक: Anthonyde MelloS. J.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org