SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तुर्यं बाल्ये भजन्ते कतिचन सहसैवाऽऽश्रमं चेत्कलौ तद् दोषं नैवाऽऽदधाति प्रणिहितमनसां गाढवैराग्यभाजाम् । यस्मिन्नेवाऽहनि स्याद् विरतिरिह तदा प्रव्रजेति प्रतीता श्रौती वाणी विचष्टे विगणयति न ताम् आश्रमाणां व्यवस्था ॥५५॥ केचिद्वित्तादिमोहान्मठसुखविवशा बाल्यसंन्यासभाजः तारुण्ये त्विन्द्रियाणामुपहतिमतुलामक्षमाः सोढुमुत्काः । स्त्रीणां वश्या भवन्तः पुनरपि गृहितामाश्रयन्तो नितान्तं निन्द्या जायन्त एतत्कलियुगकलितं कश्मलं दुःखदं नः ॥५६॥ सत्यं, किं वाऽत्र कुर्मः सकलजगदघप्रोञ्छने शक्तमीड्यं गायत्रीमवरतं य इह भुवि पुरा दृष्टवान् विश्ववन्द्यः । विश्वामित्रोऽपि सोऽयं त्रिदिवमपरमेव क्षमः स्रष्टुमद्धा दृष्ट्वा कान्तां विवस्त्रां शिथिलधिषणतामाप वै मेनकां ताम् ॥७॥ सर्वेषामेव देवं स्वहृदभिलषितं प्रार्चितुं स्वेष्टरीत्या पूर्णोऽस्त्यत्राधिकारो जगति कलियुगे बाधते तं न कश्चित् । नास्तिक्यस्याऽवलम्बी भवति यदि जनस्तर्कमार्गानुसारी तस्याऽप्यस्मिल विघ्नो निजमतकथने, वन्द्य एवैष कालः ॥५८॥ यस्मिन् युगे मानवताकलङ्क दास्यं निषेद्धं सफलं प्रयलम् । कृत्वाऽब्रहाम्लिङ्कन आप कीर्ति कल्याख्यमेतद् युगमस्तु भूत्यै ॥५९॥ कलौ युगे समे जना भवन्ति नास्तिका इति प्रतीतिरप्यसत्यतामुपैति दृश्यां मनाक् । प्रसिद्धदेवमन्दिरे तथैव तीर्थसन्निधौ सुदीर्घपङ्क्तयो भवन्ति भक्तवृन्दमण्डिताः ॥६०॥ मत्स्यः कूर्मो वराहो नरहरिरथ वै वामनः पशुरामो रामः कृष्णोऽथ बुद्धोऽभवदिदमखिलं विश्वमुद्धर्तुकामः । विष्णुः साक्षाद् भविष्यत्यपि च कलियुगे कल्किरित्येतदेव स्पष्टं बूते युगानां गुणगणगणने चोत्तरोत्कर्षसिद्धिम् ॥६१॥ देवेनैकेन सृष्टा धरणिमपि तथैकां श्रयन्तो मनुष्या नीरं चैकं पिबन्तः पवनमपि तथा प्रश्वसन्तः सदैकम् । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy