SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दृष्ट्वा दुःखनिवारणस्य सरणिं बुद्धोऽभवद् यद्युगे तं लोकत्रयशोकनाशकमिमं कस्मात् कलिं निन्दथ ॥४७॥ यस्मिन् युगे सकलदीनजनावनाय क्रिस्तः क्षमानिधिरपारदयासमुद्रः । लब्ध्वा जनिं जगति देवसुतश्चचार तं के कलिं कृतधियस्त्ववधीरयन्ति ॥४८॥ पूर्वं केचिन्मुनीन्द्रा नभसि विहगवन्नारदाद्या विचेरुः ब्राह्मादीन् दिव्यलोकान् गुरुतरतपसा प्राप्नुवन्नित्यशृण्म सत्यं वा कल्पना वा तदिति न तु वयं शक्नुमोऽद्याऽभिधातुं मर्त्यः साधारणोऽपि प्रभवति डयितुं व्योम्नि तुर्ये युगेऽस्मिन् ॥४९॥ पुरा रामो जित्वा दितिजनूपतिं रावणमथो विमानं तस्यैव स्ववशमधिरुह्याऽऽगत इति । प्रजाः शृण्वन्ति स्माद्भुतकथामद्य तु कलौ विमानारुढास्ता निखिलभुवने यान्ति ससुखम् ॥५०॥ कृते युगे तु केचिदेव वेदमध्यगीषत प्रकाशमाप नैव भूयसां तदा मतेर्बलम् । कलौ युगे सुविद्यतामुपार्जितुं न कस्यचित् सविघ्नताऽस्ति तद्वरं कलिं हि मन्महे वयम् ॥५१॥ पुत्रास्त्यजन्ति पितरौ वनिताङ्घिदासाः हिंसन्ति केचन वधूर्वरदक्षिणायै । निजन्ति काश्चन पतीन् विटमोहनुलाः क्रीडा कलेजगति नूनमियं प्रवृत्ता ॥५२॥ पुत्रा भवन्ति च कलौ वरिवस्यया ये सन्तोषयन्ति पितरौ विनयावनम्राः । द्विवान् निरीक्ष्य कुसुतान् सकला न निन्याः खण्ड्या न कण्टक भयाद् व्रततिः सुमाढ्या ॥७३॥ लोके भवन्ति कतिचिद् धनकाम्यया ये पत्लीमनन्यशरणामदया दहन्ति । नैतावता सकलभर्तृगणो विगाः पत्नीप्रियाश्च पतयः शतशो भवन्ति ॥५४॥ २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy