SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नीचोच्चत्वं स्वजातौ कलिविवशहृद: कल्पयित्वा बहून् नून् अस्पृश्यान् भावयन्तो विदधति हि युगं निन्धमत्यन्तघोरम् ॥२॥ शोषणासक्तबुद्धीनां दुर्लभं प्राप्तुमिच्छताम् । स्वार्थिनां मनुजानां हि दोषोऽयं न कलेः पुनः ॥६३॥ द्वीपं कमप्यधिवसलजहत् तमन्यमप्रेक्ष्य विश्वमखिलं स्वविधं विचिन्त्य । आसीज्जनो मितमतिर्गृहकूपभेकः पूर्वं कृतादिषु युगेषु निरस्तविद्यः ॥६४॥ अरिमन् कलौ भवति सर्वजनस्य विद्याप्राप्तौ विचारमथनेऽप्यमितोऽधिकार: । द्रष्टुं प्रपञ्चमवकाश इहाऽस्ति भूयान् तरमाल सङ्कुचितताऽत्र मतेर्जनस्य ॥६५॥ रोगान् पुराकृतविकर्मफलानि मत्वा प्राचीनकालजनताऽनुबभूव कष्टम् । विज्ञानमार्गमवलम्ब्य कलौ समस्तान् घोरामयान् नगणो विनिवार्य तुष्टः ॥६६॥ वैद्याः केवलमर्थलाभनिरता रुग्णान् विलुण्ठन्त्यमी चातुर्येण च वञ्चयन्ति जनतां हन्ताऽद्य मिथ्यौषधैः । इत्याक्षेपकृतः शिरोर्तिजठरक्लेशादिभिः पीडिता धावत्येव भिषग्गृहं प्रति जना विस्मृत्य टीकां स्वयम् ॥६७॥ अवातरद् भूमितले महात्मा दीनान् अशक्तांश्च समुद्दिधीर्षः । गान्धीति लोके विदितः स्वतन्त्रं व्यधाच्च यो भारतमात्मशक्त्या ॥२॥ अस्पृश्यतां भारतवर्षसीम्नो निरस्य सर्वान् अकरोत् समान् नृन् । यस्मिन् युगे तादृगभून्महात्मा कथं न वन्द्यः स कलिः समस्तैः ? ॥६३॥ वञ्च्यन्ते बहवो जनाः कलियुगे नक्षत्रताराग्रहान् तेषां स्थानमदर्शनं गतिमथ ग्रासं च चन्द्रार्कयोः । २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy