SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कस्यचिद् बालकस्य पद्यायां क्रीडतो नाणकमेकं लब्धम् / एवमेव तद् लब्धमित्यतः सोऽतीव हृष्टोऽभवत् / तेन निश्चितं स्वमनसि यदतः परं यदाऽपि वीथ्यां गच्छेयं तदा नीचैर्दृष्ट्वैव चलेयमिति / यदा स वयस्को जातस्तदाऽपि तस्याऽयमभ्यासः प्रवृत्त एव, आजीवनम् ! ततश्च सम्पूर्णेऽपि स्वीयायुषि तेन 296 नाणकमुद्राः, 48 पञ्चनाणकमुद्राः, 19 दशनाणकमुद्राः, 16 पञ्चविंशतिनाणकमुद्राः, 2 पञ्चाशन्नाणकमुद्रे, एकं च पूर्ण रूप्यकमिति सर्वमाहत्य 13 रूप्यकाणि 96 नाणकानि च लब्धानि विनैव परिश्रमम्! किन्तु तस्य हानिरपि जाता काचित् ! तेन स्वजीवने 31,369 चेतोहराः सूर्यास्ता न दृष्टाः कदाचिदपि; एवं 157 मोहकानि मेघधषि, शिशिरर्तुषु पत्राणां विस्मयजनकं वर्णपरावर्तनं, प्रत्यर्तु सङ्ख्यातीतानां सौन्दर्यातिशयशोभितानां पुष्पाणां प्रफुल्लनं, सन्ध्यासमयेऽनन्ताकाशे खेलन्ति विविधाकारवर्णाद्युल्लसन्ति अभ्रपटलानि, नभसि निश्चिन्ततया डयमानं विहगकुलं, जगज्जीवनाय प्रकाशमानस्य दिनकरस्य स्वर्णवर्णिता नित्यनूतना रश्मयस्तथा मार्गेषु विहरता-मसङ्ख्यानां जनानामुत्साहप्रेरकानि स्मितानि दृष्टानि नवेत्येतत् तु सर्वथा न स्मरति सः!!
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy