SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कोटिशः सूक्ष्मजीवानां कारणांत् यैर्हि स्वास्तित्वं गौणं कृत्वा स्वजाते रक्षणार्थं सर्वस्वं समर्पितम् । एतादृशां केवलं परहितनिरतानामेव जीवानामीदृशस्य समाचरणस्य किमपि कारणं कथयितुं विचारयितुं वा डार्विन् सर्वथाऽसमर्थो जातो, यतः सजीवसृष्टौ तेन सर्वदा दृष्टमासीत् यद् - यदि जीवो बलवान् स्यात् तदाऽन्यान् निगिरति सः, यदि च निर्बलस्तदाऽन्येषां कवलीभवितुमेव तस्य जन्मेति । अनेन न्यायेन तु सर्वत्र स्वार्थशासनमेव प्रवर्तेत किन्तु दृष्टान्तेष्वेतेषु तेन परमार्थ एव दृष्टः । जीवितुं विकासं प्राप्तुं च समर्था अपि मत्कोट-पिपीलिका- चिक्रोड - मधुमक्षिका - सूक्ष्मवनस्पत्यादयो जीवा परहितार्थमेव म्रियन्ते, तद्विपरीततया तु दुर्बलास्ततश्च विकासं प्राप्तुमक्षमा अपि जीवा (राज्ञी -नरमधुमक्षिकासदृशाः) जीवन्ति विकासं चाऽपि प्राप्नुवन्ति । ततश्च समर्थ एव जीवेत् - इति सिद्धान्तः कथं प्रमाणयितव्यः ? अस्तु, परहितवादस्य (altruism ) द्वित्रान् दृष्टान्तान् विचार्य समर्थयामस्तावत् । केनेडादेशीयो गोर्डन - हेबरनामा प्राणिशास्त्री ह्येकदाऽमेरिकादेशस्याऽलास्काराज्ये प्राणिनामभ्यासार्थं गतवान् । तत्र च प्रख्याते मेकिंगली-अभयारण्ये तेन दूरादेवैको वृको दृष्टः । स खञ्ज इव चलन्नस्ति - इति दृष्ट्वा हेबरेण दूरवीक्षकयन्त्रेण विलोकितम् । तदा तेन ज्ञातं यदस्याऽग्रेतन एकः पादो व्रणितोऽस्ति । व्रणमपि कथं जातमित्यपि तेनाऽनुमितं, यथा - केनचित् महाकायेन हरिणेन प्रादप्रहारं कृत्वा व्रणितोऽस्ति वृकोऽयमिति । बहुप्रयासैः स वृको वनप्रान्ते स्थितायां काष्ठापवरिकायां ( cabin) प्राप्तः । ततो विश्रामं ग्रहीतुं सुप्त: । वृका हि सदाऽपि यूथस्था एव विचरन्ति भक्ष्यं च मृगयन्ते । किन्त्वस्य वृकस्याऽन्ये यूथ्या हेबरेण न कुत्रचिद् दृष्टाः । अतस्तेन चिन्तितं यदयमपि बहूनामन्यप्राणिनामिवैकान्त एव मर्तुमत्राऽऽगतोऽस्ति । अथ सायङ्काले हेबरस्तत्र पुनरप्यागतः । दूरवीक्षकयन्त्रेण तेन विलोकितं तदा दूरादेकोऽन्यो वृकस्तत्राऽऽगच्छंस्तेन दृष्टः । तन्मुखे भक्ष्यखण्ड एक आसीत् । अपवरिकासमीपं गत्वाऽग्रेतनपादेन तद्द्वारं चोद्घाट्य स वृकोऽन्तरगच्छत्, तत्र शयानस्य च स्वज्ञातिबन्धोर्मुखस्याऽग्रे तं भक्ष्यखण्डममुञ्चत् । तेनाऽपि व्रणितवृकेण भोजनं कृतम् । ततः सन्तुष्टः स द्वितीयो वृकस्ततो निर्गत्याऽरण्यं प्रति गतवान् । एतद् दृष्ट्वाऽत्यन्तं विस्मितो हेबरः स्वीयं पटगृहं तत्रैव स्थापितवान् । द्वितीयेऽह्नि सायंसमये तथैव स द्वितीयो वृको व्रणितवृकार्थमाहारं गृहीत्वाऽऽगतस्तं च भोजयित्वा प्रत्यागतः । अयं क्रमः पञ्चदश वा दिवसानि प्राचलत् । तावता स व्रणितो वृकः सज्जो जातः । अन्तिमे सायाह्ने च द्वावपि वृकौ सहैव काष्ठापवरिकां त्यक्त्वाऽरण्यं गतवन्तौ । व्रणिताय वृकाय य: प्रत्यहं भक्ष्यदानेन पोषितवान् स वृको हिंसकस्य वृकयूथस्य सभ्य आसीत् । सर्वदाऽप्यहमहमिकया भक्ष्यार्थं युध्यमानानां वृकानामन्यतम आसीत् । तथाऽप्यत्र प्रसङ्गे एवमनुभूयते यत् स जीवदयामण्डलस्य सभ्योऽस्तीति । पञ्चदशदिवसानि यावत् प्रत्यहं स्वयं न्यूनं भक्षयित्वाऽपि स वृको व्रणितं वृकं पोषितवान् । एवंकरणेन तस्य कोऽपि लाभो नाऽऽसीदेव प्रत्युत खञ्जीभूतस्य वृकस्य भविष्यति कालेऽपि विना प्रतिसहकारापेक्षया पोषणमेव कर्तव्यमिति प्रत्यक्षा हानिरेव । तथाऽपि किमर्थं तेन वृकेणेदं Jain Education International ३७ For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy