SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अत्र चिन्तनीयं त्वेतद् यद् - मधुमक्षिकया किमर्थं मरणं स्वीकृतम् ? शत्रोः प्रतीकारार्थं मधुकोशस्य च रक्षणार्थं खलु ! । सुबोधं भासमानं तथ्यमिदं नास्ति तथा सुबोधम् । यतः श्रमिकमधुमक्षिका स्वीयसिक्थकेनाऽविकलषट्कोण-निबद्धं मधुकोशं विनिर्माति, पुष्परसं परागरजश्चाऽवचिनोति, अलसकुटुम्बिजनानां कृते भोजन-पानादिप्रबन्धं करोति, अतिरिक्तं मधु सञ्चिनोति, ग्रीष्मे च पक्षवीजनं कृत्वा मधुकोशं वातानुकूलितं करोति, शत्रुप्रतिकारार्थं च शस्त्रोपयोगं कर्तुमपि शक्ता । एवं च सर्वदृष्ट्या जीवनार्थं समर्था तु सैव (fit to survive), तथाऽपि तयैव किमर्थं मरणं प्राप्तव्यम् ? डाविन्-मनसि बन्योऽपि प्रश्नस्तदैवोत्थितो यदियं श्रमिकमधुमक्षिका न नरजातिका नाऽपि नारीजातिकाऽपि तु नपुंसकजातिकाऽस्ति । अतः सन्ततेरुत्पादनस्य निर्वहणस्य वा तस्याश्चिन्तैव नाऽस्ति । अन्ये जीविनो हि स्वसन्तानानां रक्षणार्थं शत्रुभिः सह युद्धवाऽऽत्मत्यागं कुर्युरिति तु सुबोध, यतः स्वनाशे जातेऽपि सन्तानानां रक्षणां तु जातमतो वंशोच्छेदस्तु न भवेत् । किन्तु श्रमिकमधुमक्षिका ह्यात्मत्यागं कृत्वा किं प्राप्स्यति खलु ? न किमपि । यद्यपि राश्या नरमक्षिकाणां चाऽस्तित्वरक्षणार्थमेव श्रमिकाणां जीवनमिति तु सत्यमेव तथाऽपि जीवनार्थं समर्थायास्तस्या एव मरणं भवेत्, ये च न सर्वथा समर्थास्तादृशानां राज्ञी-नरमक्षिकाणां च रक्षणं भवेत्-इत्यत्र डार्विन्-इत्यस्य मुख्यः सिद्धान्त एव (survival of the fittest) पतो भवति । अनेनैव कारणेन स वर्षाणि यावत् स्वसिद्धान्तान् लोकसमक्षं प्रकटयितुं संशयित एवाऽतिष्ठत् । अथ चैतेषां मत्कोटानां मधुमक्षिकाणां च दृष्टान्तेनेदं सिद्धं भवति यदेते जीविनो न स्वीयं किन्तु समग्राया अपि स्वजाते रक्षणार्थमात्मत्यागं कुर्वन्तीति । अत्र स्पष्टतार्थमन्यमपि दृष्टान्तं - विचारयामः । डिक्टोस्टेलियम-इत्याख्यः सूक्ष्मो वनस्पतिः पृथिव्या अधस्तात् वसति । प्रारम्भे तु एष वनस्पतिः पृथक्तयैकैक एव अमीबा(amoeba)रूपेण भवति तत्रस्थेन च स्वयोग्याहारेण निर्वाहं करोति । किन्तु गच्छता कालेन तत्राऽऽहारद्रव्याणि क्षीयन्ते । अत आहारप्राप्त्यर्थं तेन स्थलान्तरं कर्तव्यमेव । किन्तु तत्करणं हि तदर्थं सर्वथाऽशक्यम् । यदि च स्थलान्तरं नैव भवेत् तदा एकैकश: सर्वेषामपि तेषां नाशो भवतिप्रान्ते च समग्राऽपि जातिरेव विनश्येत् । अतः कदाचित् तेषां कोटिकोटिशो वनस्पतिजीवानां मध्ये रासायनिकः सन्देशव्यवहारो भवति । फलतश्च तेषां कोटिशः सम्मील्य सप्ताष्टविभागकं गुच्छमेकं रचयन्ति । विभागा अप्येते परस्परं सम्मील्य दण्डमेकं विरचयन्ति । दण्डमेनं दृढं कठिनं च कर्ते केन्द्रस्थान वनस्पतिजीवान् विहायाऽन्ये सर्वेऽपि प्राणत्यागं कुर्वन्ति । ततश्च तेषां निष्प्राणशरीरेषु विद्यमानानां कोषाणां शुष्कीभवनात् सहजतयैव दण्डो दृढः कठिनश्च भवति । तदनन्तरं तं दण्डमितोऽप्युच्छ्रितं कर्तुं कोटिशो जीवा तदधोभागे संयुज्य प्राणत्यागं कुर्वन्ति । दिनानि यावदेषा प्रक्रिया प्रचलति । एतेन च दण्डोपरिभागे स्थिताः केन्द्रस्था जीवाः शनैः शनैरूर्ध्वमारोहन्तो यत्र स्वयोग्याहारद्रव्याणि प्राप्यन्ते तं प्रदेशं प्राप्नुवन्ति, आहारग्रहणेन च प्राणरक्षणं कुर्वन्ति तथा विभाजनेन नूतनानेककोषीय(amoeba)जीवान् समुत्पादयन्ति । फलतस्तेषां रक्षणमपि जातं जातिरपि च तेषां सुतरां रक्षिताऽभवत् । किन्त्वेतत् सर्वमपि जातं तेषामात्मसमर्पणं कुर्वतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy