________________
प्राणदानेनाऽप्युपकारं कुर्वन्ति । कथमिति चेत् - पश्यामस्तावत् । एते मत्कोटा आहारार्थं कोटिशः सङ्ख्यायां निःसरन्ति सैन्यवत् । एवं च तेषामभिनिर्याणे मध्येमार्ग परिखा, निर्झराः सरिदित्यादीनि व्यवधानानि बहुश आयान्ति । तान्युल्लवितुं को वा मार्ग आश्रयितव्यः ? तदा 'चिन्ता माऽस्तु' इति कथयन्त इव सहस्रशो लक्षशो वा मत्कोटा: परस्परं पादेषु पादान् संयोज्य शृङ्खलामिव विरचय्य परिखादीनां द्वयोस्तटयोर्मध्ये सेतुं रचयन्ति । तस्मिंश्च सेतौ कोटिशो मत्कोटानां सैन्यं निराबाधं परं तटं प्राप्नोति । अथ च शृङ्खलां विरचय्य स्थिता मत्कोटास्तु तावता कालेन तथा श्रान्ता भवन्ति यथा ते तां शृङ्खलां त्यक्त्वाऽग्रे गन्तुं समर्था न भवन्ति । तेषामिहवार्ता तत्रैव समाप्ता भवति । यतः सैन्यस्य सहकारं विना ते चिरं जीवितुमशक्ता एव।
एवं च सति पुनरपि स एव प्रश्न उत्तिष्ठत्ते - 'किमर्थमेते मत्कोटा स्वयंसेवकीभूय स्वविनाशमामन्त्रयन्ति ? वयं हि मार्गे गच्छन्तोऽन्येषां कृते विघ्नरूपा भवामोऽन्यान् व स्वमार्गान्तरायभूतान् दूरमपसारयामः, किन्तु मत्कोटा एते ह्यन्येषां कृते सेतूभवन्ति मार्गीभवन्ति वा स्वप्राणत्यागेनाऽपि । ईदृशी निःस्वार्थता तैः कुत्र वा शिक्षिता ?
एल्टुइझम् (altruism) - इति पदेन जीवविज्ञानिषु प्रसिद्धोऽयं परहितवादः चार्ल्स-डाविन्इत्यस्य मनः संशयैर्दोलायितं कृतवान् । एतादृशो विरोधाभासो यदि केषुचिज्जीविषु स्यात् तदोत्क्रान्तिवादस्य सिद्धान्तः कथं स्थापयितव्यः ?
उत्क्रान्तिवादं सिद्धान्तयतो डार्विन्-इत्यस्य मस्तिष्कं यया व्यामोहितं तस्या मधुमक्षिकाया जीवनमपि किञ्चिद् विलोकयेम - मधुकोशे राज्ञी, नराः श्रमिकाश्चेति त्रिधा मधुमक्षिका भवन्ति । तत्र राज्ञी नराश्च कार्यलवमपि न कुर्वन्ति । केवलं श्रमिकमधुमक्षिका एवाऽऽदिनं कार्याणि कुर्वन्ति, यथा - पुष्पमार्गणं, तद्रससङ्ग्रहणं (मुखेन) परागरजसां सञ्चयनमानयनं च (अग्रपादाभ्याम्) । ततः कोशं समागत्य राज्ञी शतशो नरांश्च ताः परागरजांसि भोजयन्ति पुष्परसं च पाययन्ति, अवशिष्टं च रसं मधुतया कोशे सगृह्णन्ति। येन पुष्पाणामभावकाले स रसो भोजनतयोपयुज्येत । मधुकोशोऽप्ययं ताभिरेव श्रमिकमधुमक्षिकाभिः स्वीयशरीरादेव सिक्थकं समुत्पाद्य बहुपरिश्रमेण निर्मितो भवति । राज्या नराणां च मधुमक्षिकाणां ह्येतादृशेषु कार्येषु न किञ्चिदपि साहाय्यं भवति । एवं च सति श्रमिका मधुमक्षिका एताः सर्वमपि निजजीवनं परार्थमेव व्ययन्ति, कदाचिच्च तत्र निजप्राणानपि त्यजन्ति । कथमिति चेत् ? - एवम् - श्रमिकमधुमक्षिकाया दंशकण्टको विषमयो भवति । करपत्रस्य धारायामिव तस्या दंशेऽस्रयो भवन्ति, किन्तु विपरीताः । यदा कश्चन शत्रुर्मधुकोशे कुदृष्टिं करोति तदा श्रमिकमधुमक्षिकाऽनेन दंशकण्टकेन तच्छरीरे दशति । दशनेन च स कण्टकस्तच्छरीरान्तः प्रविशति । किन्तु तदनन्तरं सा तं कण्टकं ततो निस्सारयितुं समर्था न भवति । यद्यपि सा तदर्थं पूर्ण प्रयत्नं करोति तथाऽपि तत्परिणामतया तस्याः शरीरस्य बहवोऽवयवा विनष्टा भवन्ति, स्तोकवेलया च साऽपि मृत्युं प्राप्नोति । किन्तु तस्या बलिदानं वृथा न भवति यतः शत्रुदेहे प्रविष्टो विषमयो दंशकण्टकः स्वयमेव विषमुद्वमन् तं शत्रु दण्डयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org