SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कलौ कलयते जनो धनिकमेव पूज्यं सदा गुणैश्च सकलैर्विवर्जितमपीति मिथ्यावचः । दिगम्बरमकिञ्चनं शिवमुपासते भक्तितः कुबेरमिह पूजयन् न खलु दृश्यते कश्चन ॥१५॥ पुरा नृपतयोऽभवलखिलधर्मसंरक्षका न सम्प्रति तु कश्चन प्रभवतीह संरक्षितुम् । इति प्रणिगदन्ति ये जनसभासु पौराणिका न ते किमु विदन्ति तैनूपगणैः कृतान् विप्लवान् ॥१६॥ इदानीमप्यस्ति प्रकृतिसरलो भक्तिमतुलां सदा पित्रोः शुद्धां दधदिह सुतो मान्यचरितः । स्वकीयं सौख्यं यो जहदखिलम् आमृत्यु पितरं महारोगग्रस्तं परिचरति नित्यं विनयवान् ॥१७॥ अदृष्टपूर्वान् अतिथीन् समागतान् अपारभक्त्या विनयेन चाऽऽह्वयन् । यथास्वशक्ति प्रतिपलसत्कृतिविलोक्यतेऽद्यापि जनो मनोहर: ॥१८॥ गुरोर्वाक्यं नित्यं निगमवचनैः सम्मितमिति प्रमिण्वाना भक्त्या तदुदितमनुष्ठाय सकलम् । जगत्सेवां बहीं सपदि भगवत्पूजनमपि प्रकुर्वाणाः सन्तो विदधति कलिं च स्तुतिपदम् ॥१९॥ कृते वा त्रेतायां भवतु च कलौ द्वापरयुगे गुरुः कश्चिच्छिष्यं कमपि यदि विश्वस्तहृदयम् । पदं विद्यामार्गे प्रतिनिदधतं वञ्चयति चेत् न मानार्हः सोऽयं गुरुकुलकलङ्क: कुधिषणः ॥२०॥ कलेर्माहात्म्येन प्रकृतिकृतमद्य त्रिभुवने प्रभूतं सर्वत्र क्षतजनसुखं ध्वंसनमिदम् । प्रवाहो भूकम्पो बहुविधरुजोऽवग्रह इति ब्रुवत्येके वार्ताः प्रतिदिनमवेक्ष्य प्रकटिताः ॥२१॥ अभूत् पूर्वे कालेऽप्यनवरतमेतादृगखिलं क्वचिल्लोके किन्तु प्रकटमभवलैव जगति । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy