SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कथा विवेक : मुनिरत्नकीर्तिविजयः सोक्रेटीस् महान् तत्त्वचिन्तक आसीत् । स च न सुरूपः किन्तु कुरूप एव । अतः प्रथममेव यः कोऽपि तं पश्येत् स तस्य सम्यक्परिचयं नैव प्राप्नुयात् । कदाचित् कतिपयमित्रैः सह वार्तयन् स उपविष्ट आसीत् । तदा कश्चिज्ज्यौतिषिकस्तत्र समागतवान् । मुखावलोकनमात्रेणैव स कस्याऽपि गुणदोषादिकं वर्णायितुं शक्त आसीत् । तस्य तादृशीं विद्याशक्तिमवगत्य मित्रैरुक्तं – “एषोऽस्माकं मित्रं सोक्रेटीस् । एनमधिकृत्य को भवतोऽभिप्रायः ?" स जनः सोक्रेटीस्-इत्येनं सम्यगवलोकितवान् । तस्य कुरूपं मुखं, स्थूलावौष्ठौ, दीर्घे नेत्रे, नतां विस्तृतां च नासिकां दृष्ट्वा स उक्तवान् - 'अतीव विषयासक्तोऽयं जनः । अपरं चाऽस्य चिबुकमेवं सूचयति यदेष आग्रही अप्यस्ति' । मित्राणि सोक्रेटीस् चैतच्छ्रुत्वोच्चैर्हसितवन्तः । स च जनः पुनः कथितवान् - 'अस्य नता विस्तृता च नासिका हि क्रोधातिरेकमस्मिन् दर्शयति' । 'अथ कृपया इतः प्रस्थानं करोतु । भवतो विद्याया मिथ्या मित्राणि त्वेवं श्रुत्वा प्रोक्तवन्तः प्रदर्शनं मा कुर्यात्' । - एतच्छ्रुत्वा गमनायोत्थितः सन्नुक्तवान् - 'अस्तु, यत् किमपि भवतां मतं स्यात् किन्त्वेतत् सत्यं यदसौ सर्वथा बुद्धिहीनोऽस्ति' इत्युक्त्वा स जनो निरगच्छत् । पश्चात् मित्राण्युक्तवन्त: - 'अहो ! ऽस्य विद्याचातुर्यम् ! मुखमस्तीति वक्तव्यमिति न्यायेन मनोगतं सर्वमपि यद्वा तद्वा प्रलपितं तेन' । सोक्रेटीस् किञ्चिद् गम्भीरो भूत्वा कथितवान् - 'वयस्याः ! यान् कानप्यवगुणान् स वर्णितवान् ते मयि विद्यन्त एव । किन्तु तेषां समेषामप्युपरि विवेक आरूढोऽस्ति । सर्वेऽपि दुर्गुणा विवेकवशवर्तिनः सन्ति - इत्येतदेव किल स द्रष्टुं नाऽशक्नोत्' इति । ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy