________________
कथा
उपाय: मुनिरलकीर्तिविजयः
कुत्रचिद् ग्रामे कृषीवलः कश्चिद् दिवं गतः । तस्य द्वौ पुत्रौ आस्ताम् । बृहदेकं क्षेत्रं तस्याऽऽसीत् । तदर्थं चोभयोरपि मध्ये कलहः सञ्जातः । कथं तस्य क्षेत्रस्य समानौ द्वौ भागौ कर्तव्याविति कथमपि निर्णेतुं तौ नाऽशक्नुताम् । कलहप्रियाः केचिज्जनास्तु - न्यायालय एवाऽस्य निर्णयो भवतु - इत्यपि सूचितवन्तः । किन्तु वृद्धः कश्चिदुक्तवान् - 'अस्माकं ग्रामे भक्त एकः प्रतिवसति । युवां द्वावपि तत्र गत्वा प्रश्नमेनं निवेदयताम् ।
समीचीन एष मार्ग इति मत्वा द्वावपि तत्र गतवन्तौ । द्वयोरपि कथनं सोऽपि सम्यक् सावधानो भूत्वा श्रुतवान् । पश्चादुक्तवान् - 'भ्रातरौ ! अस्य प्रश्नस्य निराकरणाय नैव न्यायालयः कदापि गन्तव्यः । कार्यमेकं युवां कुरुतं - युवयोर्मध्यादेको भ्राता क्षेत्रस्य विभागं करोतु ततश्च भागमेकं ग्रहीतुं प्रथमोऽधिकारोऽन्यस्मै भ्रात्रे ददातु' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org