Book Title: Nandanvan Kalpataru 2006 00 SrNo 17 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti Catalog link: https://jainqq.org/explore/521017/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: १७ : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. २०६२ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ relat ional www.jainelibrary ang Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: १७ : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. २०६२ Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः । सप्तदशी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् ।।) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६२, ई.सं. २००६ NNA मूल्यम् : रू. १००/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 55312526 मुद्रण : ‘क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥4 दूरभाष : 079 - 27494393 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् विचार्यतामेतत् कतिपयसमयात् पूर्वं वृत्तपत्रेषु समाचार एकः प्रसिद्धो जातः । खैस्तसम्प्रदायस्य 'पोप' इति सर्वोच्चपदमारूढो महोदय एवं विधानं कृतवान् यद्- 'भारतवर्षे धर्मान्तरणप्रवृत्तेर्विरोधोऽसंवैधानिकोऽस्ति । भारतीया असहिष्णवोऽत एव त एतादृशं विरोधमाचरन्ति' इत्यादि । चिन्तनीयविषयोऽयं कश्चित् । एषोक्तिरेव भारतस्य भारतीयानां वा सख्यस्यौदार्यस्य चाऽवमाननरूपाऽस्ति । एतादृशे वचने तेषामाधिपत्यवृत्तिराविर्भवति । यत्राऽऽधिपत्यं, न तत्र धर्मः, धर्मः सख्ये प्रतिष्ठितः । स्वकीयधर्मस्य सम्प्रदायस्य वाऽभिनिवेशं विना नैतादृशं विधानं कर्तुं शक्यम् । अन्यः स्वधर्मानुरागोऽन्यश्च स्वधर्माभिनिवेशः । अनुराग आदरणीयो नाऽभिनिवेशः । अभिनिवेशः सत्याद् धर्माच्च प्रच्यावयति । अभिनिवेशो यदा प्रविष्टो भवति तदा बाह्यपरिवेषोऽवतिष्ठति किन्त्वाभ्यन्तरं तत्त्वं सत्त्वं वाऽपगच्छति । खैस्ताः सेवामिषेणाऽत्र देशे स्वधर्मप्रचारं प्रचारमिषेण च धर्मान्तरणप्रवृत्तिं कुर्वन्ति । आत्महितसाधकोऽपि सेवाधर्मो यदा धर्मान्तरणस्य साधनं भवति तदा धर्मो जगति हास्यास्पदं भवति । जनानां दारिद्यस्य मौग्ध्यस्य च लाभं ते गृह्णन्ति । न ते तेषां दारिद्यमज्ञानं वाऽपाकुर्वन्ति, किन्तु यत्किञ्चित् स्वल्पं साहाय्यं विधाय तं च स्वमतमङ्गीकार्य तं तथैव विजहति । नैष न्याय्यः पन्थाः । आशयस्य शुद्धिर्धर्मस्य प्रथमं सोपानम् । तद्विना धर्मो दम्भो वा विडम्बनैव वा भवति । किं कश्चित् स्वनाम परिवृत्य 'क्रॉस' चिह्नं वा धृत्वा चर्चमध्ये गच्छेत् तदैव सार्थक्यं स्वमतप्रचारस्य ? यद्यस्ति शक्तिस्तेषां तदा तादृशा दरिद्रा अज्ञानिनश्च जनाः स्वजीवने स्वावलम्बिनः स्वधर्मे च निष्ठावन्तो यथा स्युस्तथा कुर्वन्तु नाम । तेषां जीवनं नीतिमयं सदाचारमयं चाऽपि यथा स्यात् तथा विधेयं तैः । एतेन च सोऽपि स्वसदृशस्याऽन्यजनस्य साहाय्यं कर्तुमुत्सुको भवेत् । एष एव वस्तुतो धर्मस्य प्रचारः । एतदेव सार्थक्यं 3 Page #5 -------------------------------------------------------------------------- ________________ प्रचारस्य, न धर्मान्तरणम् । किंरूपोऽयं प्रचारो यदन्यस्य गृहं प्रविश्य तं तस्य स्वधर्मात् च्यावनम् ? यत्रौदार्यं नास्ति स कीदृशो धर्म: ? तादृशस्याङ्गीकरणं तु धर्मभ्रंश एव, न धर्मान्तरणम् । अन्यच्च, आचारविषयो धर्मः । धर्म उपदेष्टव्य एव केवलं, न बलात्कारेणाऽन्येन वा केनचिद् रूपेण कस्यचिदपि स्वीकारयितव्यः । धर्मपरिवर्तनं नाम मातापित्रोः परिवर्तनम् । को नामैतत् स्वीकुर्यात् सहेत वा ? मातापितरावेकावेव भवतो यथा तथा धर्मोऽप्येक एव भवति । कञ्चित् कश्चित् तस्य मातापितृभ्यां येन केनाऽपि रूपेण वियोजयति चेत् तस्य विरोधो नाऽसहिष्णुताऽपि तु तस्याऽधिकार एवः । धर्मान्तरणमस्त्यनधिकारचेष्टा । वेटिकनप्रदेशे केवलमैसवीया एव निवसन्ति । नाऽन्ये केऽपि तत्र वस्तुमर्हन्ति। अथ, तत्रत्यः कश्चिद् यदि हिन्दुधर्ममङ्गीकुर्यात् तर्हि किं ते तत् स्वीकुर्युः ? सहेरन् वाऽपि किम् ? अन्यधर्मप्रचारार्थं त्वनुमतिमपि ते नैव दद्युः का वार्ता तर्हि तत्र धर्मान्तरणस्य ? अत्र च भारतदेशे धर्मप्रचारार्थं तेऽनुमताः, एतदेवाऽस्य देशस्यौदार्यं सहिष्णुता च । तथापि यदि त एतादृशमयोग्यं विधानं कुर्वन्ति तर्हि तेषां धर्मप्रचारोऽपि निषेधनीयः । अन्यथा गच्छता कालेन स्वप्रभुत्वं स्थापयितुं यत्किमपि कर्तुं ते प्रयत्नान् करिष्यन्त्येव । ये स्वकीयामनिष्टामपि धर्मान्तरणप्रवृत्तिं सत्यापयितुं न्याय्यां च प्रख्यापयितुमेवं स्पष्टतया वक्तुं साहसं कुर्वन्ति ते स्वस्वार्थसिद्ध्यर्थं किं न कुर्युरित्येव प्रश्नः । बहु चिन्तनीयमेतत् । तैस्तु भारतस्य भारतीयानां च सौजन्यायौदार्याय च कृतज्ञताऽभिव्यक्तव्या, तत्तु दूरे, प्रत्युत यद्वा तद्वा प्रलापं कृत्वा भारतं भारतीयांश्चाऽवमानयन्तीति खेदस्य विषयोऽयम् । भारतसर्वकारेण वेटिकनाधीशस्य कठोरमुपालम्भं दत्वा विधानमेतद् यत् प्रत्यादिष्टं तत् प्रशंसार्हम् । कीर्तित्रयी आषाढशुक्ला पञ्चमी अहमदाबाद 4 Page #6 -------------------------------------------------------------------------- ________________ D1199 वाचकानां प्रतिभावः H. V. Nagaraja Rao 90, 9th Cross Navilu Road, Mysore-570023 नन्दनवनकल्पतरोरद्राक्षं षोडशं कुसुमम् । द्राक्षामपि मे हृदयं रूक्षामधुना वीक्षते नितराम् ॥ सन्त्यत्र देववाण्या रचितानि रुचिरपद्यानि । रसवन्ति च शोभन्ते हृद्यानि मधुरगद्यानि ॥ लास्यं सपदि विधत्ते हास्योऽपि रसोऽत्र मर्मनर्मगणे । पास्यति सुधां विपश्चिद् हास्यति शोकं पठन्नेतम् ॥ नीतिं भजन्तु सन्तः, पापाद् भीतिं त्यजन्तु जन्तुगणाः । मुक्तिं व्रजन्तु लोका नन्दनवनकल्पकं दृष्ट्वा ॥ भारतदेशस्यैक्यं संसाधयितुं समर्थ इह नूनम् । नन्दनवनकल्पतरुः संस्कृतभाषात्मको जीयात् ॥ 5 Page #7 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः प्रा. अलकेश दवे संस्कृत/ प्राकृत विभाग, गुजरात आर्ट्स एण्ड सायन्स कोलेज, __ एलिसब्रीज, अहमदाबाद 'नन्दनवनकल्पतरोः' षोडशोऽङ्कोऽधिगतः । भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। सरलसंस्कृतवाण्याः प्रचाराय इयं पत्रिका उपकारिकी इति मया चिन्तितम् । पत्रिका उत्तमा वर्तते । वासुदेव पाठकस्य काव्यत्रय्याः पठनात् महान् आनन्दः अनुभूतः । मुनिरत्नकीतिविजयस्य 'आस्वादः'-विभागे प्रकाशितः 'चिन्तनधारा' चिन्तनयोग्या अस्ति । विषयः गम्भीरः रुचिरः च अस्ति । सर्वे लेखाः मह्यम् अतीव अरोचन्त । 'जनप्रियत्वं सुखाय वा दुःखाय वा ?' इत्येषा कथा रुचिपूर्णा उपदेशप्रदा च अस्ति । अयि नन्दनवनकल्पतरुसम्पादिके कीतित्रयि ! त्वामहं सादरं सविनयं नमामि । पत्रिकायाः षोडशाङ्कः प्राप्तः, तदर्थं बहुधन्यवादः । अत्राऽऽचार्यरामकिशोरमिश्रकृता सुकन्या नाम कथा पठिता, सा च्यवनप्राशनिर्मात्री विज्ञाता । श्रीमिश्रसङ्कलिता 'सउन्दलाचरियं' नाम प्राकृतकथा विशिष्टा । श्रीशारदावन्दनं, भक्तामरसमस्यास्तवः, श्रीशत्रुञ्जयतीर्थचैतन्यवन्दनस्तवनस्तुतयश्च प्रभावशालिन्यो मनोहराश्च रचनाः सन्ति । भवदीयं प्रास्ताविकं स्वधर्माचरणाय जनान् प्रेरयतीति शम् ।। भवदीयः - राजेशकुमार मिश्रः अध्यापकः, राजकीय इण्टर कोलिज, नागराजाधारः (बमुण्ड) पत्रालय-कखवाड़ी वाया - चम्बा (टिहरीगढ़वाल:) उत्तराञ्चलम्-२४९१४५ Page #8 -------------------------------------------------------------------------- ________________ (अनुक्रमः का कृति: कर्ता पृष्ठम् स्तुतिकल्पलता | on श्रीशाकेश्वरषनिशिका ॥ श्रीमद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकमुनिश्रीयशोविजयः डॉ. आचार्यरामकिशोरमिश्रः दबावान्दनादशाकम् ज्जलिकाचतुष्टयम प्रा. अभिराजराजेन्द्रमिश्रः । राजेशकुमारमिश्रः १४ बालगीतम् वाध्याय मङ्गलवादः मुनिकल्याणकीर्तिविजयः १६ आस्वादः १ (चिन्तनधारा) मुनिरत्नकीर्तिविजयः २७ समावसाता मुनिकल्याणकीर्तिविजयः क पत्रम मुनिधर्मकीर्तिविजयः । ३२ For Private Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः का पृष्ठम् ग्रन्थसमीक्षा जाडॉ. रूपनारायणपाण्डेयः ४१ 'नारीकथामृतम् ALSA४४ T साम्प्रतकालिक्यो व्याख्याः मुनिधर्मकीतिविजयः स्मरणम्) चार बाएं हाराशि । मुनिधर्मकीतिविजयः ४ (बया कथानायम् RO मुनिरत्नकीर्तिविजयः ४७ (१) स विवेको यः शान्तिकृत् (२) अनुकरणीयो न्यायः (३) न भाग्यादधिकं किञ्चित् गृहस्वामिनीचयनम् न मुनिधर्मकीर्तिविजयः ५३ बोधकथा) मुनिधर्मकीर्तिविजयः प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् ॥ मुनिकल्याणकीर्तिविजयः Page #10 -------------------------------------------------------------------------- ________________ कृति: राजमयः डॉ. रूपनारायणपाण्डेयः विश्वज्योतिः ('जहाँ आरा') "महाभारते परशुरामस्य पितृभक्तिः डॉ. रूपनारायणपाण्डेयः प्राकृतविभागः अनुक्रमः) अहं विश्वम्भरा क्रीतानन्दम् मर्म - नर्म श्रीवर्धमानजिनस्तुतिः ॥ कथा मन्दलाचरि कर्ता प्रा. अभिराजराजेन्द्रमिश्रः कीर्ति आ. विजयशीलचन्द्रसूरिः मुनिधर्मकीर्तिविजय: ७२ डॉ. आचार्यरामकिशोरमिश्रः पृष्ठम् ६४ ७० ८५ ९४ ९७ ९८ Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ - ।।२।। स्तुतिकल्पलता ।। श्रीशाकेश्वरषत्रिंशिका ॥ श्रीमद्विजयनेमिसूरीश्वरशिष्य प्रवर्तकमुनिश्रीयशोविजयः ।। अथ पञ्चदशाक्षरचरणमतिशक्वर्यां मालिनीवृत्तम् ।। असमशमविलासं निर्जराचार्यवाचाऽप्यगणितमहिमानं शुद्धबोधप्रदानम् ॥ प्रभुमहमथ नौमि त्रायकं विश्वजन्तोरतलकुगतिकूपाद्वर्यशकेश्वरेशम् ।।१।। ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्राच्छन्दः ।। यद्यप्यबुद्धिस्तव सुस्तवेऽहं निःशक्तिको नाथ तथाऽपि मेऽद्य ॥ दोषापनोदक्षमवाग्विलासं त्वां वीक्ष्य चित्तं यतते स्तवाय ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ।। विचित्रमाधुर्यविलासिदेवासुरादिवाक्यैः सुहितश्रुतेस्ते ।। प्रमोददायी भविता मदीयवाक्काञ्जिको देव ! रुचिप्रदानात् ॥३॥ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ॥ श्रीपार्श्वनाथं भवघोरकूपसन्तारवाग्दीर्घवरत्रमाप्तम् ।। सद्बोधनौतीर्णभवाब्धिपारं वन्दारुसन्तानकमानतोऽस्मि ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ।। निःशेषदोषानलनाशनीरम् त्वां ये श्रयन्ते गुणवल्लिमेघम् ॥ तानुत्सुका निर्वृतिरेति शीघ्रं पद्मालया पद्ममिव प्रभाते ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ।। प्राप्तप्रकर्ष कृतपुण्यसारं जन्माऽद्यजातं सफलं ममैव ।। अद्यैव जातो बहुमानपात्रं ज्ञाताऽद्य संसारविसारता च KI ASSENA ॥४॥ * S ॥६॥ ARK N नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता यगणयुगलनद्धा बद्धमोदप्रबन्धा ।। इह भवति न केषां हारिणी चित्तवृत्तेमधुरपदविलासा मालिनी नागवाहैः ॥ उट्टवणिका यथा।।।।।। ऽऽऽ । ऽऽ । 55 आदौ तयुग्मेन विराजमाना मध्ये जकारेण विभूषिता या ॥ अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा । उट्टवणिका यथा 55। 55।।5। 55 ॥ Page #13 -------------------------------------------------------------------------- ________________ ॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ॥ पद्मावती रक्षति यस्य भक्त्या तीर्थं जनानां भववारिवारि ॥ कीर्त्तिप्रतापैरभिराजमानः श्रीपार्श्वराजः सुखराजयेऽस्तु ॥ अथैकादशाक्षरचरणं त्रिष्टुभि 'उपेन्द्रवज्रावृत्तम् ॥ शठे द्विषानो कमठे व्यधारि बहुज्वलदुःखददेऽभवत् ॥ न सेवके भक्तिभरान्विते च तवाऽनुरागो धरणेन्द्रराजे ॥ अथैकादशाक्षरचरणं त्रिष्टुभि उपेन्द्रवज्रावृत्तम् ॥ इति प्रभो कर्मचमूरजेया समूलमुन्मूलितपुण्यराशिः ॥ अहो उदासीनतया त्वयाऽरं जिता स्ववीर्येण जगत्पतीश ! ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ त्वत्पादसेवामकरन्दपूर्णं त्वद्ध्यानभानूदयजातहर्षम् ॥ सतां हृदब्जं समुपैति सिद्धिर्मरन्दलोभाद् भ्रमरीव पद्मम् ॥ अथैकादशाक्षरचरणमुपंजातिवृत्तम् ॥ अलब्धपुण्यैरिह दुर्लभं तत् विपच्छिलोच्छेदनवज्रपातम् ॥ वताभ्रवृष्टेस्सममीक्षणं मे जातं त्वदीयं शमसौख्यमुख्यम् ।। अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥ कोपप्रवेशो न तवाऽस्ति देव ! न रागलेशोऽपि च देव ! कुत्र ॥ उपेक्षया व्याप्तमिदं जगत्ते न खण्डिता चेश्वरता तथाऽपि ॥१२॥ ॥ अथ द्वादशाक्षरचरणं जगत्यां वंशैस्थवृत्तम् ॥ ॥१३॥ तव क्रमस्पर्शकरा नरास्तु ये सुखं लभन्ते परमं जिनेश्वर ! ॥ यतो न किं हेम भवेदयस्तु ते प्रभावतः स्पर्शमणेरगोचरात् २. श्रुतिप्रमोदं विदुषां करोति विचित्रशोभा जतजैर्गयुग्मैः । उपेन्द्रवज्रा कथिता कवीन्द्रैर्न का भुवि सा प्रसिद्धा ||९|| उपेन्द्रवज्राचरणेन युक्ता स्यादिन्दवज्राचरणाभिरामा । कवीन्द्रलोकैः कथितोपजातिः तस्याः प्रभेदा बहवः प्रसिद्धाः ॥ चतुर्दशोपजातयस्तासां नामानि ॥ कीर्तिर्वाणी माला शाला हंसी माया जाया बाला || आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासामाख्याः || ३. ॥७॥ 11211 २ 11811 ॥१०॥ ॥११॥ गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदम्महामते ! | Page #14 -------------------------------------------------------------------------- ________________ ।। अथेन्द्र॑वंशावंशस्थस्योरुपजातिर्द्वादशाक्षरचरणिका ॥ अवर्णनीयं बहुपापगुम्फितं यच्चाऽनुभूतं भवदुःखभारकम् ॥ चरित्रकं मे पुरतस्तवाऽधुना जानासि देवेति कृतं प्रलापकैः ॥ अथेन्द्रवंशावंशस्थयोरुपजातिर्द्वादशाक्षरचरणिका ॥ नमत्सुधाभुक्पतिपूजितक्रमः श्रीकेवलज्ञानविलोचनाञ्चितः ।। त्वमीक्षसे नाथ ! जगत्रयं सदा अतस्त्रिनेत्राय नमो नमोस्तु ते ॥ अथैकादशाक्षरचरणं त्रिष्टुभि शालिनीवृत्तम् ॥ ॥१४॥ भुक्त्वा भुक्त्वा भोज्यसारं भवेषु तृप्ता दृप्ता नैव लोकाः कदाचित् ।। जातास्ते ते त्वद्वच:पानकेन तुष्टेः पुष्टेर्धारकाः शान्तचित्ता: ॥१६॥ ॥१५॥ भ्राता त्राता सर्वविश्वस्य चाऽसि धृत्वा धृत्वा केवलं वर्त्तमानः ॥ जातस्तात ! त्वं तु लोकोपकारी सेव्यो देव्यो नैव केषां जनानाम् सारा धारा मेघधारेव वाचो रोहं रोहं सारसौख्यालिल्लिम् ॥ मारापारस्मेरदपघहन्त्री यस्य त्रस्यत्पापराशि नुमस्तम् ६. 112611 भ्रान्त्वा भ्रान्त्वा घोरसंसारदावे श्रान्ताः श्रान्ता जन्तवो देवदेव ! ॥ नत्वा नत्वा त्वत्पदाम्भोजयुग्मं हत्वा हत्वा कर्मसङ्घ विमुक्ताः ॥ १९॥ हारं हारं सर्वमोहान्धकारं कारं कारं सर्वपापप्रणाशम् ॥ भव्यं नव्यं देव ! दत्से जनानाम् तारं तारं घोरसंसारवार्धेः ॥ अनुष्टुभ्वृत्तम् ।। ३ ॥१७॥ जितश्रमं जितात्मानं जितामित्रं जितेन्द्रियम् ॥ जिनेन्द्रं जितदं नौमि जित्तमं तं जितामयम् सर्वसज्ज्ञानसम्पन्नं परब्रह्मप्रतिष्ठितम् ॥ देवेन्द्रपूजितं देवं वन्दे शङ्खश्वरं वरम् ॥२२॥ ४. स्यादिन्द्रवंशाचरणाभिशोभिता प्रबद्धवंशस्थपदावपूरिता । विद्वन्मनः कैरवमोदचन्द्रिका ख्यातोपजातिर्भुवि चाऽपरा बुधैः ॥ ५. स्फारस्फूर्जत्प्रोज्जितोद्दामदीप्तिः चित्ताह्नादं म्तौ तगौ गं दधाना ॥ कुर्यान्नेयं कस्य संश्रूयमाणा . प्राज्ञैः प्रोक्ता शालिनी वाद्धिवाहैः ॥ उट्टवणिका यथा ऽऽऽ ऽऽ। ऽऽ। ऽऽ ॥ पादे सर्वत्र षष्ठः स्याद् गुरुर्लः पञ्चमस्तथा । समे लघुः सप्तमश्च यत्र तद्विद्ध्यनुष्टुभम् ॥ 112011 ॥२१॥ Page #15 -------------------------------------------------------------------------- ________________ सुवर्णकं तं धर्माणां सुवर्णच्छविविग्रहम् ।। सुवर्णनीयचारित्रं सुवर्णवचनाकरम् ॥२३॥ सर्वदा धर्मयन्तारं सर्वदा धर्मदायकम् ।। धर्मेशं धर्मवर्माणं वन्देऽहं धर्मदेशकम् ॥२४॥ ज्वलज्ज्वालावलीरक्तभासा भाभासिनो नखाः ।। विघ्नं निघ्नन्तु देवेश ! पादपद्मोद्भवास्तव ॥२५॥ ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यः यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्द्यं क्षितिपतिम् स्तुवे श्रीशलेशं जिनवरमहन्तं प्रतिदिनम् ॥२६॥ भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने यतः के च स्यु! अमृतभरमापीय विजराः ॥२७।। सदा मोहद्रोहप्रकटनपरस्य क्षितिपतेयंपारेका त्वेका समवसरणे गीस्तव वरा ॥ असारां व्याधारां भवजलनिमग्नां जिन ! धराम् समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८।। ज्वलत्काष्टवालावृततनुरहिर्दारसहितः प्रसादात्तेऽलभ्यादमरपदवी प्रापदथ सः ।। जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुलप्रभावप्रज्ञानात् प्रसितमनसः शान्तमतयः ॥२९।। अमी पार्वाधीशा विमलगुणजातान् विदधतू पसर्गाणां सेना ज्वलदनलवद्भीतिभरदाः ॥ ७. भवेत्पूर्वं यस्यां यगणरचना मेन सुभगा । ततः पश्चान्नस्स्यात्सगणसहितो भेन कलिता ।। लघुर्गान्त्याविज्ञैरिह विमलवर्णा स्फुटपदा । रसै रुटैश्छिन्ना भवति भुवि सैषा शिखरिणी॥ Page #16 -------------------------------------------------------------------------- ________________ अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयनैः त्रिलोकी भिन्दाना शठकमठजाता समसहि ॥३०॥ सदा देवासेवान्त्यजत उपकाराय सहसा यदूनां दूनानां क्षितितलमलङ्कुर्वत इव ।। जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः प्रसन्नाः संपन्ना यदुकुलभवारूपमतुलम् ॥३१॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः ।। आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थायको भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥३२॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी गीः शृण्वन्नरनाकिलोकहदयानन्दाश्रुदानक्षमा ॥ मुग्धान्तस्थितिकप्रमोहतिमिरवाते तु सूर्यप्रभा श्रीपार्श्वः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥३३।। त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिनस्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद्विमूढनरवत् किञ्चिन्न कर्तुं क्षमः ॥ स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥३४॥ अद्यैवोत्तमताऽभवच्च शिरसो यत्त्वत्रतेः साधनं हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते ॥ अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय इत्याल्हादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥३५॥ सर्याश्वैविरतं बधैरिह भवेत् पूर्वं मसंज्ञो गणस्तस्मात्स्यात्सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात्तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितः । यस्मिंस्तत्कथितं I विशुद्धमतिभिश्शार्दूलविक्रीडितम् । उट्टवणिका यथा 555 ॥ऽ ।। ||S 55। 55। 5 ॥३७|| Page #17 -------------------------------------------------------------------------- ________________ - ॥३६॥ ॥३८॥ Sto a website is abar मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः ।। श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥ कविनामगर्भश्चकबन्धः ।। यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः ।। शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः ॥ विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥३७॥ ॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद ! जय खेचरसौख्यद ! ।। जयेश्वर ! यशोह्लाद ! जयारं विजयप्रद ! ॥ स्तुत्यनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यगुणश्रीक ! जय खेदप्रभेदक ! ।। जयेश्वर ! शिवश्रीक ! जय रम्ययशोऽधिक ! ॥३९॥ अद्य मे सफला सूक्ति-रद्य मे सफला मतिः ॥ अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥४०॥ इत्येवं स्तुतिभिर्यशोविजयइत्याख्येन शिष्याणुना श्रीमन्नेमिविभोः पदाम्बुजयुगध्यानप्रभावात् स्तुताः ।। श्रीशङ्केश्वरमण्डनाः क्षितितले भव्यावलीसेविताः सन्तापन्तु हरन्तु भव्यभविनां पार्वाधिराजाः सदा ॥४१॥ श्रीनेमीश्वरसूरिराज्यसमये भाद्रे सिते पञ्चमीतिथ्यां भावपुरेऽभवन्मम वरो यत्रः स एष प्रभोः ।। श्रीनेमीश्वरसद्गुरोः पदयुगध्यानप्रसादादरं साफल्यं समवाप पापहरणः प्राज्ञप्रमोदावहः ॥४२॥ ॥ इतिश्रीप्रतापप्रभापटलव्याप्तदिगन्तरालकीर्तिकौमुदीनिमज्जितराकाकान्तमहोपदेशामतसारसेचनप्रोज्जीवित* जैनधर्मकल्पद्रुमाचार्यवर्यश्रीमद्विजयनेमिसूरिगुरुपादपद्ममकरन्देन्दिन्दिरप्रवरयशोविजयकृतायां स्तुतिकल्पलतायां प्रथमस्तबके सहृदयकण्ठशोभिनी पावोज्ज्वलगुणगुम्फिता विविधच्छन्दोमयमुक्तकषट्विंशिका ॥ Page #18 -------------------------------------------------------------------------- ________________ देववन्दनदशकम् द्रष्टा य आदिरिहवेदचतुष्टयस्य, स्मर्ता य आदिस्थ सर्वपुराणकानाम् । डॉ. आचार्यरामकिशोर मिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा - २०११०१ (बागपत) उत्तरप्रदेश: (१) स्रष्टा य आदिजनकोऽस्ति चराचराणाम्, ब्रह्मा महान् स इति तं शिरसा नमामि ॥१॥ पीताम्बरं कमलनाभमुपेन्द्रदेवं, (२) नारायणं प्रियसुरं कमलापतिं च । वैकुण्ठनाथमधुना यमहं स्मरामि, यः कथ्यते गरलवेगहरस्त्रिशूली, विष्णुर्महान् स इति तं शिरसा नमामि ॥२॥ (3) स्थाणुः शिवः पशुपतिश्च स चन्द्रमौलिः । वन्दे वसन्ततिलकेन हि यं गिरीशम्, शम्भुर्महान् स इति तं शिरसा नमामि ॥३॥ (8) भानुं दिवाकरमहःपतिमुष्णरश्मि, मित्रं सहस्रकिरणं दिवसेश्वरं च । प्रद्योतनं दिनमणिं यमहं भजामि, सूर्यो महान् स इति तं शिरसा नमामि ॥४॥ ७ Page #19 -------------------------------------------------------------------------- ________________ प्राणाः समस्तजगतो हि समीरणो यः, वातः स गन्धवह आशुग आशुगन्ता । यं स्पर्शनं श्वसनदेवमहं स्मरामि, वायुर्महान् स इति तं शिरसा नमामि ॥५॥ WLA इन्दु विधुं शशधरं मृगलाञ्छनं च, सोमं कलानिधिमपांपतिजं हिमांशुम् । शीतांशुदेवमधुना यमहं भजामि, चन्द्रो महान् स इति तं शिरसा नमामि ॥६॥ शुक्रं कृशानुमनलं दहनं च वह्नि, वैश्वानरं हुतभुजं जगता प्रपूज्यम् । यं वीतिहोत्रमधुना हृदये स्मरामि, अग्निर्महान् स इति तं शिरसा नमामि ॥७॥ वर्षेषु यो विभजते समयं स्वशक्त्या मासेषु पक्षदिवसेषु पलेषु नित्यम् । होरासु तं च विदधाति सदा विभक्तं, कालो महान् स इति तं शिरसा नमामि ॥८॥ wी यः कथ्यते जलनिधिर्जलधिः सरस्वान्, कल्लोलवानमृतवाञ्जलवानुदन्वान् । _ विष्णुप्रिया हि कमला जनिताऽत्र येन, सिन्धुर्महान् स इति तं शिरसा नमामि ॥९॥ tra Page #20 -------------------------------------------------------------------------- ________________ (१०) यो जायते सकलजीवमनस्सु लोके, यश्चञ्चलानि कुरुते श्वसतां मनांसि । वीर्यं प्रकाशयति कर्मरतो निजं यः, कामो महान् स इति तं शिरसा नमामि ॥१०॥ लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ! अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् ।। वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं । स्यात् । ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः i प्रतिभावो भवतु । ॐ - Page #21 -------------------------------------------------------------------------- ________________ लिकाचतुष्टयम् गलज्जलिका प्रा. मिश्रोऽभिराजराजेन्द्रः BY (पूर्वकुलपतिः) शन्नो निवास, टीचर्स कॉलोनी लोअर समर हिल, शिमला - १७१००५ (१) रक्तं समेषां कथं शोणितम् ? काफिरा एव चेत्तुर्क भिन्ना जनारतर्हि रक्तं समेषां कथं शोणितम् ॥१॥ नो विवेकोदयो लक्ष्यते कुत्रचित् हन्त जातं जगन्मौढ्यसम्मोहितम् ॥२॥ एक एवेश्वरश्चेन्मतस्साक्षिकः नाम कस्मात् त्रयं प्रोच्यते कल्पितम् ॥३॥ पोप-मुलादयः किन्न तत्त्वं विदुः भाति सत्यं तथाऽपीदमश्रावितम् ॥४॥ युध्यते चेदयोध्यं समाराधितुम् हन्त चित्रं कियन्नो जगलज्जितम् ॥५॥ मित्रभूतानरीकृत्य युद्धोद्यमः केन धर्मेण वर्मेदमुद्भावितम् ?? ॥६॥ चेष्टितं यद्धि म]तरप्राणिनाम् मानुषाणां न धात्रा कथं तत्कृतम् ?? ॥७॥ १० Page #22 -------------------------------------------------------------------------- ________________ म (२) तज्जीवनं हन्त वीतम् !! COM व्यथा येन भुक्ता दृगयं निपीतम् । सुख्खेनैव तज्जीवनं हन्त वीतम् ॥१॥ न येनाऽर्चितं पादपद्मं खलानाम् यशश्चारणैस्तस्य लोके प्रगीतम् ॥२॥ अमर्षं बुधा दीप्तसप्तार्चिमाहुः पं प्रीतिबन्धं हिमोशीरशीतम् ॥३॥ किमर्थं मरौ केऽपि गच्छन्तु जीवाः लसत्काननं तद्यदेभिः पीतम् ॥४॥ महासत्त्वताया विचित्रो हि दण्डः यदेकाकिनाऽऽयुर्मूगेन्द्रेण नीतम् ॥५॥ यशःप्रार्थिना सत्कवीनां मयाऽपि कृतजायनं नाम काव्यं प्रणीतम् ॥६॥ स्वदृष्ट्यैव सञ्जीविता प्राणवल्ली कुत: कौशलं शोभने ! द्रागधीतम् ॥७॥ मरिष्यामि नो वृश्चिकानुनदंशैः गलं कृष्णतां कालकूटेन नीतम् ॥८॥ पयः पायिता येन नो दन्दशूकाः वयो निर्भयं तस्य नूनं व्यतीतम् ॥९॥ सखे ! आवयोरन्तरं तावदेतत् त्वयाऽऽक्रन्दितं यन्मया तद्धि गीतम् ॥१०॥ M Page #23 -------------------------------------------------------------------------- ________________ * (३) क्वचित्प्रलीनम् दृप्तः कदाचिदासं तृप्तः कदाचिदासम् चञ्चन्मनोभ्रमेऽस्मिन् कृत्यं वचित्प्रलीनम् ॥१॥ आकाशमपि मम स्यात्पातालमपि मम स्यात् । स्याद्वादकल्पनेऽस्मिन् हर्म्यं वचित्प्रलीनम् ॥२॥ कुचपुडि भवेदिहादौ गर्बा ततश्च जात्रा । . रङ्गस्य दुर्हठेऽस्मिन् नृत्यं वचित्प्रलीनम् ॥३॥ आम्रोऽयमिति ममोक्तिश्चिञ्चेयमिति तदोक्तिः । अस्मिन् मृषोक्तिदम्भे सत्यं वचित्प्रलीनम् ॥४॥ मत्तो भयं तवाऽभूत्त्वत्तो भयं ममाऽभूत् । नूनं मिथो भयेऽस्मिन् सख्यं क्वचित्प्रलीनम् ॥५॥ तीर्थाटनं करिष्ये दानादिकं करिष्ये । अस्मिन् बृहद्भविष्ये भव्यं वचित्प्रलीनम् ॥६॥ भासे तवाऽनुरागो मम चाऽपि कालिदासे । प्रतियोगिरागबन्धे काव्यं क्वचित्प्रलीनम् ॥७॥ ह्यो वामनेऽद्य रामे श्वश्वाऽपि वासुदेवे । क्षणभङ्गुराग्रहेऽस्मिन् धैर्यं क्वचित्प्रलीनम् ॥८॥ दृष्ट्वा नितान्तदैन्यं भैक्ष्यञ्च बालकानाम् । पठतोऽभिराजिसूनोर्गेयं चित्प्रलीनम् ॥९॥ म १२ Page #24 -------------------------------------------------------------------------- ________________ - F (४) विलापः कुतोऽयम् ? सदाऽर्थोष्मणा योषितो हन्त भुक्ताः सुताशीलमङ्गे विलापः कुतोऽयम् ? ॥१॥ रेषामकीतौ रुचिर्जन्मसिद्धा निजाऽकीर्तिहेतोः प्रलापः कुतोऽयम् ॥२॥ सतां शातने नैव लज्जा तवाऽभूत् निजोत्सादने तर्हि तापः कुतोऽयम् ॥३॥ प्रयुक्तं नयज्ञैः शठे शाठ्यमेव मुधा दीयते भूरि शाप: कुतोऽयम् ॥४॥ श्रियाऽपीप्सितस्सन्ततं लम्पटानाम् त्वदीयानुभावो दुरापः कुतोऽयम् ॥५॥ कियच्चित्रमाभाति पुत्रे तवोक्तम् कुले धीमतां दैव ! पापः कुतोऽयम् ॥६॥ मलोच्छालनं पुण्यराशौ परेषाम् स्वपापेषु कर्णोपजापः कुतोऽयम् ॥७॥ न जानाति को विक्रमन्तेऽबलासु त्वयि प्रोत्थिते शम्भुचापः कुतोऽयम् ॥८॥ व्यतीतेऽखिले जीवनेऽकृत्यलिप्ते . प्रयाणक्षणे तेऽनुतापः कुतोऽयम् ॥९॥ - १३ Page #25 -------------------------------------------------------------------------- ________________ - बालगीतम् राजेशकुमार मिश्रः अध्यापक:-राजकीयइण्टर कॉलिज . नागराजाधारः (बमुण्ड) पत्रालयः-कखवाड़ी, वाया-चम्बा (टिहरीगढवाल:) उत्तराञ्चलम् - २४९१४५ (१) SIL बालो रोदिति माता चुम्बति, पिता लालयति नित्यम् ।। स काष्ठघोटकं शीघ्रमारोहति, ताडयति तुरगमिव भृत्यम् ॥१॥ (२) खादति बालो रोटिकां मुखे, प्राङ्गणे चलन् पतति । पुनरुत्तिष्ठति चलति पुनः सः, पुनः स्वकक्षं प्रविशति ॥२॥ अजिरे पतितरोटिकां काकः, दृष्ट्वा वृक्षादवतरति । चञ्चौ कृत्वा तां रोटिकाम्, वृक्षं प्रति स उत्पतति ।।३।। (४) गृहीतरोटिकं काकं पश्यन्, बालो रोदिति वारं वारम् । श्रुत्वा रोदनमजिरे माता, परिचुम्बति तमपारम् ॥४॥ Page #26 -------------------------------------------------------------------------- ________________ POORMA पिता वदति रे कार्तिकरञ्जन ! त्वमेहि, हट्टे प्रति गच्छाव । मा रोदीस्त्वम्, एहि च हट्टात्, मिष्टान्नमानयाव ॥५॥ starturmirmirmirmire धत्ते भरं कुसुमपत्रफलावलीनां धर्मव्यथां वहति शीतभवां रुजं च । यो देहमर्पयति चाऽन्यसुखस्य हेतोः तस्मै वदान्यगुरवे तरवे नमोऽस्तु । tarmunmaurturmuirts. Page #27 -------------------------------------------------------------------------- ________________ मङ्गलवादः मुनिकल्याणकीर्तिविजयः प्रारिप्सितशास्त्राणां निष्प्रत्यूहसमाप्त्यर्थं शिष्टाचारविषयत्वाच्च 'शास्त्रादौ मङ्गलं कर्तव्य'मिति प्रायशः सर्वेऽपि शास्त्रकारा निर्दिशन्ति । जैनागमेष्वपि मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । इह तु पूज्यैः श्रीमज्जिनभद्रगणिक्षमा श्रमणैः स्वप्रणीते श्रीविशेषावश्यकभाष्याभिधे महाग्रन्थे आगमानुसारं यन्मङ्गलस्वरूपवर्णनं कृतमस्ति, तदनुसृत्यैव किञ्चित् प्रस्तूयते । * ननु किमर्थं शास्त्रस्याऽऽदौ मङ्गलं कर्तव्यमित्याह स्वाध्याय: " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि " इति वचनात् सर्वाण्यप्युत्तमकार्याणि प्रायो विघ्नप्रचुराणि भवन्ति, किं पुनः शास्त्रस्य ग्रहणं पठनं रचनं वा ? अतस्तत्र कर्तव्ये त्ववश्यं मङ्गलोपचारः आदरणीय एव । यथा महानिधि महाविद्यां वा प्राप्नुवन् कश्चिन्मङ्गलोपचारं कृत्वैव तद् गृह्णाति तथेदमपि शास्त्रं ग्रहीतव्यमिति । ननु क्व पुनस्तन्मङ्गलं कर्तव्यं ? किमर्थं वा ? इत्याह मङ्गलं हि शास्त्रस्याऽऽदौ - प्रारम्भे, मध्यभागे तथा पर्यवसाने चेति त्रिषु स्थानेषु क्रियते । अथ प्रत्येकमपि किमर्थमिति करणफलमाह - प्रथमं हि मङ्गलं तावच्छास्त्रग्रहणेऽविघ्नतया पारगमनाय निर्दिष्टमस्ति । मङ्गले हि कृते शास्त्रार्थो निर्विघ्नतया गृह्येतेत्याशयः । प्रथममङ्गलकरणानुभावाद् यः शास्त्रार्थो निर्विघ्नतया गृहीतस्तस्यैव स्थिरीकरणार्थं शास्त्रस्य मध्यभागे द्वितीयं मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । तथाऽन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य द्वितीयमङ्गलप्रभावात् स्थिरीभूतस्य शिष्यप्रशिष्यादिवंशेऽव्यवच्छिन्नतयाऽनुवर्तनाय कर्तव्यम् । अथ परः प्राह - ननु भवतः शास्त्रं मङ्गलं न प्राप्नोति । कुत: ? इत्याहमङ्गलकरणादेवेति । अमङ्गले हि मङ्गलं कर्तव्यम् । यत्तु स्वयमेवं मङ्गलं तत्र किं मङ्गलविधानेन ? न हि कश्चिच्चन्द्रमसं शुक्लीकर्तुं प्रयतते कदाचित् । अतो मङ्गलविधानादेव ज्ञायते यच्छास्त्रं न मङ्गलमिति । ★ विशेषावश्यकभाष्ये सटीकाः गाथा: १२तः द्रष्टव्याः । १६ Page #28 -------------------------------------------------------------------------- ________________ Kota अथ यदि मङ्गलस्याऽपि सतस्तस्य शास्त्रस्याऽन्यदपि मङ्गलं विधीयमानमभ्युपगम्यते तदा त्वनवस्थैवाऽत्र महद्दूषणमापतति । तथा हि-मङ्गलरूपस्याऽपि शास्त्रस्य यद्यन्यन्मङ्गलमुपादीयते तदा तस्याऽपि मङ्गलस्याऽन्यदपि मङ्गलं विधातव्यं, तस्याऽप्यन्यत, तस्याऽपि चाऽन्यदित्येवमनवस्थाऽऽपतन्ती न वारयितं शक्या । अथ च यदि मङ्गलस्याऽन्यन्मङ्गलं विधीयमानं नेष्यते तथा चाऽनवस्थाऽपि नेष्यते, तदा तु यथा मङ्गलमपि शास्त्रमन्यस्मिन्मङ्गलेऽकृते मङ्गलं न भवति तथेदमपि मङ्गलमन्यमङ्गलेऽकृते मङ्गलं न भवेत् । एवं च शास्त्रे यन्मङ्गलं विहितं तदन्यमङ्गलशून्यत्वान्मङ्गलत्वं न प्राप्नोति, 2 तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् । तथा चेयमुभयतःपाशा रज्जुः । - __ अत्रोत्तरमाह - भोः ! शास्त्रादागमादेरर्थान्तरभूतं-भिन्नं यदि विधीयमानं Y () मङ्गलं स्यात् तदा भवता कल्पितममङ्गलत्वानवस्थादिदूषणजातं सार्थकमपि भवेत्। 0 किन्तु शास्त्रमेव यदि मङ्गलस्वरूपमभ्युपगम्यते तद्भिन्नं च मङ्गलं नैवोपादीयते । तदा तु हन्त ! किममङ्गलं का वाऽनवस्था भवन्ती भवता प्रेर्यते ? नन्वाकाशरोमन्थनमेवेदं भवतः । पुनरपि परः प्रेरयति - ननु यदि शास्त्रं स्वयमेव मङ्गलं तदा 'तं मंगलमाईए' इत्यादिवचनात् तत्र मङ्गलं किमित्युपादीयते ? तदाऽऽह - सत्यम् - किन्तु तदुत्तरं त्वग्रे वक्ष्यतेऽतो मा त्वरिष्ट । अथ च शास्त्रादर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य दूषणानि निराकुर्वन्नाह शास्त्रकारः - भो वादिन् ! यदि शास्त्रादर्थान्तरभूतमपि मङ्गलमभ्युपगम्यते । तदाऽपि शास्त्रस्याऽमङ्गलत्वं नाऽस्ति नाऽप्यनवस्था काचित् । यतः मङ्गलं तु . सदाऽपि प्रदीप इव स्व-परेषामनुग्रहकृदेव वर्तते । यथा हि प्रदीपः स्वमपि । प्रकाशयन् स्वानुग्रहकारी भवति, परितो वर्तमानांश्च पदार्थान् प्रकाशयन् परेषामप्यनुग्राहको भवति परं न स्वप्रकाशने प्रदीपान्तरमप्यपेक्षते । यथा वा लवणं X. रसवर्ती मधुरयन् स्वमपि च सलवणं करोत्येव न तु तदर्थं लवणान्तरमप्यपेक्षते। एवं मङ्गलमपि शास्त्रादर्थान्तरभूतत्वेऽपि निजसामर्थ्याच्छास्त्रे स्वस्मिन्नपि च मङ्गलतामादधानं स्वपरानुग्रहकृद् भवत्येव, न तु तत्र मङ्गलान्तरमप्यपेक्षते । अतो मङ्गलान्मङ्गलरूपताप्राप्तौ शास्त्रस्य नाऽमङ्गलरूपता नाऽपि च स्वमङ्गलार्थमन्यमङ्गलानपेक्षत्वादनवस्थाऽपि काचिदिति । - १७ www.janelibrary.org Page #29 -------------------------------------------------------------------------- ________________ पुनरप्याह परः ननु भवता शास्त्रस्याऽऽदौ मध्ये पर्यवसाने चेति त्रिधा मङ्गलं क्रियते इति निर्दिष्टम् । एवं च तेषां त्रयाणां मङ्गलानां यदन्तरालद्वयं तन्मङ्गलत्वं न प्राप्नोति यतो भवता नियतस्थानेष्वेव मङ्गलमुपादीयते इति निर्दिष्टम् । अथवा भोः सिद्धान्तवादिन् ! भवता तु सर्वमेव शास्त्रं मङ्गलमित्यपि कथितमस्ति । एवं स्थिते किमर्थमिह मङ्गलत्रिकग्रहणम् ? सर्वस्मिन्नेव शास्त्रे मङ्गलभूते सति मङ्गलत्रिकपरिकल्पनं हि न युक्तियुक्तम् । अतो भवताऽपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपत्तव्यं मङ्गलत्रयग्रहणं वा न कर्तव्यम् । अत्रोत्तरमाह आचार्य: नन्वस्माभिस्तु शास्त्रमेव त्रिधा विभक्तमस्ति बुद्ध्या । एवं च तदन्तरालयोर्वार्तेव नास्ति । यथा हि मोदकादिवस्तुनि त्रिधा खण्डिते सति तदन्तरालं न सम्भवत्येव । एवं चाऽत्राऽपि ज्ञातव्यमिति कस्याऽमङ्गलता स्यात् ? - किन्तु त्रिधा विभक्तेऽपि शास्त्रे कथं वा सर्वस्य मङ्गलत्वम् ? भोः ! इदं सर्वमपि शास्त्रं कर्मविनाशस्वरूपनिर्जरार्थमस्तीति तत् स्वयमेव तपोवद् मङ्गलमेव । एवं चाऽपान्तरालद्वये यद् भवताऽमङ्गलत्वमाक्षिप्तं तदयुक्तमेव । यदि तत् सर्वमेव मङ्गलं स्यात् तदा तु न क्वाऽपि तस्याऽमङ्गलत्वलेशोऽपीति भावः । परः पर्यनुयुङ्क्ते भोः सिद्धान्तवादिन् ! यदि हि भवता सर्वमपि शास्त्रमेव स्वयं मङ्गलतयेष्यते तदा किमिति प्रारम्भे मध्येऽध्यवसाने च मङ्गलपरिग्रहः क्रियते ? हन्त ! निरर्थक एव सः । अत्राऽऽहाऽऽचार्यः - ननु सत्यमेतत् । तथाऽपि शिष्याणां मतौ मङ्गलस्य कर्तव्यत्वेन परिग्रहणार्थमेव तदभिहितमस्ति । शिष्या हि तस्मिन्नभिहिते ‘मङ्गलमेतच्छास्त्र’मिति स्वमतौ स्थिरीकुर्युरित्येतदर्थमेव तदभिधानमिति भावः । तथा मङ्गलमपि मङ्गलबुद्ध्या गृह्यमाणमेव मङ्गलं भवति । मङ्गलबुद्ध्या गृहीतमेव मङ्गलं स्वकार्यं करोति न त्वमङ्गलबुद्ध्या । अथैवं सति अमङ्गलमपि मङ्गलबुद्ध्या गृहीतं मङ्गलकार्यं कर्तुमलं भविष्यतीति चेत्- मैवं वोचः । यद्धि स्वत एव मङ्गलं तदेव मङ्गलबुद्ध्या गृहीतं स्वकार्यं साधयेत् । यत्तु स्वयमेवाऽमङ्गलं तत् कथं मङ्गलबुद्ध्या गृहीतमपि मङ्गलकार्यं साधयितुमलम् ? सत्यमणिरेव सत्यमणितया गृहीतो गौरवमापादयेत् १८ Page #30 -------------------------------------------------------------------------- ________________ न त्वलीको मणिरित्यलं प्रसङ्गेन । तदेवं विविधोपपत्तिभिर्मङ्गलं कर्तव्यताकत्वेन व्यवस्थाप्येदानीं नाना व्युत्पत्तिभिर्मङ्गलशब्दस्य निरूपणं करोति शास्त्रकारः -- (१) मगि-र्गत्यर्थो धातुः । तथा च मङ्गयतेऽधिगम्यते साध्यते यतो हितमनेनेति मङ्गलम्- अलच्प्रत्ययान्तं भवति । Y (२) अथवा मङ्ग इति धर्मशब्दार्थः । ततश्च मङ्गं धर्मं लाति समादत्ते इति मङ्गलम्। (३) अथवा निपातनादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मकि मण्डने इति) धातोः मक्यते-अलङ्क्रियते शास्त्रमनेनेति मङ्गलम् । मन ज्ञाने इति धातो: मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेनेति मङ्गलम् । मुद मोद-स्वप्न-गतिषु y इति धातो: मदी हर्षे इति धातोश्च मोदन्ते-माद्यन्ति-हष्यन्ति-शेरते-विघ्नाभावेन 0 निष्पकम्पतया सुप्ता इव जायन्ते शास्त्रस्य च पारं गच्छन्त्यनेनेति मङ्गलम् । मह पूजायामिति धातोः मह्यन्ते-पूज्यन्तेऽनेनेति मङ्गलम् । (४) अथवा निरुक्तादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मां गालयति भवादिति मङ्गलम् । संसारादपनयतीत्यर्थः । शास्त्रस्य मा भद गलो - विघ्नोऽस्मादिति गलो-नाशो वाऽस्मिन् सतीति मङ्गलम् । सम्यग्दर्शनादिमोक्षमार्गलयनाद् वा मङ्गलमिति । सर्वस्याऽपि वस्तुनस्तत्त्व-पर्याय-भेदैर्व्याख्या भवति । तत्त्वं नाम ) शब्दार्थरूपम् । तत्तु निर्णीतमेव । पर्यायास्तु मङ्गलस्य शुभं, शान्ति, विघ्नविद्रावणमित्यादयः स्फुटा एव । भेदाश्च नामादयश्चतुर्धा भवन्ति । तथाहि - . नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलं चेति । तत्र तावन्नामङ्गलं विवरीषुराचार्यः प्रथमं नामस्वरूपमाह नाम द्विधा भवति । तथाहि - (१) पर्यायैरनभिधेयमन्यार्थेऽन्वर्थे वा 0 स्थितं, तदर्थनिरपेक्षं चेत्येकम् । (२) यादृच्छिकं च द्वितीयम् । ____ तत्र पर्यायानभिधेयं नाम यदा यस्य कस्यचिदिन्द्रादि नामधेयं क्रियते तदान स विवक्षितपुरुष इन्द्रस्यैवाऽन्यैः पर्यायैर्हरि-मघव-बिडोजोमुख्यै वाऽभिधीयेत । तथा तदेव इन्द्रादिनाम ततो विवक्षितपुरुषादन्यस्मिन् देवाधिपत्याद्येऽर्थे सद्भूततया वर्तेत, अथवा, सद्भूततया तदिन्द्रादिनाम (अनुगतः सम्बद्धः परमैश्वर्याद्यर्थो यस्मिन् - Page #31 -------------------------------------------------------------------------- ________________ शचीपत्यादौ तत्र) अन्वर्थे वर्तेत। तथा विवक्षिते पुरुष तु तन्नाम न । शचीपत्याद्यर्थमपेक्षते इति तदर्थनिरपेक्षम् । यादृच्छिकं नाम, न केवलमिन्द्रादीनि लोकप्रसिद्धनामानि परन्तु स्वेच्छया स्वविवक्षया वा डित्थ-डवित्थादीनि नामान्यपि कर्तुं शक्यान्ये।। एते द्वे अपि नामनी सामान्यतो यावद्रव्यं प्रायशो वर्तेते । विशेषतस्तु मेर्वादिषु शाश्वतवस्तुषु नाम सर्वदा वर्तेत, अनित्यवस्तुषु तु घटादिषु परावर्तेताऽपि । एवं द्वेधा नामस्वरूपमुक्तम् । एवमेव पुस्तकादिषु लिखिता इन्द्र-प्रमुखा कर वर्णावल्यपि नामत्वेनैवाऽभिधीयते । अथ सोदाहरणं नाममङ्गलमाह- मङ्गलार्थशून्ये वस्तुनि यन्मङ्गलमिति 0 नाम क्रियते लिख्यते वा तदेव नाममङ्गलम् । यथा देशीभाषायां ज्वलनो मङ्गलनाम्ना र ढोऽस्ति, सिन्धुदेशे देवरकस्य वलनकं वेष्टनकं (Reel) वा मङ्गलशब्दाभिधेयम्। Y लाटदेशेषु च वन्दनमाला (सहकारपत्रमाला) मङ्गलपदवाच्याऽस्ति । तदेवं नाममङ्गलमुक्तम् । इदानीं स्थापनामङ्गलं चिकथयिषुराचार्यः प्रथमतः स्थापनास्वरूपमेवाऽऽह । यद् वस्तु तदर्थशून्यमपि तदभिप्रायेण तादृशाकारयुतं निराकारं वा क्रियते स्थाप्यते सा स्थापना । यथा इन्द्रादेर्लक्षणैः शून्येऽपि वस्तुनि इन्द्राद्यभिप्रायेण चित्र-काष्ठकर्मादिभिस्तदाकारा विरच्यन्ते निराकारं वाऽक्ष-वराटिकादि वस्तु इन्द्रादितया परिकल्प्यते सा स्थापना । सा च द्विविधा इत्वरा यावत्कथिकी च । तत्रेत्वरा नामाऽल्पकालमेव या चित्रादिषु स्थापना क्रियते सा। यावत्कथिकी च () नन्दीश्वरद्वीपादिषु वर्तमानानां शाश्वतचैत्यप्रतिमादीनां स्थापना । अत्र च, तिष्ठतीति ४ स्थापना - इति समगोक्ता व्युत्पत्तिर्ज्ञातव्या। स्थापनामङ्गलमाह - लोके या स्वस्तिकादीनां मङ्गलतया स्थापना क्रियते - V सैव स्थापनामङ्गलम्। . अशः नलं व्याचिख्यासुराचार्यः प्रथमं तावद् द्रव्यस्वरूपमाहद्रवति-तांस्तान् स्वपर्यायान्-प्राप्नोति मुञ्चति वेति द्रव्यम् । 27 श्रूयते-स्वपर्यायैरेव मुच्यते प्राप्यते वेति द्रव्यम् । (अत्र ये पर्याया ) द्रव्यं प्राप्नुवन्ति तान् द्रव्यमपि प्राप्नोति । यैश्च पर्यायैव्यं मुच्यते तान् द्रव्यमपि २० Page #32 -------------------------------------------------------------------------- ________________ K मुञ्चति ।) ___अथवा द्रवति-तांस्तान् पर्यायान् - गच्छतीति दुः सत्ता, तस्या अवयवो विकारो वा द्रव्यम् । अथवा रूप-रसादिगुणानां संद्रावः समुदायो घटादिरपि द्रव्यम् ।। ____ अथवा 'भविष्यतीति भावः' तस्य भावस्य यद् योग्यं तद् राजपर्यायार्हकुमारराजवद् द्रव्यम्।। ____ अथवा भूतभावोऽपि द्रव्यम् । भूतः-पश्चात्कृतोऽनुभूतः पूर्णीभूतो वा . ) भावः पर्यायो यस्य तद् भूतभावमपि द्रव्यम् । यथाऽनुभूतघृताधारत्वपर्यायो रिक्तघटः । एवं भूत-भविष्यत्पर्याययुतमपि द्रव्यमेव । यथाऽनुभूतघृताधारत्वपर्यायो ? रिक्तघटः पुनरपि भविष्यत्काले घृताधारत्वपर्यायमनुभविष्यति । (अत्र च यद् भूतभावस्य भविष्यद्भावस्य च योग्यं भवति तदेव द्रव्यमुच्यते । अन्यथा सर्वेषां पुद्गलानां सर्वभावतया परिणतत्वात् परिणंस्यमानत्वाच्च सर्वमपि द्रव्यत्वं प्राप्नुयात् ।) Y इदानीं द्रव्यमङ्गलमाहद्रव्यमङ्गलं द्विभेदं भवति - (१) आगमतः (२) नोआगमतश्च । (१) आगमतः - मङ्गलशब्दार्थज्ञानमेवेहाऽऽगमः । यो वक्ता मङ्गलशब्दार्थज्ञानानुवासितमानसोऽपि तत्प्ररूपणकाले तत्राऽर्थेऽनुपयुक्तोऽ-- प्रणिहितचित्तवृत्तिको भवति स एव आगमतो द्रव्यमङ्गलं भवति । अत्र प्रेरक: प्रश्नयति - ननु मङ्गलशब्दार्थज्ञानं यद्यागमस्तर्हि तत् कथं द्रव्यमङ्गलम् ? आगमस्तु ₹ भावमङ्गले एवाऽन्तर्भवति न तु द्रव्यमङ्गले । अथ च तद् द्रव्यमङ्गलमेव तदा न X तदागमो, द्रव्ये आगमाभावात् । अतो 'द्रव्यमङ्गलमागमतः' इति कथनमेव दूरविरुद्धम् । अत्राऽऽहोत्तरमाचार्यः - सत्यम् । किन्त्वनुपयुक्तवक्तु वः शरीरं शब्दश्चेति त्रयमप्यागमस्य कारणम् । तत्राऽपि जीवः शरीरं चोपादानकारणं तस्य । नहि तयोविना कदाऽप्यागमास्तित्वम्। । तथा शब्दोऽप्युच्यमानः शिष्यगतस्याऽऽगमबोधस्य कारणम् । एतच्च त्रयमपि । द्रव्यमेव । ततश्च कारणे कार्योपचाराद् एतेषां त्रयाणामप्यागमत्वात् द्रव्यमङ्गलत्वमेव। Page #33 -------------------------------------------------------------------------- ________________ २. नोआगमतः द्रव्यमगलं त्रिधा भवति । ज्ञशरीरद्रव्यमङ्गलं, भव्यशरीरद्रव्यमङ्गलं, तद्व्यतिरिक्तद्रव्यमङ्गलं चेति । तत्र च नो-आगमत इत्यत्र नोशब्दः (१) सर्वनिषेधवाचको (२) देशनिषेधवाचकश्च । अतस्तदपेक्षया एतत्त्रयमपि भेदद्वयान्वितं भवति । तत्र- . १. ज्ञशरीरद्रव्यमङ्गलम् (१) ज्ञशरीरं नाम मङ्गलपदार्थज्ञदेहस्तदेव मङ्गलम्। अयमत्राऽऽशयः - मङ्गलपदार्थो येन पूर्वं सम्यक्तया ज्ञातोऽन्येभ्यश्च र प्ररूपितस्तस्य सिद्धशिलातलादिस्थितस्य योऽत्र जीववियुक्तो देहः सोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानस्याऽऽधारत्वान्नोआगमतो द्रव्यमङ्गलम् । अत्राऽ ऽगमस्य सर्वथाऽभावानो -आगमत इत्युक्तम् । तथा, - यथाऽतीतघृताधारपर्यायहेतुत्वाद् रिक्तघृतकुम्भोऽपि घृतघट उच्यते तथाऽतीत- Y मङ्गलपदार्थज्ञानरूपागमपर्यायकारणत्वाद् देहोऽप्ययं द्रव्यमङ्गलमुच्यते । अत्र नोशब्दः सर्वनिषेधवाचकः । इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । (२) भूतस्याऽऽगमस्याऽचेतनः सचेतनो वा देहः कारणम् । स स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्तते यथा मृत्तिका घटैकदेशे वर्तते । अतः स देहो नोआगमतो द्रव्यमङ्गलमुच्यते । - अत्राऽऽह कश्चिद्-ननु घट-मृत्तिकयोस्त्वभेद एव, तत्कथं मृत्तिका घटैकदेशे वर्तत इत्युच्यते ? मैवं, जैनानां तु भेदाभेदौ उभावपि सम्मतावेव । यदुक्तम् "नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो। जं पुण घडो त्ति पुव्वं नाऽऽसी पुढवी तओ अण्णो ।' - पुनरप्याह - ननु मङ्गलस्य परिणामिकारणं तु जीव एव । स एव च । स्वकार्यैकदेशे वर्तेत, शरीरे कथमेकदेशवृत्तिता स्वीकृता भवता ? । सत्यम् । किन्तु - ‘अन्योन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् । X यथा क्षीरपानीययोः....' इति वचनाद् व्यवहारे संसारिजीवस्य देहेनाऽभेद -Y एवाऽनुमतः । अतो यदि जीवः परिणामिकारणं तदा देहोऽपि परिणामिकारणत्वेन , विवक्षित एव । अतः सोऽपि आगमैकदेशवृत्तिर्भवति । . * सं. छाया : नास्ति पृथ्वीविशिष्टः घट इति यत् तेन युज्यतेऽनन्यः । यत्पुनर्घट इति पूर्वं नाऽऽसीत् पृथ्वी ततोऽन्यः ॥ २२ Page #34 -------------------------------------------------------------------------- ________________ __ - ननु भवताऽऽगमतो द्रव्यमङ्गलमपि शरीरमेवोक्तमिदमपि च । तदनयोः कः प्रतिविशेष:? सत्यम् । किन्तु तत्रोपयोगरूप आगमो नास्ति लब्धितस्तु (शक्तितस्तु) । विद्यत एव। अत्र तूभयरूपोऽपि नास्ति । केवलं शरीररूपं कारणमात्रमस्ति । ___ एवं चाऽत्राऽऽगमैकदेशवृत्तिरूपत्वादन्यत्र देशे निषेधान्नोशब्दो देशनिषेध- X वाचकः । २. भव्यशरीरद्रव्यमङ्गलम् : (१) य इदानीं मङ्गलपदार्थं न जानाति भविष्यति तु ज्ञास्यत्येव, तादृशस्य मङ्गलपदार्थज्ञानप्राप्तियोग्यस्य जीवस्य सचेतनं शरीरं भविष्यत्कालनयानुवृत्त्याऽनागतमङ्गलपदार्थज्ञानस्याऽऽधारत्वानोआगमतो द्रव्यमङ्गलमुच्यते। आगमस्याऽत्रेदानीं सर्वथाऽभावान्नोआगमत इत्युक्तमित्यादि y कारणजातं त्वत्र पूर्ववदवसेयम् । अत्र हि नोशब्दः सर्वनिषेधवाची । (२) इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । भाविन आगमस्य कारणं सचेतनो देहः । स च स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्ततेऽतो स देहो नोआगमतो भव्यशरीरद्रव्यमङ्गलम् । अत्र कारणादिचर्चः पूर्ववज्ज्ञातव्यः । ३. इदानीं तद्व्यतिरिक्तद्रव्यमङ्गलमाह - इह हि परमार्थतो मङ्गलं द्विविधं वर्णितं जिनप्रवचने - (१) जिनप्रणीत आगमः (२) आगमवर्णिता प्रत्युपेक्षणादिका मङ्गल्या क्रिया । तत्र पूर्वं यानि द्रव्यमङ्गलानि आगमतो नोआगमतश्चोक्तानि तानि K सर्वाण्यागमापेक्षाण्येवोक्तानि । इदं तु तद्व्यतिरिक्तं द्रव्यमङ्गलं क्रियामाश्रित्योच्यते। - तथा हि - यः कश्चिन्मङ्गल्या प्रत्युपेक्षण-प्रमार्जनादिक्रियामन्यचित्ततयाऽनुपयोगेन करोति स नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलमुच्यते । अथवा विधिप्रयुक्तश्चरणकरणक्रियाकलापो भावमङ्गलम् । पूर्वं यस्यैतादृशो A भावमङ्गलपरिणामो जातः साम्प्रतं तु नास्ति, तादृशं यद् जीवद्रव्यं शरीरं वा, तदन नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । एवमेव तादृशस्य भाविनो भावमङ्गलपरिणामस्य योग्यं यज्जीवद्रव्यं । शरीरं वा तदपि नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । अथवा शोभनवर्णादिगुणोपेतानि यानि स्वर्ण-रत्न-दध्यक्षत-कुसुम+ उपयोगो नाम बोधरूपो जीवव्यापारः ॥ २३ Page #35 -------------------------------------------------------------------------- ________________ मङ्गलकुम्भादीनि वस्तूनि तान्यपि कस्यचिद् भावमङ्गलस्य कारणत्वान्नो आगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । यत उक्तं "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यमित्यादि । इह ज्ञशरीर - भव्यशरीरयोस्त्वागमाभावमाश्रित्य द्रव्यमङ्गलत्वं तद्व्यरिक्ते तु क्रियाभावापेक्षया द्रव्यमङ्गलत्वमिति विशेषः । समवसितं द्रव्यमङ्गलम् । अधुना भावमङ्गलप्रस्तावः । तत्र प्रथमं भावस्य स्वरूपं व्याख्यायते भवनं विवक्षितरूपेण परिणमनं - भावः । यथेन्दनादिभिरर्थादैश्वर्यानुभवनादिभिर्युक्त एव भावेनेन्द्रः, ज्वलनादिक्रियायुक्त एव भावज्वलनः । तथा चोक्तम् - भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ भवति । - अथ च भावमङ्गलमपि द्विधा । आगमत नोआगमतश्च । तत्र च मङ्गलपदार्थज्ञाने उपयुक्तस्तदेकचित्तो जीवो भावमङ्गलमागमतो अत्राऽऽह प्रेरक: - ननु मङ्गलपदार्थज्ञानोपयोग एव भावमङ्गलं स्यात्, तदुपयुक्तो वक्ता तु कथं भावमङ्गलं स्यात् ? अग्निज्ञाने उपयुक्तो माणवको स्वयं नाऽग्निर्भवेत्, अन्यथा दाह - पाककरणाद्यापत्तिः । - घटः, तदाऽऽहाऽऽचार्यः - उपयोग - ज्ञान- संवेदन- प्रत्ययाद्याः सर्वेऽपि तुल्यार्थका एव । यदाहुः 'अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, यथा पृथुबुध्नोदकारोऽर्थोऽपि तद्वाचकमभिधानमपि, तज्ज्ञानरूपः प्रत्ययोऽपि च घट इति व्यपदिश्यते ।" कथयन्त्यपि च लोका:, यथा- किमिदमस्ति ? किमयं वक्ति ? घट:, किमस्य चित्ते पोस्फुरीति - घटः, इत्यादि । एवं च घट इति ज्ञानं तदव्यतिरिक्तश्च ज्ञातेत्युभावपि ज्ञानस्वरूपावेव । यदि हि ज्ञानज्ञानिनोरभेदो न स्वीक्रियते तदा तु ज्ञानसत्त्वेऽपि ज्ञानी वस्तुसमूहोपलब्धि कर्तुमशक्त एव, तस्य ज्ञानमयत्वाभावात्, दीपहस्तोऽन्ध इव, ज्ञानरहितपुरुषवद्वा । न च ज्ञानं निराकारमेव, ततश्च ज्ञानिनस्ततो भेदेऽपि उपलम्भः स्यादेवेति - 44 २४ Page #36 -------------------------------------------------------------------------- ________________ वाच्यम्; निराकारं ज्ञानं यथा विवक्षितान्यपदार्थं न बोधयेत् तथा विवक्षितपदार्थमपि । नैव बोधयेत्, निराकारत्वस्योभयत्र तुल्यत्वात् । तथा यदि घटज्ञान-तज्ज्ञानिनोर्भेद एव सम्मतस्तदा कर्मबन्धादीनामप्यभावं प्रसज्यमानं को वा रोढुं शक्नुयात् । तथाहि - यथा ज्ञानाज्ञान-सुखT. दुःखादिपरिणतिभिः सर्वथा भिन्नस्याऽऽकाशस्य बन्धादीनामभाव एव, एवं Y जीवस्याऽपि तदभाव एव प्रसज्येत । ननु घटज्ञानादग्निज्ञानाच्चाऽभिन्नो देवदत्तो यदि स्वयमेव घटोऽग्निर्वा ।' स्यात् तदा तु देवदत्तेऽपि जलाहरण-दाह-पाकाद्यर्थक्रियाः प्रसज्येयुः । न चैवं ) दृश्यते कदाचित् । अतो भवदुक्तं न समीचीनम् ।। अविचारितरमणीयमेतद् भवतो विचारणम् । यतो न सर्वेऽपि घटा जलाहरणे .Y उपयुज्यन्त एव, यथा गृहापवरकेऽनूर्ध्वं स्थापितो घटः । तथा, न हि सर्वेऽप्यग्नयो ) दाहपाकादिषूपयुक्ता दरीदृश्यन्ते, यथा भस्मच्छन्नोऽग्निः । लोकप्रसिद्धौ चैतौ घटाग्नी । अतो मङ्गलपदार्थज्ञानोपयोगादभिन्नस्तदुपयुक्तो जीव आगमतो भावमङ्गलं स्यादेव । नोआगमतस्तु भावमङ्गलं सुविशुद्धाः क्षायिकादयो भावाः । भाव एव मङ्गलमिति कृत्वा । उपलक्षणात् श्रुतज्ञानं (आगम) विना ज्ञानचतुष्टयं दर्शनं चारित्रं चेति त्रयोऽपि भावमङ्गलमेव । अत्रोभयत्राऽपि नोशब्दः सर्वनिषेधवाची । देशवाचिनं नोशब्दमाश्रित्य तु चैत्यवन्दनादौ नमस्कार-स्तोत्रादिषु नमस्कारज्ञानोपयोगोऽञ्जलिकरणादिक्रिया चेति द्वाभ्यामपि विमिश्रः परिणाम एव भावमङ्गलं नोआगमतः । अत्र हि नमस्कारादिज्ञानोपयोगरूप एवाऽऽगमोऽस्ति - इति नोशब्द र एकदेशवाची । अत्राऽऽह कश्चिन्ननु भाव एव विवक्षितार्थक्रियासाधकत्वाद् वस्तु ।। भावार्थशून्यास्तु शेषा अवस्त्वेवेति तैर्न किमपि कार्यम् । अतोऽलं तेषां प्ररूपणेन। मैंवं वादी भोः ! । यतः, किं भवता भावः सामान्येनैव वस्तुतया * स्वीक्रियते उत विशिष्टार्थक्रियासाधकत्वेन ? यदि सामान्येनैव, तदा सिद्धसाध्यता। y यतो नामादयस्त्रयोऽपि वस्तुनः पर्यायत्वाद् भावा एव । यथाऽविशिष्टमिन्द्र इत्युच्चरिते . नामादयश्चत्वारोऽपि प्रतीयन्ते, तथाहि - किमस्य नामेन्द्रो विवक्षितः स्थापनेन्द्रो । द्रव्येन्द्रो भावेन्द्रो वा ? एवं चैते चत्वारोऽपि सामान्यत इन्द्राख्यवस्तुतः पर्याया २५ Page #37 -------------------------------------------------------------------------- ________________ एवेति नामादयस्त्रयोऽपि भावविशेषा एव । अतो भावस्य वस्तुत्वसाधनं भवतः सिद्धसाधनमेव । ___यदि विशिष्टार्थक्रियासाधकत्वेन भावो वस्तु-इति भवतां मतं तदाऽपि नाऽस्माकं काऽपि क्षतिः । यतो यदि भावेन्द्रादिरूपो भाव एवाऽर्थक्रियासाधकस्तदा नामेन्द्रादिपर्याया अपि तत्साधका एव । द्रव्यत्वेन सर्वेषामपि पर्यायाणां परस्परमभिन्नत्वात् । एवं च चत्वारोऽपि नामादयो वस्त्वेव । अथवा नाम स्थापना द्रव्यं चेति त्रयोऽपि भावस्य कारणत्वाद भावस्यैवाऽङ्गभूता भाववद् वस्त्वेव । अथवा सामान्यतस्तु प्रत्येकं वस्तुनि चतुर्णामपि समकालं विद्यमानत्वाच्चत्वारोऽपि वस्त्वेव । यथा- वस्तुनो यदाभिधानं तन्नाम, तस्याऽऽकारस्तु V स्थापना, तत्कारणं च द्रव्यं, कार्यतापन्नं च तदेव भावः । अतो भाव एव वस्तु, नामादयस्त्रयस्तु भावार्थशून्या एवेति भवत्कथनं नैव युक्तम् । अत्र च मङ्गलवादे नयानाश्रित्य बहु वक्तव्यं, परं विस्तरभयान्नोच्यते इति। kakkoregaonkakkar २६ Page #38 -------------------------------------------------------------------------- ________________ (चिन्तनधारा) (आस्वाद: मुनिरत्नकीर्तिविजयः लोके लोका भिन्नभिन्नस्वरूपा भिन्नभिन्नैः कर्मभिर्मर्मभिद्भिः । . रम्यारम्यैश्चेष्टितैः कस्य कस्य तद्विद्वद्भिस्तुष्यते रुष्यते वा ॥ (शान्तसुधारसः १६/२) नानाविधाभिश्चेष्टाभिः सम्भृतोऽयं संसारः । न नित्यमेवाऽपि तु प्रतिक्षणं किञ्चिद् घटते प्रवर्तते च । तच्च सम्यगपि स्यादसम्यगपि स्यात्, रुचिकरमपि स्यादरुचिकरमपि वा । यावन्तो जीवास्तावन्तः स्वभावा यावन्तः स्वभावास्तावत्यः प्रवृत्तयो यावत्यश्च प्रवृत्तयस्तावत्तत्र वैविध्यं परिदृश्यते । ___ एतां स्थिति मनसिकृत्यैवाऽस्मिन् श्लोके माध्यस्थ्यमुपदिष्टमस्ति, यद् - सपा Ka 'अस्मिन् लोके भिन्नभिन्नस्वरूपा लोका निवसन्ति । तेषां स्वरूपस्य भिन्नत्वे । हेतुरस्ति कर्म । तेनैव च हेतुना तेषां चेष्टितमपि नानाविधं रम्यारम्यं च प्रवर्तते - एतज्जानन्तो विद्वांसः कस्य कस्य कां कां च चेष्टामधिकृत्य रोषं वा तोषं पर TO वाऽवलम्बेयुः ? अर्थात् कर्मवैचित्र्यं जानद्भिविद्वद्भिर्नैवाऽवलम्बनीयो रोषो वा Wi तोषो वा, किन्तु माध्यस्थ्यमेवाऽवलम्बनीयं तैः' इति । वस्तुतः स एव विद्वान् यो विना प्रयोजनं कुत्रचिदपि कस्यचिद् यत्किमपि । चेष्टितं दृष्ट्वा श्रुत्वा वा तद्गतां स्वकीयां रुचिमरुचिं वा रोषं वा तोषं वाऽभिव्यक्तुं न समुत्सहेत, गम्भीरो निर्लेपो मध्यस्थो वा स्थातुं प्रभवेच्च । यो नामैतादृशं पर माध्यस्थ्यमवलम्बितुं न शक्तः स कदाचित् पठितः स्यादपि न किन्तु विद्वान् पण्डितो वा । ज्ञानं यदा धैर्ये सत्त्वे च पर्यवसितं भवति तदैवैतादृशं विद्वत्त्वं प्रकटीभवति । यथाऽन्नस्य पर्यवसानं न केवलं भक्षणेऽपि तु पाचने तथा ज्ञानस्य पर्यवसानमपि न केवलमवगमनेऽपि तु धैर्यसत्त्वादिगुणविकासेऽस्ति । धैर्यं सत्त्वमेव न च तस्य पाचनम् । माध्यस्थ्याय सत्त्वमपेक्षितम्। घटनाश्चेष्टा वा प्रवत्य॑न्त एव, न ता रोद्धं शक्याः । नेत्रकर्णादीनामिन्द्रियाणां \ निमीलनमपि न शक्यं, न च तत्करणीयमपि, किन्तु मनोनिमीलनमेव तत्रोपायः । । मन:संयोगेनैव रोषतोषादिभावाः समुत्पद्यन्ते । सर्वमेतन्मनश्चाञ्चल्यपरिणामः । चाञ्चल्यं मनसः स्वभावो धैर्यं सत्त्वं चाऽऽत्मनः स्वभावः । आत्मनः स्वभावो । २७ Page #39 -------------------------------------------------------------------------- ________________ यदा जागृतो भवति तदा मनसः स्वभावश्चाञ्चल्यं तु सहजमेव विलीनं भवति । कर्मवैचित्र्यचिन्तनं ह्यत्राऽऽत्मस्वभावजागरणोपायत्वेन दर्शितमस्ति । तेनैव च माध्यस्थ्यं प्रादुर्भवति चित्ते । रोषो वा तोषो वाऽस्माकमभिप्रायोऽस्ति । स च परिवर्तनशीलः । 'कदाचित् कुत्रचिद् वयं तुष्टा अप्यन्यदा तत्रैव रुष्टा अपि भवाम एव । न हि सुखं विद्यते एतादृशे चाञ्चल्ये । सुखं तु सत्त्वे प्रतिष्ठितमस्ति । रोष-तोषादिभावानां वशवर्तित्वेन वयं स्वाधीनं चिरस्थायिनमपि सुखं, नाशयामः । नानाविधाः प्रवाहा भवन्ति जलधिनद्यादीनाम् । किन्तु यस्तितीर्षुः स न सर्वदा प्रवाहानुरूपं तरति किन्तु स्वाभिप्रेतदिश्येव तरति । जलस्य प्रवाहः परिवर्ततेऽपि न किन्तु तितीर्षोर्दिक् । एवं संसारोऽपि भिन्नभिन्नलोकानां भिन्नभिन्नचेष्टितप्रवाहैः सम्भृतोऽस्ति । यो नाम स्वाभिप्रेतलक्ष्यं परित्यज्याऽत्र तत्र सर्वत्राऽवधानं दद्यात् स कथं नाम सुखं प्राप्नुयात् ? अत्र तु स्वसम्बद्धविषयेऽपि माध्यस्थ्यावलम्बनमपेक्षितं तत्र परसम्बद्धेऽपि विषये यदि वयं माध्यस्थमवलम्बितुं न शक्नुयाम तदा स्वसम्बद्धविषयस्य तु का वार्ता ? स्वप्नेन्द्रजालादिषु यद्वदासै रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तै- रेवं विभाव्याऽऽत्मलयेऽवधेहि ॥२७॥ (अध्यात्मकल्पद्रुमे प्रथमे समताधिकारे) अतं आत्मलये एव प्रवर्तितव्यम् । अन्यत्राऽप्युक्तम् 'स्वानन्दे रमते बुध:' इति । माध्यस्थ्यमेव वस्तुतः स्वानन्दः । प्रथमं तावत् स्वेनाऽसम्बद्धे विषये माध्यस्थ्यमभ्यसनीयम् । पश्चादेव स्वसम्बद्धे विषये तत् प्रादुर्भवति स्थिरीभवति च । तदेव चाऽत्र सुखम् । किन्तूपायस्त्वेक एव - कर्मवैचित्र्यचिन्तनम् । तेनैवैतच्छक्यम् । विद्वानेवैतत्कर्तुं शक्नोति । स तु सर्वं पश्यति किन्तु निर्लेपं पश्यति । निर्लेपं नाम न मूढतामुपसृत्याऽपि तु विवेकमवलम्ब्य पश्यति । चिन्तनं विचारो वोभयमपि मूढतां विवेकं च जनयति । चिन्तनेन ये रोषतोषादिभावा जायन्ते सा मूढता यच्च माध्यस्थ्यं जायते स विवेक: । अतश्चिन्तनं विचारो वाऽस्मान् कुत्र नयतीत्यत्र जागरूकेन भवितव्यम् । 'माध्यस्थ्यं विवेक एव वाऽवलम्बनीयः । न कस्यचित् चेष्टिते किञ्चिन्मात्रमपि परिवर्तनं शक्यम् । २८ Page #40 -------------------------------------------------------------------------- ________________ न बहुशश्चित्ते प्रश्नः समुदेति यदेतादृशो बुधरूपेण विद्वद्रूपेण च ख्यातोऽपि जनः सम्माननीयोऽपि जनोऽयं किमर्थमेवमेवाऽऽचरति ?' एवं च शनैः शनैर्द्वषो । दुर्भावो वा तं प्रति समुद्भवति चित्ते । स च गच्छता कालेन 'हीनोऽय'मितिरूपेण मनसि प्रतिष्ठितो भवति । किन्तु नाऽयं योग्यः पन्थाः । कलिकालसर्वज्ञ- पर 'श्रीहेमचन्द्रसूरीश्वराणां शिष्येण श्रीरामचन्द्रसूरीश्वरेण निर्मिते नलविलासनाटके , निरूपणमेकमस्ति । नलः स्वकीयां द्यूतासक्ति रोद्धमसमर्थो वृद्धजनैर्वारितोऽपि कूबरेण सह दीव्यति । देववशाच्चाऽजय्योऽपि नलः स्वकीयं सर्वस्वं हारयति । " तदा तस्य वयस्योऽत्यन्तं खिन्नो दुःखितश्च भवति । 'किमनेनाऽऽचरितम् ?' - इति खिन्नोऽपि स यच्चिन्तयति तदद्भुतमादरणीयं च - "किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो द्यूतकर्मनिवारणाय प्रवृत्तः सकलराज्यदमयन्तीपणेन दीव्यता देवेन समवधीरितस्तदपि न सतां चेतश्चमत्कारकारि । यतः तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पथ्यतया विभाति । यावत् पुराकृतकर्म न सर्वपर्व प्रत्यूहकारि परिपाकमुपैति जन्तोः ।।" सर्वथा विधिरेवाऽत्र कर्मण्यलङ्कर्मीणतामगतम् । खलु कृत्वाऽतीतशोचनम्" / इति ? अद्भुतं माध्यस्थ्यं निरूपयत्येष श्लोकः । अपि च 'येन जनेन यथा । भवितव्यं, तद् भवता दुर्वारं रे' - इत्यपि किं न सत्यम् ? अथवा सत्यं त्वेतदेव नाऽन्यद् । अत्र प्रश्नमुद्भाव्य माध्यस्थ्यमुपदिष्टमस्ति यद् - यदि सुखमभिलषितं की स्यात्तदा मध्यस्थेनैव भवितव्यम् । एषैव सुखोपायोऽस्मिन् संसारे, नाऽन्यः । यतो मनसि समुद्गता रागद्वेषादिभावा यदा कार्यरता भवन्ति तदैव गृहक्लेशाः पर सामाजिकसङ्कलेशाश्च समुद्भवन्ति । तत एव च युद्धमातङ्कवादोऽपि च प्रवर्तते । । अतो बहु विचारणीयमेतद् । यः कर्मणः सत्यं जानाति सम्यक्तया च विचारयति AS तस्य स्थिरमनसो मध्यस्थस्य च जनस्य चित्ते कथं नाम क्लेशः समुद्भवेत् ? Hel उक्तमपि __ "निष्फलया कि परजनतप्त्या, कुरुषे निजसुखलोपं रे ?" अङ्गीकरणीयमेतदस्माभिः सुखेप्सुभिर्यथाशीघ्रं येन सर्वेऽपि सुखिनः स्याम। २९ Page #41 -------------------------------------------------------------------------- ________________ ६ साक्षात आस्वादः मुनिकल्याणकीर्तिविजयः जैनदर्शनं स्याद्वादमूलकमस्ति । स्याद्वादो नामाऽनेकान्तवादः सापेक्षतेति । 6. यावत् । यथा कश्चित् पुरुषो नं कदाचिन्निरपेक्षतयैकान्तेन वा किञ्चिद् भवितुमर्हति । 23 स कस्यचित् पुत्रः, कस्यचिद् भ्राता, कस्यचित् पिता, कस्यचिन्मातुलः पितृव्यो २० 5 वा स्यात् तथा पतिर्बन्धुः श्यालो भागिनेयो वाऽपि स्यात् । एकान्तेन तस्मिन् 50 पुत्रत्वं, पितृत्वं, भ्रातृत्वं वा स्थापयितुं नैव शक्यम् । एषैव सापेक्षता । व्यतीतेषु । 96 शतकेषु दार्शनिकपरिप्रेक्ष्ये पुरस्कृत एष सिद्धान्तः कैश्चित् कदाचित् स्वीकृतः २७ कैश्चिच्च तिरस्कृतोऽपि । किन्तु यदाऽस्मिन् शतके एष एव सापेक्षतासिद्धान्तः । KE (Relativity) वैज्ञानिकपरिप्रेक्ष्ये महावैज्ञानिकेन आल्बर्ट आइन्स्टाइन्-वर्येण 6. प्रस्थापितस्तदा सर्वैरपि स निर्विरोधं स्वीकृतः । यद्यपि साम्प्रतं बहवः सिद्धान्ता बहुभिर्नूतनैवैज्ञानिकैः परिष्कृताः पुरस्कृताश्चाऽपि तथाऽपि सापेक्षतासिद्धान्तस्तु 5 सर्वेषामपि मान्य एव । अथ कोऽयं सापेक्षता सिद्धान्तः ? इति प्रश्नस्योत्तरम् आइन्स्टाइन्महोदयस्य : 6. शब्दैरेव सम्बुध्यामहे । 86 "कदाचित् केनचिन्मित्रेण सापेक्षतासिद्धान्तं सरलतयाऽवबोधयितु६.७ मुक्तोऽहम् । तदा मया तस्मै एकः प्रसङ्गः कथितः - a एकदाऽहमेकेनाऽन्धमित्रेण सह पर्यटन्नाऽऽसम् । विविधवार्तालापमग्न९ योरावयोरकस्मादेवाऽहं शीतलदुग्धपानेच्छां प्रकटितवान् । एतच्छ्रुत्वा मम सुहृद : 86 किञ्चिदिव विचार्य पृष्टवान् माम्२४ दुग्धम् ? पानं तु मयाऽवबुद्धं किन्तु किमिदं दुग्धं नाम ? मयोक्तम् - 50 अहो ! तत्तु एकं श्वेतं द्रवद्रव्यम् । द्रव इति त्ववबुद्धं, किन्तु किमिदं श्वेतं नाम ? - स पृष्टवान् । 6. मयोक्तं - हंसस्य पक्षयोर्वर्णः श्वेत इति कथ्यते ननु ! & पक्षौ त्वहं जानामि परं कोऽयं हंसो नाम ? - स पृष्टवान् । मयोक्तं - हंसस्तु वक्रग्रीवः पक्षी समस्ति खलु ! । ३० Page #42 -------------------------------------------------------------------------- ________________ ग्रीवा नामाऽवगता मया परन्तु किमियं वक्रा नाम ? - स पृष्टवान्। १६ अस्योत्तरत्वेनाऽहं तस्य हस्तं गृहीत्वा प्रथमं प्रसारितवान् तदनु च कूर्परदेशे र आकुञ्चितवान् । ततश्च वकं नाम किमिति तं बोधितवान् । यदा स सम्यगवबुद्धवांस्तदा सहसोक्तवान्-अहो ! इदानीं भवता दुग्धेति१० नाम्ना किं विवक्षितमिति ज्ञातं मया ।' १ इयमेव सापेक्षता यदुत प्रत्येकं वस्तु अन्यानपेक्षं न वर्तेत । तदेनं सापेक्षता सिद्धान्तमनेकान्तसिद्धान्तं वा न कोऽपि प्रतिक्षेतुमर्हति । सर्वैरपि यथाकथञ्चनाऽपि 6. स सिद्धान्तः स्वीकर्तव्य एव । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः ११ वीतरागस्तवेऽष्टमप्रकाशे द्वयं विरुद्धं नैकत्राऽसत्, प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ।।७।। विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो नाऽनेकान्तं प्रतिक्षिपेत् ॥८॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन । यौगो वैशेषिको वाऽपि नाऽनेकान्तं प्रतिक्षिपेत् ।।९।। इच्छन् प्रधानं सत्त्वाद्यैविरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नाऽनेकान्तं प्रतिक्षिपेत् ॥१०॥ एषोऽनेकान्तवादः सापेक्षतावादो वा सदाऽस्माकं व्यवहारपथेऽवतीर्याऽस्मान १. साम्यपथेऽवतारयतु । ३१ Page #43 -------------------------------------------------------------------------- ________________ पत्रमा मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! __धर्मलाभोऽस्तु । वयं सर्वे कुशलास्स्मः । तव कुशलं कामये । "मम पुत्रस्स्वच्छन्दी व्यसनी दुराचारी च जातः, उन्मार्गं गतवान्, पुत्री 9KB चेतस्ततोऽटती"ति कथनं बहूनां मातापितॄणां मुखेभ्यः श्रुतं तथेदानीं श्रूयते चाऽपि । 48 र समाजस्य वर्तमानां परिस्थितिं दृष्ट्वा तत्कथनं सत्यमपि प्रतिभाति, किन्तु यदैतस्मिन् Ta विषये गम्भीरतया चिन्तनं क्रियते, बालकानां प्रतिभावाः श्रूयन्ते तदा ज्ञायतेऽत्र 26 दोषी कः, बालकाः कथमुन्मार्गं गच्छन्ति, ते स्वच्छन्दाचारिणः कथं भवन्ति, कथं 96 ॐ ते पितृभ्यां दूरं वसन्ति, किमर्थं संस्कारशून्या: परिदृश्यन्ते, इति । बन्धो ! यथाऽक्षरशून्ये कागदेऽभिलाषानुरूपं यत्किमपि लेखितुं चित्रयितुं . 26 वा शक्यमस्ति, तथैव बालकविषयेऽपि ज्ञेयम् । बालकस्य चित्तमतीव निर्मलं Ce कोमलं च भवति, ततो यत्किमपि पश्यति तद् गृह्णाति, पश्चाच्च तदनुरूपं वर्तते । 8 बाल्यकाले तन्मनसि ये संस्कारा अङ्किता भवन्ति ते जीवनपर्यन्तं तिष्ठन्ति । अतो 98 बाल्यवयसि तस्य संस्कारसेचकैयेष्ठजनैर्यथा संस्कारसेचनं क्रियते तथैव तस्य । बालकस्य जीवनमपि सुन्दरमसुन्दरं वा भवति । यदि शुभसंस्काराणां सेचनं कृतं " स्यात्तहि स बालकः संस्कारी सरलश्च भवति, अन्यथोद्धत उन्मत्तश्च भवति ततो यदि बालक उद्धतो भवेत्तर्हि तत्र बालकस्य यावानपराधोऽस्ति ततोऽप्यधिकतरोऽपराधस्तस्य संस्कारसेचकानां ज्येष्ठजनानामस्ति । अत्र जगति 'पितरौ गुरुजनाश्च X8 संस्कारसेचका' इति मन्यते । किन्त्वत्र विकटः प्रश्न एष एवाऽस्ति यद 'वर्तमानकालीनाः पितरौ गुरुजनाश्च तत्तत्पदस्य कृते योग्या न वे'ति । इदानीं ? वयस्के जाते सति विवाह-पुत्रप्राप्ति-इत्येतावन्मात्रेण तौ पितरौ कथ्येते, एवं 88 किञ्चित्पठितं, कश्चिदुपाधिः प्राप्त इत्येतावन्मात्रेण गुरुत्वेन ख्यातिमान् भवति, ॐ किन्त्वयैतैः पूज्यजनैर्बालकेन सह यादृशो व्यवहारो विधीयते तज्ज्ञात्वा श्रुत्वा च , मन्येऽहमेतन्नोचितमस्ति । एतद्विषये चिन्तने क्रियमाणे सति बालको यदुद्धतस्स्वच्छन्दी च भवति तत्र मुख्यतः त्रीणि कारणानि ज्ञायन्ते । १- एतैः ? ३२ Page #44 -------------------------------------------------------------------------- ________________ पूज्यजनैविशेषतोऽनुशासनाग्रह आसेव्यते । २- ते पूज्यजना बालकस्य शक्तितोTO ऽधिकमपेक्षन्ते, तदपेक्षाभङ्गे बालकस्योपेक्षा तिरस्कारो वा क्रियते तैः । ३- एतेषां 6 98 पूज्यजनानामनुचितवर्तनम् । बन्धो ! यस्य कस्यचिदपि जनस्य विकासेऽनुशासनमावश्यकमस्ति, किन्तु 26 तत्राऽपि विवेकोऽत्यावश्यकोऽस्ति । यथाऽधिकमौषधासेवनं हानिकारकं भवति 8 तथैव विशेषोऽनुशासनाग्रहोऽपि बालकस्य विकासेऽवरोधको हानिरूपश्च भवति । 9 26 अतोऽवसरानुरूपं विवेकपूतमनुशासनमेवाऽत्र प्रशंसनीयमादरणीयं चाऽस्ति । तदनुशासनं त्रिधा भवतिप्रेम्णाऽनुशासनं प्रलोभनं दत्त्वाऽनुशासनं भयमुत्पाद्यऽनुशासनं चेति । प्रेम्णाऽनुशासनम् - प्रवृत्तौ वार्तालापे चेति सर्वव्यवहारेषु वात्सल्यस्य 2 प्रेम्णश्च प्राधान्यं भवेत् । यदि कदाचित् स्खलना स्यात्तदा प्रेम्णा बोधनं भवेत् । एवंकरणेन लाभो हानिर्वा स्यात्, इत्यादिमृदुवाक्यैः प्रेर्यते । यथापुत्र ! अध्ययनं विना सर्वमपि निरर्थकमस्ति, अतोऽस्मिन् काले पठनमत्यावश्यकमस्ति । प्रलोभनं दत्त्वाऽनुशासनम् - यदि त्वं परीक्षायामुत्तीर्णो स्यास्तदा तुभ्यं ? द्विचक्रिकां दास्यामि प्रवासं नेष्यामि चेति प्रलोभनं दत्त्वाऽनुशासनं करोति । भयमुत्पाद्यऽनुशासनम् - यद्येवं न करिष्यसि न वदिष्यसि च तर्हि वेतनं .. न दास्यामि, एतत्स्थानाद् निष्कासयिष्यामि चेति भयद्वारेणाऽनुशासनं करोति।। ___एतेषु त्रिविधेष्वनुशासनेष्वपि प्रतिनियतनियमानां नीतेश्च पालनमस्त्येव, SX किन्तु प्रेम्णाऽनुशासने सहजताऽस्ति, अन्यत्र कृत्रिमताऽस्ति । ततः प्रेम्णाऽनुशासनेन बालकस्स्वयं विवेकी स्वकर्तव्यं प्रति जागृतश्च भवति । एतादृशो बालको जीवने आपतितायां विषमपरिस्थितावपि न कदाचिदपि व्याकुलोऽस्वस्थश्च भवति, न च काठिन्यमनुभवति । एतादृशो जनः किञ्चित्कर्तुं प्रवृत्तस्स्यात्तदा सर्वाणि कार्याणि स्वत एव भवन्ति, अर्थात् सर्वं सन्मुखमेवाऽऽगच्छति । प्रेम्णाऽनुशासनेन लब्धो बोधो यावज्जीवनं तिष्ठति, किन्तु द्वाभ्यामवशिष्टानुशासनाभ्यां प्राप्तो बोधोऽल्पकालमेव Xs तिष्ठति, तत्पश्चादनुशासनशून्यो जीवो निर्मर्यादो विवेकविहीनश्च भवति, स च न केवलं स्वकीयगृहस्य कृते, अपि तु समाजस्य कृते भाररूपो हानिकारकश्च भवति । 926 अतीव दमनस्य प्रतिक्रिया तीव्रा भवति । अत एव प्रेम्णाऽनुशासनमेवाऽऽदरणीयं 6 ३३ Page #45 -------------------------------------------------------------------------- ________________ NOI प्रशंसनीयं चाऽस्ति । अन्ये द्वे त्वनन्यगतिकतयैवाऽवलम्बनीये स्तः, किन्त्वद्य ते 10 ॐ द्वे एव सर्वत्र प्रवर्तमाने स्तः । तत एवाऽद्य बालक उन्मार्गगामी भवति। 96 किं नामाऽनुशासनम् ? अनुशासनं नाम नियन्त्रणं निरीक्षणं च, न तु ME बन्धनं कदाग्रहो हठाग्रहो जाड्यं च । साम्प्रतं तु बन्धनं जाड्यं चैवाऽनुशासनमिति 26 8) प्रतिभाति । ततोऽद्याऽनुशासनस्य व्याजेन सर्वैः पूज्यजनैर्बालकस्योपरि नैके प्रतिबन्धाः ७) 6 प्रस्थाप्यन्ते - "पितुराज्ञां विना केनाऽपि सह वार्तालापो न करणीयः, अन्यस्य गृहं 9 26 न गन्तव्यं, न च कोऽप्यन्यो गृहमागन्तुं शक्तः । यत्किमपि करणीयं कथनीयं च ॐ तत्सर्वं पित्रे निवेदयित्वा पश्चादेव करणीयं कथनीयं च । न किमपि वस्तु ग्रहीतुं 48 दातुं वा शक्तः, न च पुस्तकमपि पठितुं क्रेतुं वा शक्तः । पित्रा निर्णीतायां शालायां, PAK 2 प्रशिक्षणवर्गे (Tution Classes) चैव पठनीयं, तेन निर्णीताध्ययनशाखैव Se O (Faculty) ग्रहणीया । व्यवसायोऽपि तेन निश्चित एव करणीयः । तेन निर्णीतेनैव 8 यूना युवत्या च सह विवाहोऽपि करणीयः । वसनान्यपि तेनाऽऽनीतान्येव 98 1 परिधारणीयानि । तेन यत्कथितं तथैव करणीयं, तथैव भक्षणीयं, तथैव वसनीयं ७ Ta) चाऽपि, इति प्रतिबन्धाः क्रियन्ते । यदि कदाचित् किञ्चिदपि कार्यार्थं बहिर्गतस्य ? 6 बालकस्याऽऽगमने बहुः कालो व्यतीतः, पितुरभिलाषाया विरुद्धं कार्यं कृतं, 88 K केनाऽपि सह वार्तालापे प्रवृत्तो दृष्टस्तदा तैः पूज्यजनैः पृच्छाप्रतिपृच्छादिद्वारेणाऽनेके । प्रश्नाः पृच्छ्यन्ते, हन्त ! तत्पश्चात्सर्वा अपि चेष्टाः शङ्काकुशङ्कावितर्कादिद्वारेणैव 96 निरीक्ष्यन्ते, दुर्व्यवहारश्चाऽपि क्रियते तथा स्वकल्पितं तदेव सत्यमिति मनसि कृत्वा - पुनः पुनः बालकस्य तिरस्कारः क्रियते । आश्चर्यं त्वेतदेवाऽस्ति यदेतैः Ya पूज्यजनैर्बालकस्य चिन्ताऽभिलाषा दुःखमसमाहितत्वं व्याकुलता प्रश्ना 98 मनोगतभावाश्च न बुध्यन्ते, न कदाचिदपि तत्समाधातुं प्रयत्नोऽपि विधीयते, न च Xe ॐ प्रेम्णाऽऽश्वासनमपि दीयते । यदि कदाचित् स बालको यथार्थं वदेत्तर्हि 'त्वं 9 स्वरक्षणं करोषि, प्रत्युत्तरं ददासि, उद्धतोऽसि, वितर्कं च करोषि' इति पिता * वदति । यदि बालको न किमपि वदेत्तदा पिता कथयति- 'त्वच्चित्ते पापमस्ति, 26 ॐ गूढहृदयोऽसि, शठश्चाऽसि, अत एव न वदसि । एवं सर्वत्र बालक एवाऽपराधी ॐ PS दोषी चेति मन्यते । एवंरीत्या पित्रा बालकेन सहैतादृशः कठोरव्यवहारः क्रियते 26 येन स बालकस्सदा भीतिमनुभवन्नेव गृहं वसति, तिष्ठति, कार्यं करोति, वदति, 36 ॐ बहिर्गच्छति च । एतादृश्यां स्थितौ बालकः किं कुर्यात् ? स न कथयितुं शक्तः, ॐ PM न च सोढुं शक्तः । एवं स निरन्तरमुद्वेगमनुभवन् मुह्यति, तच्चिन्तायामेव 30 ३४ Page #46 -------------------------------------------------------------------------- ________________ HOOL सर्वशक्तेर्व्ययो भवति, सर्वाऽपि शक्तिः कुण्ठिता भवति । द्वितीयस्य संस्कारसेचकस्य O) शिक्षकस्य विषयेऽप्येतत्सर्वं ज्ञेयम्। अनुशासनस्य व्याजेन शिक्षकैरपि 9) 938 विद्यार्थिनामुपरि पूर्ववर्णिताः प्रतिबन्धाः प्रतिष्ठाप्यन्ते । अद्यैते संस्कारसेचका निर्दयतया 18 9 बालकानां विद्यार्थिनां चेच्छादिकान् घातयन्ति । ते संवेदनशून्या इव' आभाति । ॐ भ्रातः ! एवं सति बालकस्य विकासः कथं स्यात् ? यत्र बन्धनं तत्र ॐ 96 विकासोऽसंभव एव । अधिकं बन्धनं बालकमुन्मार्गमसत्यमार्गं च नयति । यतो 48 ॐ यदा पित्रा सर्वकार्येषु प्रतिबन्धः क्रियते तदा बालकः स्वेच्छापूर्त्यर्थमनन्य- 26 गतिकतयैकान्ते गत्वा तत्तत्कार्यं कुर्यात्, शनैः शनैः सर्वकार्येष्वसत्यमाचरेत्, अन्ते ७ 4G स्वच्छन्दी भवेत्, तदा विकासः कथं भवेत् ? एकत्र स्थगितं जलं मलिनं दुर्गन्धि 2 च भवति । यदि तज्जलमेव प्रवाहितं भवति तर्हि रमणीयं कल्लोलमयं च भवति । 8) एवं वायुप्रकाशादिशून्यस्थाने स्थितायाः कलिकायाः का गतिस्स्यात् ? सैवोद्यानादिषु ) 946 मुक्तस्थानेषु तु विकसितं भवति, सर्वत्र सुगन्धितां मधुरतां च प्रसारयति, जनान् 28 १. स्वं प्रत्याकर्षति । एवं बालकायाऽपि विकासस्याऽवसरं ददातु, निर्बन्धतया कार्य TO) कर्तुं विहर्तुं चाऽवसरं ददातु, सोऽपि स्वबुद्ध्या कार्यनिर्णयं करोतु । वर्तमानकालीना 96 समस्यैषैवाऽस्ति यत्ते ज्येष्ठजनाः 'बालकः किमपि न जानाति, न च किमपि कर्तुं 86 - समर्थ' इति मन्यन्ते । बालकस्य शक्तौ विश्वास एव नास्ति । अतस्ते “एवं करणीयं, ON PO एवं न करणीयं वदनीयं वे'ति निरन्तरं सूचनानां वृष्टिं कुर्वन्ति । यदि स्खलना 98 स्यात्तॉपशब्दानामपि वृष्टिं कुर्वन्ति, किन्तु तन्नोचितम् । यदि स्खलना स्यात्तदा sxe ॐ प्रेम्णा बोधयित्वा पुनःकरणार्थं प्रोत्साहनं ददातु, किन्तु 'त्वं मूर्योऽसि, मूढोऽसि, % जना मुग्धं त्वां वञ्चयन्ति चेति मर्मवचनैर्बालकस्योत्साहं माऽपहरतु । यद्येकदा Sxe तच्चित्ते भीतिस्सञ्जायेत तर्हि स कदाऽपि जीवने पुनः तत्करणार्थमुत्साहितो न ॐ भवेत्, तस्य धैर्यमेव नष्टं भवेत्, पुत्रो हताशो भवेत्, निषेधात्मकदृष्टिना बद्धो का " भवेच्च । भ्रातः ! यः कार्यं करोति तस्यैव स्खलना भवति, नाऽन्यस्य । एकदा > स्खलना स्यात्तर्हि पुनः संमार्जनं भवेत् । एवं पुनः पुनः करणे स दक्षो भविष्यति, ॐ किन्तु यदि मुहुर्मुहुः सूचना दीयेत तर्हि तस्य दृष्टेर्विचारधाराया निर्णयशक्तेविवेकस्य 25 च विकासः कथं स्यात् ? किञ्च-ज्येष्ठजनास्स्वकीयबालकस्य सामर्थ्य मनुचिन्त्य तत्तत्कार्यं SX ७ कारयेयुस्तर्हि तस्य विकासोऽतीव सुन्दरो दृढश्च स्यात्, किन्त्वद्य ज्येष्ठजनास्स्वP बालकस्य शक्तिमविचिन्त्याऽन्यबालकेन सह निरन्तरं तुलनां कृत्वा ३५ Page #47 -------------------------------------------------------------------------- ________________ RO शक्तितोऽधिकमपेक्षन्ते, तद्भङ्गे तिरस्कारं कुर्वन्ति । सर्वेष्वपि कार्येष्वन्येन बालकेन 8) सह तुलनां विधाय स्वबालकायोपालम्भदानं, कोपकरणं, तिरस्करणं च-'स्वहस्तेनैव ) 9 बालकस्य शिरच्छेदम्' इति ज्ञेयम् । यतो निरन्तरं बालक उपेक्ष्यते तदा र तन्मनस्तीव्राघातमनुभवेत्, पितरौ प्रत्यरुचिः प्रादुर्भवेत् तथा पित्रेऽहं न रोचे, इति । TOS दुर्भावस्सञ्जायेत । ‘एवमहं किमपि न जानामि, न किमपि कर्तुं समर्थश्चे'ति 100 9 लघुताग्रन्थिनाऽपि बद्धो भवति । एषा ग्रन्थिर्बालकं हतवीर्यं हताशं च करोति,स्म त्रोटयति स्म च । शालायामप्येवमेव करोति स्म सा । ततः सर्वेऽपि प्रातिवेश्मिका 6 शिक्षकाश्च त्रस्ता अभूवन् । तथाऽपि तस्या जननी न किमपि तस्यै अकथयद । TV अक्रुध्यच्च । एवं न करणीयं, एवं न वदेयमित्थं बहिर्न गमनीयमित्युक्तवती न । > त्वमुद्धताऽसि, तव कारणतोऽन्ये जना मह्यं कुध्यन्ति, इत्युपालम्भो न दत्तो न वा 946 तिरस्कतोपेक्षिता । न च कदाऽपि प्रातिवेश्मिकानां बालकैस्सह तुलना कता, केवलं ७ Ma प्रेम्णैव बोधिता तया । एवं जनन्या तस्या अतीव धैर्येण पालनं कृतं, संस्कारारोपणं are कृतं च । तत एव बाल्यकाले उन्मत्तोद्धता चाऽपि बालिका यौवने जापानदेशस्य संस्कारी कन्या जाता, सर्वेषु लोकप्रियाऽपि जाता, अहो ! तन्नाम्ना पुस्तकमपि " प्रसिद्धमभूत् । अवश्यमेतत् पुस्तकं पठनीयं त्वया । एतेन ज्ञायते बालकस्य 36 विकास: प्रेम्णा धैर्येणैव च शक्योऽस्ति । O अथेदानीं पितृभ्यां पुत्रेण सह यथा व्यवहारः क्रियते तन्निरीक्ष्य "यथा 0 P) विशिष्टपदनियुक्तेः पूर्वं प्रतिनियतशिक्षा दीयते तथैव विवाहसंस्कारस्य पूर्वं पुत्रस्य ka 38 पालनं कथं करणीयमिति शिक्षा प्रतिव्यक्त्यवश्यं देये' त्याभाति । "प्रसिद्धशालायां Xe प्रशिक्षणवर्गे चाऽनुदानं दत्त्वाऽपि प्रवेशनम्, श्रेष्ठशिक्षकस्य सकाशादध्यापनम्, Pay यातायाता) यानव्यवस्था, अभीप्सितवस्तूनामानयनम्, अमूल्यानां वस्त्राणामद्यतन ३६ Page #48 -------------------------------------------------------------------------- ________________ RO साधनानां च प्रदानम्, परीक्षाकाले पुत्रेण सह शालायां गमनम्, उपभोगार्थं वित्तदानं 8) चै'वंरीत्या यो जनकः पुत्रेण सह व्यवहरति स श्रेष्ठः पितेति मन्यतेऽस्माभिः । स ) 8 पिताऽप्येवमेव मन्यते यदहं यथा पुत्रस्य पालनं करोमि तथा न कोऽप्यन्यः करोति, 8A किन्त्वेतत् सर्वथाऽनुचितमस्ति । वस्तुतस्स एव पिता यो वात्सल्यभावेन मृदुतया र Pal प्रेम्णा च पुत्रेण सह व्यवहरति । पुत्रस्य दुःखमसमाहितत्वं प्रश्नमभिलाषां च BE ज्ञात्वाऽवसरानुरूपं वर्तते, तच्च समाधातुं प्रयतते, तथा प्रेम्णाऽऽश्वासनं ददाति । 36 'पुत्र ! किं करोषि ? किं पठितम् ? किमप्यावश्यकमस्ति? इति प्रेम्णा पुत्रं Pal पृच्छति । प्रतिदिनं सायंकाले रात्रौ वा सर्वान् गृहजनानेकत्र कृत्वा नीतेस्सदाचारस्य ) चर्चा करोति । यैस्सद्गुणानां वृद्धिदुर्गुणानां च हानिस्स्यात्, तथा कर्तव्यस्य बोधो SXE 9 भवेत् तादृशान् प्रसङ्गान् वर्णयति । हन्त ! समाजस्याऽत्यन्तदयनीया स्थितिरस्ति Ya यद्, बालकस्याऽपि कृते पित्रोस्समीपे समयो नास्ति । पिता व्यवसाये सामाजिककार्ये are व्यवहारे च नितरां विलग्नोऽस्ति । माताऽपि 'किट्टी पार्टी' त्यादिकार्यक्रमेष्वेव se O विलग्नाऽस्ति, कर्मकर्येव गृहरक्षणं पाचनं च करोति । एवं पितरौ स्वकार्याद निवृत्तौ एव न भवतः । तयोः कृते गृहं तु विश्रामस्थानमिव, गृहजनास्तु पथिका 26 इव, वाणिज्यं चैव सर्वस्वं स्यादिति प्रतिभाति । मया बहवो जनका दृष्टाः, येषां 36 ॐ समीपे विंशतिदिनपर्यन्तं स्वपुत्रस्य मुखं द्रष्टुं वार्तालापं कर्तुं चाऽपि समयो नास्ति । PCS अहो ! तेषां निःस्पृहता निर्ममत्वं च । अद्य केचित् क्रूरा जनकाः (?) स्वपुत्रान् 0 6 'माउन्ट आबु, पञ्चगीनी' इत्यादिस्थलेषु पठनाय प्रेषयन्ति । तत्र षण्मासपर्यन्तं 6 ॐ पुत्रः पितृभ्यां सह वार्तालापं कर्तुं मेलितुं च न शक्नोति । तत्स्थानाद् बहिरेव न ) 28 गन्तुं शक्नोति । एवं सति पुत्रस्य चित्ते पितरौ प्रति स्नेहमादरं प्रेम च कथं वर्द्धत 9 26? संस्कारसेचनं कथं भवेत् ? प्रेम करुणा वात्सल्यं चेत्येतान्येवाऽस्माकमार्याणां 15s @ मूलमस्ति । यदि तेभ्य एव पुत्रा वञ्चितास्स्युस्तर्हि तेषामाध्यात्मिकविकासः कथं BX भवेत् ? 6 बन्धो ! अस्मिन् जगति सूक्ष्मादपि सूक्ष्मः प्राण्यपि प्रेम वात्सल्यं च 6 ॐ वाञ्छति; तयते बालकाः कथं नाऽभिलषेयुः ? तेषां कृते पित्रोः प्रेम वात्सल्यं ७ च विना सर्वमपि तुच्छमस्ति, तद् विना ते क्षणमपि जीवितुं न शक्ताः । तथाऽपि 26 यदि गृहजनेभ्य एव प्रेम न लभेत तदा ते पुत्राः प्रेमाऽवाप्तुं बहिर्गच्छन्ति । प्रेम ॐ वात्सल्यं चाऽभिलषन्तस्तेऽन्यत्र मायाजाले बद्धा भवन्ति, अन्ते उन्मार्गं गच्छन्ति, ॐ PAG अत्र दोषः कस्य ? यदि धनेनैव बालकानां पालनमपि शक्यं तह्मनाथाश्रमे गृहे " ३७ Page #49 -------------------------------------------------------------------------- ________________ MOON च को भेदः ? अद्य बहुष्वपि कुटुम्बेषु प्रायो धनेनैव सर्वोऽपि व्यवहारः प्रचलति, AY K) तत एव सर्वत्राऽशान्तिरुद्वेगः क्लेशश्च प्रवर्तते । 98 किञ्च-पठनेन, पाठनेन, कथनेनोपदेशेन वा यन्न शक्यं तदाचरणेन भवति । 26 जना अनुकरणशीलास्सन्ति । तत्राऽपि बालकास्तु मुग्धा अनभिज्ञाश्च सन्ति । ततः 36 ॐ पितरौ यत्कुरुतस्तद् बालकाः कुर्वन्ति । यस्याऽऽचरणं निर्मलं स्वच्छं चाऽस्ति ॐ 48 तस्य समीपे आगतानां चित्ते तत् प्रतिफलितं भवति । अतो यदि पित्रोर्व्यवहारस्स्वभावश्च SEE निर्मलस्सरलश्च भवेत्तदा पुत्रा अपि तादृशा भवन्ति । किन्त्वद्य चिन्तनीयमेतदस्ति 26 ॐ यदद्य मर्यादा गम्भीरता चैव लुप्ता । औचित्यस्याऽनौचित्यस्य च भानमेव गतम् । ॐ 9 पितरौ तु गृहमध्ये एवाऽसदाचरणं कुरुतः । तौ एव पुत्रसमक्षं विकृतिजनिकां 40 M मोहचेष्टां कुरुतः, मर्यादानाशकं विकृतिपोषकं नितरां कामचेष्टाभृतं च चलचित्रं ON 0पश्यतः । तौ निर्लज्जीभूय वासनोत्पादकानि वसनानि परिधत्तः । प्रतिदिनं रात्रौ 10) 96 मित्राणि गृहमागच्छन्ति, तैस्सह यस्य कस्यचिदपि निन्दामवर्णवादं च कुरुतः, सर्वे SXS 10संमील्य धूमपानं मद्यसेवनं तमाखुसेवनं च सानन्दं कुर्वन्ति । गृहे . TO) प्रवर्तमानमेतादृशमाचरणं दृष्ट्वा पुत्राणां मनसि तत्सर्वं प्रतिफलति, तेषां चित्तेऽपि TO SXS तत्संस्कारा दृढा भवन्ति । भविष्यति काले ते एव कुसंस्कारा वृद्धिंगता भवन्ति । Ke अत्र दोषः कस्य ? भ्रातः ! 'त्यागं विना न प्राप्तिः', दशरूप्यकाणि दीयन्ते तदा " किमपि वस्तु प्राप्यते । यदि स्वपुत्राणां मनसि संस्कारसेचनं करणीयं स्यात्, तथा ? 928 तेषां विकासस्याऽभिलाषस्स्यात् तर्हि पितृभ्यां कुवासना, निन्दा, असत्यभाषणं, Ze ॐ प्रपञ्चः, परपीडनम् अनीतिः, स्वभावस्य जाड्यं, क्रौर्य, शङ्काशीलता, सङ्कचितता, कोपनं, चेत्येतेषामसदाचरणानां त्यागः करणीय एव, तथा नीतेस्सदाचारस्य > सरलतायाः सत्यस्याऽऽचरणं विधेयमेव । पित्रोराचरणमेवैतादृशं स्याद्येन तयोरङ्के 6 ॐ उपविश्य बालकाः किमपि कर्तुं वक्तुं च शक्तास्स्युः, किन्तु यदि पितरौ एव का Ha कोपनशीलौ शङ्काशीलौ दुराग्रहिणौ अपशब्द-भाषिणौ च स्यातां तदा पुत्राः किं 36 कुर्युः ? कुत्र गच्छेयुः ? कीदृशाश्च भवेयुः ? अद्यावधि ये केचनाऽपि Xe ॐ महान्तस्साधुपुरुषाश्च सञ्जातास्तैर्न कदाचिदपि संस्कारप्राप्त्यर्थं प्रशिक्षणवर्गा ग्रहीताः, ॐ न च कस्याऽप्युपदेशेन संस्कारित्वं प्राप्तं, किन्तु तेषां ज्येष्ठजनानां सदाचरणं 90 6 निरीक्ष्यैव संस्कारित्वं प्राप्तं जगत्पूज्याश्च जाताः । अत एव लोकोक्तिरस्ति यथा । ॐ जनकस्तथा पुत्रः, यथा गृहस्य वातावरणं तथा बालकस्य मानसं च । बालकानां 9. कृते तु गृहमेव शालाऽस्ति, पितरौं एव गुरुश्च । ३८ Page #50 -------------------------------------------------------------------------- ________________ अथ बालकानां संस्कारसेचक: 'शिक्षको गुरुः' इति मन्यते । बालकानां चित्तस्थितं दुर्गुणरूपमन्धकारमपाकृत्य सद्गुणरूपं प्रकाशमुद्योतयति स गुरुःशिक्षकः । उक्तं च 'गु' शब्दस्त्वन्धकारे स्यात् 'रु' शब्दस्तन्निरोधकः । अन्धकारविरोधित्वाद् गुरु इत्यभिधीयते ॥ 8 विद्यार्थिनां तत्तत्शक्तिं ज्ञात्वा तदनुरूपमध्यापयति स शिक्षकः । स न केवलं पुस्तकीयज्ञानमेव पाठयेत् किन्तु व्यवहारानुलक्षि ज्ञानमप्यध्यापयेत् । 8 नीतेस्सदाचारादिगुणानां च बोधमपि कारयेत्तथा महापुरुषाणां चरितं वर्णयेद्येन विद्यार्थिनस्तदनुरूपं वर्तेरन् । शिक्षको नारिकेलसदृशो वर्णितः । स कठोरानुशासनद्वारेण विद्यार्थिभिस्सह व्यवहरति, किन्तु तस्य हृदयं तु नवनीतमिव मृद्वस्ति, तस्य चित्ते स्वाश्रितानामेकान्तेन हितभावना करुणा चाऽस्ति । हन्त ! एतादृशाः शिक्षका अपि दुर्लभास्सन्ति । अद्य शिक्षका अपि न विद्याप्रेमिणः किन्तु धनलोभनो दृश्यन्ते । 8 तत एव तेषां कृते स्वाश्रितानामध्यापनं कल्याणं गुणवर्द्धनं च गौणमस्ति, केवलं धनस्यैव प्राधान्यमस्ति । तत एवाऽद्य शालायास्सकाशात् प्रशिक्षणवर्गाणां माहात्म्यमधिकं दृश्यते । अद्य प्रथमकक्ष्यायामध्ययनं कुर्वन् लघुवयस्को बालकोऽपि प्रशिक्षणवर्गस्याऽऽग्रहं करोति, यतस्स जानाति यद्, यद्यहं प्रशिक्षणवर्गे न गच्छेयं तदा स शिक्षको मामनुत्तीर्णं करिष्यति । ततोऽद्य पितरौ भोजनमकृत्वाऽपि प्रशिक्षणवर्गस्याऽध्यापनार्थं धनं व्ययीकुरुत: । अत एव कथयामि अद्य शिक्षका अपि दुर्लभास्सन्ति । शिक्षकजनानामाचरणमेव विद्यार्थिनां कृतेऽध्ययनं संस्कारमूलं चाsस्ति, किन्तु यदि शिक्षका एवाऽनीति दुर्वर्तनं च कुर्युस्तर्हि तदाश्रिताः किं शिक्षेरन् ? अद्य कन्यायाः कृते शालायां गमनमपि भीतिकरमस्ति । वृत्तपत्रिकायां बहुशः पठितं, बहुजनेभ्यश्च श्रुतमपि किन्त्वद्य मम भगिन्या मुखादेव यदा श्रुतं तदा मनोऽतीव खिन्नं जातं, मनसि च क्रोधोऽपि सञ्जातः । तयोक्तं भ्रातः ! विशेषपठनस्य तीव्रमहेच्छाऽऽसीत्, किन्तु शिक्षकेण मया साकमेतादृशो निन्दनीयो व्यवहारः कृतो येन पठनस्याऽभिलाषैव नष्टा । ततो महाविद्यालयो गणकयन्त्रवर्गश्चेति सर्वमपि त्यक्तम् । कदाचिद् मया प्रमाणपत्रं बहुधनदायिनी भृतिश्च न प्राप्यते तत् सहिष्ये किन्तु शीलखण्डनेन मे जीवनं कलङ्कयितुं नैवेच्छामि, इति वदन्ती सा 8 रोदिता । भ्रातर् ! 'एते शिक्षका विद्यादातारः पूज्याश्च' इति परमश्रद्धयाऽहं तान् पश्यन्त्यासम्, चित्ते समादर आसीत्, किन्त्वद्य सा श्रद्धैव नष्टा । 'शिक्षकाणां ३९ Page #51 -------------------------------------------------------------------------- ________________ SN दोषदर्शनमनादरश्च दुर्गतेः कारणमि'ति श्रुतं, किन्तु भ्रातर् ! किमेतादृशानामपि 6 0 शिक्षकाणां चरणनमनमादरश्च करणीयः? चित्तेऽग्नौ प्रज्वलिते सत्यपि श्रद्धा9C8 ऽऽसेवनीया ? पश्चाद् रुदती सा वदति स्म-यदि श्रद्धाया बीजमेव नष्टं स्यात्तर्हि 928 9 भवान्तरे मे का गतिस्स्यात् ? इति । बन्धो ! मयाऽऽश्वासनं दत्तम् । तस्या मनस्स्वस्थमपि कृतम् । यथाशक्यं ७ श्रद्धाऽपि स्थिरीकृता । अन्ते, प्रसन्नतामवाप्य सा गृहमपि गता, किन्तु तन्मनसि 0 * य आघात उद्वेगश्च सञ्जातस्तथा तस्याः श्रद्धायामुपरि यः प्रहारोऽभूत् स तु न ®कदाचिदपि संरोहेत् ! अत एवाऽहं कथयामि यद्, बालकानां विद्यार्थिनां च चित्ते । 6 संस्काराधानं कर्तुं प्रथममेतैर्येष्ठजनैः स्वाचरणं निर्मलं करणीयं, जीवनं च स्फटिकवत् 946 8 पारदर्शि करणीयम् । ___बन्धो ! एतेषां सर्वेषामपि दूषणानां मूलं पाश्चात्यानुकरणमस्ति । 9 अद्याऽस्माभिस्सर्वास्वपि रीतिषु पाश्चात्यानामनुकरणं विधीयते । तत एवेदानीं वसने " 1206 वदने वस्त्रपरिधाने भक्षणे आचरणे व्यवहारे चैवं सर्वत्राऽस्माभिर्मर्यादा त्यक्ता । ®. निर्लज्जतया वयमटामः । तत एव साम्प्रतं गृहं न मन्दिरम्, अपि त्वुपाहारगृहमस्ति, ® P4G इत्याभाति । शिक्षणशैल्यपि पाश्चात्यानुगामिन्यस्ति । अद्याऽध्ययनं केवलं बाह्य- 40 A बौद्धिकविकासानुलक्ष्येव, न तु संस्कारानुलक्षि गुणानुलक्षि च । 'श्रेष्ठस्थानेषु । NO) नियुक्तिस्स्यात्, बहु धनं लभेत तथा समाजे प्रशंसा प्रतिष्ठा च स्याद्' इत्येव ) X6 वर्तमानकालीनस्याऽध्ययनस्य सारोऽस्ति । एषा पाश्चात्यानां दूरदर्शिताऽस्ति । तैनिर्णीतं 96 यद्, 'येन केनाऽपि प्रकारेणाऽऽर्यदेशस्य संस्कारिता नाशनीया । आर्याणां संस्कारनाशोऽन्यथाऽशक्योऽस्ति । अतस्तैः शनैः शनैश्चातुर्येणाऽऽर्यजनानां सर्वासु 36 रीतिषु मर्यादाभञ्जिका पूर्ववर्णिताऽनार्यता प्रसारिता । ततो भविष्यति काले आर्यदेशेऽपि 36 - सर्वोपरित्वमस्माकं भवेदिति । यद्यस्माकमागामिन्यः प्रजा रक्षणीयास्स्युस्तय स्माभिरेवाऽस्माकमसदाचारणं त्यक्तव्यं तथा मूलपरम्परैवाऽनुसरणीया सर्वरीतिषु । ICC यदैवं स्यात्तदा पुनर्गृह मन्दिरं भविष्यति । 6 अन्ते, त्वमपि तव बालकैस्स्नेहिजनैश्च सहैतादृशं व्यवहारं कुरु, येन तव ॐ गृह मन्दिरं भवेत्तथा ते बालकाः संस्कारिणस्स्युरित्याशासे । ४० Page #52 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा 'नारीकथामृतम्' 2. E (समीक्षकः- डॉ. रूपनारायणपाण्डेयः, एस् II/330 राज्यशिक्षासंस्थानकालोनी एलनगञ्जः, प्रयागः, उ.प्र. २११००२) रचयिता तथा प्रकाशक: डॉ. आचार्यरामकिशोरमिश्रः, पूर्व उपाचार्यः संस्कृतविभागाध्यक्षश्च, महामना-मालवीय-महाविद्यालयः, खेकड़ा । आवास:- २९५/१४, पट्टीरामपुरम्, खेकड़ा - २०११०१ (बागपत), उ.प्र. । पृ.सं. ११२ । प्रथमसंस्करणम्-२००५ । मूल्यम्-१५०-०० विराजन्ते देववाण्यां कादम्बरी-वासवदत्ताप्रभृतयः कथाः, यासु नारीचरितस्य प्राधान्यं वर्तते । वर्तमानकालेऽपि काश्चन कथाः कथाकारैर्नारीचरितमाश्रित्य प्रणीताः । तामेव कथापरम्परां विवर्धयताऽऽचार्यरामकिशोरमिश्रेण 'नारीकथामृतम्' नाम पुस्तकं प्राणायि । अस्मिन् पुस्तके पञ्चदशकथा विलसन्ति - भामती, सावित्री, यमुना, गङ्गा, रत्नावलिः, यशोधरा, विद्योत्तमा, शकुन्तला, शची, सुकन्या, सत्यवती, ममता, सूर्या, विश्ववारा, अपाला च । अत्र विद्योत्तमां शकुन्तलां च विहाय सर्वाः कथा नितरां संक्षिप्ताः परिचयात्मिकाश्च । भामती पञ्चाननवाचस्पतिमिश्रस्य त्यागशीला धर्मपत्नी, यन्नाम्ना वेदान्तग्रन्थो भामती प्रणीतः । सावित्री सत्यवतः पत्नी, यया यमात् स्वपतिविमोचितः । यमुना गङ्गा चेति नदीद्वयम् । 'रत्नावलिः' दीनबन्धुपाठकस्य पुत्री, गोस्वामितुलसीदासस्य च पत्नी, सा स्वपति गृहाद निःसारयति, निर्गतः स रामभक्तौ तल्लीनो भवति । यशोधरा गौतमबुद्धस्य पत्नी भिक्षुकरूपेण समागताय बुद्धाय स्वपुत्रं समर्पयति । 'विद्योत्तमायाम्' कालिदासः काशीनरेशसुतां विद्योत्तमां शास्त्रार्थे पराजित्य परिणयति । सौभाग्यनिशायां विद्योत्तमा तं मूर्ख मत्वा प्रासादान्निर्गमयति । विद्याभ्यासं विधाय, कविश्च भूत्वास विक्रमादित्यस्य सभायां विराजते । विद्योत्तमा तत्र गत्वा न्याययाचनां विदधाति । कालिदासस्तां ★ 'भामती' इति ग्रन्थो वेदान्तविषयकोऽस्ति, न तु गणितविषयकः । अत्र कथाकृद भ्रान्तोऽस्ति । ४१ Page #53 -------------------------------------------------------------------------- ________________ पत्नीत्वेनाऽङ्गीकरोति । 'शकुन्तलायाम्' विश्वामित्रमेनकयोः पुत्री शकुन्तला विद्याध्यायनं विधायाऽऽश्रमे दुष्यन्तेन गान्धर्वविधिना परिणीता भवति । कण्वेन प्रहितां तां दुष्यन्तो न स्वीकरोति । धीवरादङ्गलीयकमधिगम्य स विरहातुरो बभूव । इन्द्राहूतः स दानवान् पराजित्य महर्षिकश्यपाश्रमे पुत्रं पत्नी चाऽवलोक्य तदादेशमधिगम्य ताभ्यां च साकं हस्तिनापुरं गतवान् । 'शच्यां' शची नहुषात् । स्वशीलं यत्नतो रक्षति । सुकन्या च्यवनस्य पत्नी व्रतेन स्वपत्युर्वृद्धत्वं दूरीकरोति । सत्यवती परशुरामस्य पितामही, विश्वामित्रस्य च भगिनी भवति स्वप्रयत्नतः । ममता दीर्घतमसो भरद्वाजस्य च माता । सूर्या सूर्यपुत्री विवाहमन्त्राणां च द्रष्ट्री। विश्ववाराऽऽत्रेयी समुपासिकाऽग्निदेवस्य । अपाला कृशाश्वस्य पत्नी । शरीरे श्वेतकुष्ठचिह्नमवलोक्य तां तत्पतिः परित्यजति, किन्तु सा तपस्यया स्वरोगापघातं कृत्वा पुनः पतिसौख्यं लभते । ग्रन्थेऽस्मिन् कथाद्वयं (विद्योत्तमा शकुन्तला च) संवादादिदृष्ट्या ग्रन्थान्तरेषु विविधरूपेण वर्णितमपि कामपि नूतनतां भजते । विद्योत्तमा-कालिदासपरिणयावसरे स्त्रीगीतानि भ्रामरगीतानि च हृदयं हरन्ति । तद् यथा 'वाणीबुधो मया त्वं हूतः, कथमागतो मौनविज्ञस्त्वम् । मया कामशास्त्री त्वं हूतः, कथमागतः पुनर्मुग्धस्त्वम् ।' (नारी०, पृ. १७) 'सप्तमे भ्रामरे पुत्री तस्य पत्नी येन सह । भ्रामराः पतितास्तस्याः, पित्रोर्न, तस्य साधनम् ।।' (नारी., पृ. २०) 'विद्योत्तमायां' विद्योत्तमा नारीशक्तेः प्रतिमानभूता विराजते, यस्याः प्रेरणया मूर्योऽपि कालिदासो विश्वविश्रुतो महाकविर्बभूव । शकुन्तलायां रमणीयैः पद्यैः शकुन्तलायाः शिक्षणं नितरां रोचकतामुत्पादयति, नवीनां संस्कृतशिक्षणपद्धति चाऽऽविष्करोति । 'शब्दधातुरूपाण्यवगच्छ बालक एकौ द्वौ च दानवौ राक्षसाश्च बहुवचने सन्ति । विष्णुं शिवौ ब्रह्मणो हस्तान् भक्ता भक्त्या विलोकयन्ति । ग्रह्या खड्गाभ्यां च सायकैः शत्रुभ्य: स्वात्मानं रक्ष । पुत्रि, शब्दरूपाण्यवगच्छ ।।' (नारी०, पृ. ५८) - Page #54 -------------------------------------------------------------------------- ________________ शकुन्तलाविरहे दुष्यन्तस्य भावदशायाचित्रणं यद्यपि मार्मिकं विद्यते, M तथापि तत्र शुचिता मर्यादा वा न विराजते । वक्ष्यमाणपद्ये भगशब्दप्रयोगे समीचीनता न विभाति । एवंविधमनौचित्यमन्यत्रापि केषुचित् पद्येषु दृश्यते । 'जङ्घाद्वयं तव तथा भाति, यथा विभातो रम्भाजघने । ययोरन्तरे भगप्रभावात्त्वं कथ्यते, भगवती भवने । तस्य महत्ता जगति पूजयति, नारी सदा प्रेमरसपाने ।' (नारी०, पृ. ९२) शकुन्तलातनयस्य भरतस्य बालजीवितस्य बहूनि रम्यतराणि चित्राणि डॉ. मिश्रमहाभागेन प्रस्तुतानि । कथाकारस्याऽत्र नैसर्गिकं मनोज्ञं कवित्वं प्रतिभातितराम् । देववाणीकथासु बालवर्णनस्यैवंविधा सूक्ष्मता हिन्दीमहाकवेः सूरदासस्य स्मृति समुद्भावयति । क्षणे प्रीतो लब्ध्वा स्वमभिलषितं वस्तु किमपि, पुनर्दष्ट्वा हस्तात्पतितमपि तद् रोदिषि बहु । अवाप्याऽन्यत्किञ्चिद् व्यपगतरुषो हृष्यसि सुत ! ततो दर्श दर्श विहससितमामङ्कनिहितः ॥' (नारी., पृ. ८२) 'मयूरं नृत्यन्तं वनमिदमटन्तं दृशि दधद्, मयूरी केकन्तीं प्रियमनुसरन्तीं स्वरसिकम् । पिकन्तं कूजन्तं धरणिमिह मेहन्तममरम्, गिरं तैः साकं योजयति स शिशुहृष्यतितमाम् ।।' (नारी, पृ. ८४) अन्यासु कथासु ग्रन्थकृतः किमपि नवं वैभवं न दृश्यते किन्तु वेदादिषु श्रुतानामपालादीनां नारीणां कोऽपि परिचयो ज्ञायते एव । अत्र मुद्रणत्रुटि: प्रायशो नैव विद्यते, किन्तु एकोनविंशे पृष्टे द्वितीयं भ्रामरं गीतं न वर्तते । नारीकथाक्षेत्रेऽयं ग्रन्थः सर्वैः पठनीयः संग्राह्यश्च । जयतु संस्कृतं संस्कृतिश्च । ४३ Page #55 -------------------------------------------------------------------------- ________________ साम्प्रतकालिक्यो व्याख्याः LARISM ~ मित्रम् मुनिधर्मकीर्तिविजयः क्रियमाणान्यशुभानि कार्याणि तथा भवदहितं ज्ञात्वाऽपि यस्सन्मार्ग न दर्शयति, किन्तु मधुरवचनव्याजेन गर्तायां पातयित्वा यो रोदिति । करुणोत्पादकानि वचनानि च वदति स मित्रमुच्यते । प्रियः अन्यत्र निन्दां करोति, गुह्यानि च प्रकटयति, किन्तु तत्समक्षं नितरां प्रशंसते स प्रियः । सज्जनः दुराचारी, व्यसनी, असत्यभाषी, अहङ्कारी च सन्नपि मधुरभाषया दम्भाचरणेन चाऽन्येषां हृदयाण्याकृषति, तथा तेषां चित्ते एष सुशीलस्सज्जनश्चेति धियमुत्पादयति स सज्जनः । चतुरः यो वञ्चनायां श्रेष्ठः, स्वदुर्गुणानपि सद्गुणरूपेण वर्णयितुं समर्थः, तथाऽवसरानुगुणं स्वमहेच्छां पूर्णीकर्तुं यः कुशलस्स चतुरः । गुणानुरागी स्वकीयकार्ये निरुपयोगिनामन्येषां सद्गुणानपि दुर्गुणरूपेण तथा प्रियजनानां दुर्गुणानपि सद्गुणरूपेण यो वर्णयति स गुणानुरागी । पुण्यशाली योऽशुभानि कार्याणि कुर्वनपि प्रशंसां प्राप्नोति लोकप्रियश्च भवति तथा यस्य दुष्टवचनमपि सर्वमान्यं भवति स पुण्यशाली ।। धर्मी दम्भ-प्रपञ्चासत्याचरणं चेत्यादिद्वारेण जनान् वञ्चयन् भक्तिं प्रभुपूजां धर्मकार्ये धनव्ययं चेति सत्कार्याणि करोति स धर्मी । समर्पितः 'एतन्निन्दनीयमकरणीयं चाऽस्ति' इति जानन्नपि ज्येष्ठजनानामिच्छाया , अनुगुणं वर्तते, तेषामसत्यकथने दुष्टकार्ये च विरोधं न करोति, तथाऽशुभकार्यकरणे साहाय्यं करोति स समर्पितः । ४४ Page #56 -------------------------------------------------------------------------- ________________ सरल: आनन्दः गुरु: भक्तः श्रीमान् प्रपञ्चादिकं कृत्वाऽपि जनसमक्षं मुग्धभावेन वर्तने यः कुशलस्स सरलः । नारदविद्यया द्वयोर्मित्रयोर्मध्ये क्लेशं कारयित्वा दूरतो विवादं कुर्वन्तौ तौ दृष्ट्वा मनसि या तृप्तिरनुभूयते स आनन्दः । आश्रितजनानां भावनां दृढीकृत्य स्वं प्रत्याकृषति, पश्चात्तेषां धनस्य सत्तायाश्चोपयोगं विधाय स्वमनोरथं यः पूरयति स गुरुः । गुरुजनानामशुभकार्येष्वपि साहाय्यं कृत्वा स्वस्वार्थं स्वेप्सितं च साधयति स भक्तः । यस्य कथने वर्तने च तुच्छताऽहङ्कार उद्धतता च दृश्यते, तथाऽपि यस्य परितो दश पञ्चदश वा जना भ्रमरवन्निरन्तरमन्ति स श्रीमान् । अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ (कुवलयानन्दे) ४५. Page #57 -------------------------------------------------------------------------- ________________ बाबा हरवासि मुनिधर्मकीर्तिविजयः इस्मरणम् ) ......................................... नवसारीनगरे 'मद्रेसा'नाम शालाऽऽसीत् । तत्र यदाऽहं पञ्चमकक्ष्यायां पठन्नासं तदा शालायाः प्रांशुपालः स्वयमेवाऽऽङ्ग्लविषयं पाठयति स्म । स यथा स्वभावेन कठोर आसीत्तथैव बाह्यस्वरूपेणाऽपि कठोरो दृश्यते स्म । स आपाततो बक (गूर्जरभाषायां 'बगलो') इव प्रतिभाति स्म । ततस्सर्वैविद्यार्थिभिस्स प्रांशुपालो 'बगलो' इत्यपरनाम्नैवोपलक्ष्यते स्म । यद्यपि असौ प्रांशुपालो 'बगलो' इत्यपरनाम्ना क्रियमाणं स्वकीयमुपहासं कथञ्चिद् ज्ञातवानासीत्, तथाऽपि प्रमाणाभावात् स विद्यार्थिनो दण्डयितुं न शक्तवान् । एकदा कक्ष्यायां पाठयता तेनाऽहं पृष्टः- “Coat' इति शब्दस्य गूर्जरपर्यायः . कः ? प्रत्युत्तरमजानन्त्रहं तूष्णीं स्थितवान् । तदा समीपस्थितेन मित्रेणाऽस्फुटशब्दैः सूचितम्- 'डगलो' इति । मया 'बगलो' इति श्रुतं, ततो 'बगलो' इत्युक्तवानहम् । तच्छ्रुत्वैव 'स्वकीय उपहास एष' इति मन्यमानस्सोऽतीव कुपितो जातः । क्षणेनाऽविचार्यैव तेन रभसा मम कपोले पञ्चसप्ताश्चपेटिका दत्ताः । इतस्सर्वेऽपि विद्यार्थिन उच्चैरहसन् । ततो मुहुर्मे कपोले पञ्च चपेटिका दत्ताः । पश्चात् समीपस्थितानां बालकानामुपरि चपेटिकाप्रहारः प्रारब्धः । ततस्सर्वेऽपि विद्यार्थिनो हसन्तस्स्वासनादुत्थायेतस्ततोऽधावन् । सर्वत्र कोलाहलो जातः । एवं पञ्चदश क्षणा व्यतीताः, तथाऽपि कक्ष्यायां शान्तिर्नाऽभवत् । अन्ते यदा विखिन्नमनसा तेन प्रांशुपालेन विंशतिविद्यार्थिनः कक्ष्याया बहिनिष्कासितास्तदैव वर्गसमयः समाप्त: ततोऽतीव कोपेन मुहुर्मुहुर्मी पश्यन्नसौ वक्रदृष्ट्या कक्ष्याया बहिर्गच्छन्नासीत् तदैव सर्वेऽपि विद्यार्थिनो 'बगलो-बगलो' इत्युच्चैराराटि कुर्वन्तः परस्परं तालिका ददतश्च हसन्ति स्म । अहं तु कपोलस्योपरि पुनः पुनर्हस्तं प्रसारयन् तूष्णीं स्थितवान् । अद्याऽप्येतत्प्रसङ्गः स्मृतिपथमायाति तदा वारं वारं हसामि । ...... ४६ Page #58 -------------------------------------------------------------------------- ________________ कथा कथानायम् (१) स विवेको य: शान्तिकृत् मुनिरत्नकीर्तिविजयः 'विन्स्टन लेनार्ड स्पेन्सर चर्चिल' (१८७४-१९६५) - 'चर्चिल' इति लघुनाम्नैव स जगति विख्यात आसीत् । ब्रिटन्देशस्य प्रधानमन्त्रित्वेन यदा स चितस्तदा द्वितीय विश्वयुद्धं प्रचलदासीत् । परिस्थितिस्तु विषमा विकटा चाऽऽसीत् । ) एतादृशि समये स्वराष्ट्रस्य विजयार्थं सङ्केतमेकं स प्रदत्तवान् - 'V For Victory' इति । यश्च पश्चात् तद्देशस्य स्वाभिमानस्य चिह्न जातम् । हिटलरस्य भयं तदा सर्वत्र प्रसृतमासीत्, किन्तु, प्रजासु तेन धैर्यं निर्भयत्वं च प्रसारितम् । स्ववक्तृत्वकौशलेन तेन प्रजासु साहसं सञ्चारितम् । ___ ई.स. १९४५ तमे वर्षे चर्चिलस्य पक्षः पराजितोऽभवत् । परन्तु ई.स. १९५१ तमे वर्षे पुनः स प्रधानमन्त्रित्वेन चितः । ई.स. १९५५तमवर्षस्य एप्रिलमासस्य ६ दिनाङ्केऽस्वस्थताकारणात् प्रधानमन्त्रिपदात् स त्यागपत्रं दत्तवान् । राजनैतिककार्येभ्यः स निवृत्तो जातः । तदनु च स दश वर्षाणि यावज्जीवितवान् । निवृत्तेरेतं समयं स धामिकग्रन्थानां पठनेनोद्यानकर्मणा च यापयति स्म। एकदा तस्य मित्रं तं मीलितुमागतम् । तदा चर्चिल उद्यान एकत्र क्षुपं रोपयन्नासीत् । स वयस्यस्तं वर्तमानकालीनं राजनैतिकप्रवाहमनुलक्ष्य प्रश्नान् कृतवान् । तदा चर्चिल उक्तवान् -- ‘मित्र ! अस्मिन्नुद्यानकर्मणि बह्वानन्दमनुभवामि किल !' इति । .. 'किन्तु, भवतेऽहं किञ्चित् प्रष्टुमिच्छामि' - मित्रमुक्तवत् । 'मां प्रष्टुमिच्छति भवान् ? तर्हि प्रथमं तावदुद्यानकर्मविषयकमपरं च नित्यमहं बाइबलग्रन्थं पठामि, तमधिकृत्य चेति विषयद्वयमेवोपलक्ष्य किमपि प्रष्टुमर्हति भवान्' - इति चर्चिलमहाशय उत्तरितवान् । 'न हि, अहं तु भवादृशाय कुशलराजनीतिज्ञाय राजनीतिविषयकमेव प्रश्नं । ४७ Page #59 -------------------------------------------------------------------------- ________________ कर्तुमिच्छामि' - इति स वयस्यः स्वजिज्ञासां प्रकटितवान् । किन्तु चर्चिलमहाशय उक्तवान् – 'वयस्य ! राजनीतिक्षेत्रादहं निवृत्तोऽस्मि । मम तत्कार्यं तु सम्पन्नं जातम् । नाऽस्त्यधुना मम तत्क्षेत्रे काऽपि रुचिः । इदानीं तु श्रमः प्रार्थनं चेत्येव मम जीवनकार्यमस्ति' इति । (२) अनुकरणीयो न्याय: ___ सम्राट सिकन्दर एकदाऽऽफ्रिकादेशे कस्मिंश्चिद् राज्ये गतवानासीत् । (60 तच्च राज्यं वनप्रदेशे बहुदूरं स्थितमासीत्, सुवर्णमपि तत्र विपुलप्रमाणमासीत् । यदा स तत्र प्राप्तवांस्तदा तत्रत्या जना उपहाररूपेण सुवर्णं गृहीत्वा तं निरीक्षितुमागताः। किन्तु सिकन्दरस्तान् प्रत्युवाच -- 'नाऽहं भवतां वैभवं निरीक्षितुमागतोऽस्मि । सुवर्णेन नाऽस्ति किमपि मम प्रयोजनम् । अहं तु भवतां जीवनस्य रीति नीति च द्रष्टुमागतोऽस्मि' इति । सर्वं पश्यन् सन् स मुख्यन्यायालयसमक्षमागतवान् । तत्र च नृपतिायार्थमागतान् न्यायं श्रावयति स्म । यावत् सिकन्दरोऽन्तः प्रविष्टस्तावदभियुक्तः कश्चिदागतः । स उक्तवान् - 'राजन् ! मया बुसभृता गौण्येका क्रीताऽऽसीदेतज्जनसकाशात् । गृहं गत्वा यदा मया सा गोणी समुद्घाटिता तदा ततः सुवर्णस्य कतिचन खण्डाः प्राप्ताः । मया तु केवलं बुसमेव क्रीतं न तु सुवर्णमतः सुवर्णखण्डोपरि नाऽस्ति मम कोऽप्यधिकारः । सत्यं किल ? बुसं मम, न सुवर्णम्। किन्त्वेष जनस्तत् स्वीकर्तुं सर्वथा निषिध्यति । न्यायदृष्ट्या तु सुवर्णोपर्यस्यैवाऽधिकारः किन्त्वेष नाऽङ्गीकरोति, अतो भवानेवाऽत्र प्रमाणम्' इति। विचित्रमस्याऽऽवेदनं श्रुत्वा सिकन्दरः साश्चर्यं तं निरीक्षितवान् । तावत् प्रतिवादी बभाषे - 'राजन् ! ममाऽपि किञ्चिच्छृणोतु तावत् । मया तु गोणी विक्रीता, अतस्तत्र को नाम ममाऽधिकारः ? यदपि गोणीतः प्राप्तमनेन तस्य स्वामित्वं त्वस्यैव न मम, अतो नाऽहं तद् ग्रहीष्यामि । बुसं यथाऽस्य सत्कं तथा स्वर्णमपि, यतस्तदपि गोणीत एव प्राप्तम् । एष ममाऽभिप्रायः । अन्ततो गत्वा भवानेव प्रमाणम्' इति । ४८ Page #60 -------------------------------------------------------------------------- ________________ सिकन्दरस्त्वेतादृशं वादं श्रुत्वा किंकर्तव्यविमूढ इवैव सञ्जातः- 'अरे ! | मम देशे तु परकीयमपि स्वायत्तीकरणे सर्वेऽप्युत्सुका उद्यताश्च वर्तन्ते । किन्त्वत्र तु विपरीतमेव दृश्यते ।' कीदृशं निर्णयं नृपतिरत्र श्रावयिष्यतीति ज्ञातुं स उत्कण्ठितो जातः । तावन्नृपतिर्वादि-प्रतिवादिनावुद्दिश्य पृष्टवान् - 'किं भवतोगुहयोः पुत्रपुत्र्यौ स्तः ?' उभावपि 'आम्' इति प्रत्युत्तरं दत्तवन्तौ । प्रतिवादिनो गृहे युवा पुत्र आसीत्, वादिनश्च गृहे तस्य पुत्र्यासीत् । 'यद्येवं, न्यायः सुकरः शोभनश्च भविष्यति' - राजाऽवदत् । 'वादिनः पुत्र्याः परिणयः प्रतिवादिनः पुत्रेण सह भवतु । पश्चात् तत् स्वर्णं पुत्र्यै ददातु । । अथ नाऽस्ति कोऽपि प्रश्नः, एष मे निर्णयः' - नृपतिरुवाच । . उभावपि सहर्षं तदङ्गीकृतवन्तौ । एतादृशेन निर्णयेन चकितं सिकन्दरं दृष्ट्वा नृपतिः पृष्टवान् - "किं काऽपि क्षतिरस्ति मम निर्णये, अन्यायपूर्णो वाऽयं निर्णयः, येन चकितोऽस्ति भवान् ?' 'नैवम्, नैवम्, नाऽस्ति काऽपि क्षतिर्नाऽप्यन्यायपूर्णोऽयं निर्णयः । किन्तु यदि मम देशे किमप्येतादृशमुपस्थितं स्यात् तर्हि - 'उभयोरपि शिरश्छेदं कृत्वा सुवर्ण राज्यायत्तं करणीयम्' - एतादृशो निर्णयो मया श्रावितः स्यात्' इति ) सिकन्दर उक्तवान् । तस्य साम्राज्यस्यैतादृशीमन्यायपूर्णामत्याचारपूर्णां च पद्धतिं श्रुत्वाऽऽश्चर्यमनुभवता आफ्रिकादेशीयनृपतिना प्रश्न एक समुपस्थापितः - 'राजन् ! भवतो देशे किं सूर्यमुदेति वा ? मेघपतिः किं वा वर्षति तत्र ?' सम्राडुक्तवान् - 'आम्-आम् ! उदेत्येव नित्यं प्रातःकाले सूर्यः, वर्षत्यपि च यथासमयं मेघपतिः । किन्तु किमेतादृशा प्रश्नेन ?' नृपतिरभाषत - ‘भवतो देशे ये पशु-पक्षिणो निवसन्ति, तेषां कृत एव सूर्यः प्रकाशमानः स्याद् मेघपङ्क्तिश्च वर्षन्ती स्यात् । यतो यत्रैतादृशोऽन्यायः प्रवर्तते तत्र तादृशीनां प्रजानां कृते तु सूर्यस्योदयो मेघानां च वर्षणं नाऽऽवश्यकमेव' इति । Page #61 -------------------------------------------------------------------------- ________________ (३) न भाग्यादधिकं किश्चित् . एकदा कृषीवल एकः स्वगृहात् क्षेत्रं प्रति गच्छन्नासीत् । मार्गे तस्य प्रतिवेशी वयस्य इच्छारामो मिलितः । उभावपि परस्परं वार्तयन्तावग्रे चलितौ । मध्येमागं भगवानदास उक्तवान् - 'इच्छाराम ! अद्य प्रत्यूषकालेऽहं स्वप्नमेकं दृष्टवान् .. 'ईश्वरेण गृहपटलं भित्त्वा धनस्य वृष्टिः कृता' इति। ___एतच्छ्रुत्वा इच्छारामोऽपि - 'अरे ! भो ! मयाऽपि तदैवाऽद्य स्वप्नो दृष्टो यद्- कृषिकार्यकाले क्षेत्रात् सुवर्णमुद्राभृतो घट एको मया प्राप्तः' इति वितथमेवोक्तवान् । तस्यैतत्कथनं श्रुत्वा भद्रप्रकृतिर्भगवानदासोऽपृच्छत् - 'इच्छाराम ! किं स्वप्नाः कदापि फलन्ति खलु ?' 'तत्तु न जानाम्यहम्, किन्तु प्रत्यूषकाले दृष्टः स्वप्नः फलत्यपीति लोकोक्तिरस्ति'- इति इच्छारामः प्रत्युत्तरितवान् । 'कदाचिदावयोः स्वप्नौ यदि फलदायिनावभविष्यतां तर्हि सत्यमेवावां धनवन्तावभविष्याव'- इति भगवानदासः स्वकीयं भावं प्रकटितवान् । तज्ज्ञात्वा इच्छारामः केवलं स्मितेनैव प्रत्युत्तरं दत्तवान् । एवं क्रमशस्तौ स्वस्वक्षेत्रं प्राप्तवन्तौ । अत्र भगवानदासः क्षेत्रं गत्वा सर्वं सज्जीकृत्य हलेन यावत् कर्षणमारब्धवांस्तावत् खन् न् न् ऽऽऽ इति ध्वनिस्तेन श्रुतः । स निर्णीतवान् यद् भूमिरन्तर्भागादेवैष ध्वनिरागतो यतस्तस्य हलमग्रे नाऽपसरति स्म । हलं बहिः कर्षयित्वा स तत्र पश्यति । ताम्रघट एकस्तत्र विद्यमान आसीत् । सकुतूहलं स तं बहिनिष्कासितवान् । घटस्य भारेणैव तेनाऽनुमतं यदन्तः किमपि विद्यते एव । किन्तु घटमुखं पिहितमासीदिति तत्र किमस्तीति तु न ज्ञातवान् सः । - - Page #62 -------------------------------------------------------------------------- ________________ घटं दृष्ट्वा स स्वप्नवार्ता स्मृतवान् यद् - इच्छाराम एतादृशं स्वप्नं दृष्टवानासीदिति । घटं तत्रैव मुक्त्वा स झटिति धावन्निव इच्छारामस्य क्षेत्रं गतवान्। । तत्र तं दृष्ट्वा, दूरादेव- इच्छाराऽऽऽम ! भो ! इच्छाराऽऽऽम ! - इत्याकारितवान्। (M किमस्ति रे ! किमेवं तारस्वरेण वदसि ? - इच्छारामोऽपृच्छत् । तावत् । समीपमागत्य- 'भ्रातर् ! त्वत्स्वप्नः सत्यः सञ्जातः । कर्षणकाले मम क्षेत्रभूमेरेको घटः प्राप्तः । त्वमेव तस्याऽधिकारी यत एतादृशं स्वप्नं त्वमेव दृष्टवानासीः । अतस्त्वमेव तं गृहाण' - इति भद्रभावेनोक्तवान् । तच्छ्रुत्वा इच्छारामश्चिन्तयति - सत्यमेवैष भगवानदासो मूर्योऽस्ति, यतोऽसत्यमपि मम स्वप्नकथनं सत्यमिवैव मत्वा धनसम्भृतं घटं मह्यं दातुमुद्यतोऽस्ति । भवतु यदप्यस्ति । अलं स्पष्टतया - इति । एवं चिन्तयित्वा भगवानदासं प्रत्यचकथत् - 'सत्यम्, सत्यं कथयसि त्वम् । आगच्छ, त्वया सहैव तव क्षेत्रमागच्छामि ।' एवं लोभाविष्ट इच्छारामस्तेन सह गत्वा घटं स्वगृहमानीतवान् । अतीवकुतूहलवशात् त्वरितमेव घटमुद्धाटयितुं प्रयत्नानादृतवान् । महता प्रयत्नेन स तमुद्घाटितवान् । अत्यन्तं हर्षाविष्ट आसीत् तदा सः । किन्तु यावत् सोऽन्तः पश्यति तावदेव तस्य हर्षो बाष्पीभूय व्यपगतः । भयात् तस्य शरीरं वेपते स्म । तत्र घटे वृश्चिका आसन् । झटित्येव स तं घटं यथाकथञ्चित् पुनः पिहितवान् । तदनन्तरमेव स किञ्चित् स्वस्थोऽभवत् । स चिन्तितवान् – 'हम् ! एष भगवानदासो मामेवं वञ्चितवान् किल ! । तं योग्यं शिक्षयाम्येव येन सोऽपि तत् सदा स्मर्यात् । एतान् वृश्चिकांस्तु तस्यैव गृहे निक्षेप्स्यामि' इति । तस्यामेव च रात्रौ इच्छारामो भगवानदासस्य गृहं गतवान् । द्वारं पिधाय स सुप्त आसीत् । अतः शनैः स तस्य गृहस्योपरितनभागे, कमपि भागमवलम्ब्य सघटो गतवान् । तत्र च शब्दो यथा न स्यात्तथा पटलं भित्त्वा घटमुखमुद्धाट्य तमधोमुखं कृतवान् । पतनस्य शब्दं श्रुत्वा सुप्तो भगवानदासः सहसा जागृतोऽभूत् । तस्य मस्तकेऽपि किञ्चित् पतितमिति तेनाऽनुभूतम् । तस्य शयनीये, पार्श्वभागे, परितः सर्वत्र च किञ्चित् पतति स्म । खन् खन् इति ध्वनिरपि जायते स्म । वातायनात् प्रसरति मन्देऽपि प्रकाशे तेन दृष्टं यन्निष्का वर्षन्त आसन् । एष स्वप्न उत सत्यमिति ५१ Page #63 -------------------------------------------------------------------------- ________________ | निश्चेतुं कांश्चिन्निष्कान् हस्ताभ्यां गृहीतवान् । 'हं, निश्चयेन स्वर्णस्य वृष्टिरेवैषा' इति । विचिन्त्य हस्तद्वयं संयोज्य नेत्रे निमील्य च भगवन्तं प्रति पार्थितवान् - 'हे भगवन् ! पटलं भित्वा त्वया स्वर्णवृष्टिः कृतेति मया दृष्टः स्वप्नस्त्वत्कृपयैवाऽद्य फलितोऽस्ति । बह्वनुगृहीतोऽस्मि भगवन् !' इति । ___तस्योच्चैः कृतायाः प्रार्थनायाः शब्दान् श्रुत्वा इच्छारामः साश्चर्यमधो निरीक्षितवान् । तेन दृष्टं यत् तत्र सत्यमेव निष्का आसन् । तद् दृष्ट्वा सोऽत्यन्तं खिन्नमना जातः । ललाटे हस्तमास्फाल्य "हा ! हा ! किमेतन्मयाऽऽचरितम् । अविचारितमाचरितमेतत् । यद्यधैर्यं न कृतं स्यात् तर्खेतादृशं फलं न प्राप्तं स्यात् । / अधैर्येण मया सर्वमपि नाशितम्" - इति पश्चात्तापं कृतवान् मनस्येव । शनैश्च ततोऽवतीर्य गृहं प्राप्तवान् । कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो बिभ्यतोऽप्यश्लाघ्यं पुरुषस्य दैववशतस्तत् किञ्चिदुज्जृम्भते । माहात्म्यं विभवं कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्येकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥ ( नलविलासनाटके) Page #64 -------------------------------------------------------------------------- ________________ कथा गृहस्वामिनीचय नम् मुनिधर्मकीर्तिविजयः पुरा किल मगधाभिधो देश आसीत् । तत्र राजगृहं नाम नगरमासीत् । तस्मिन्नगरे धनाख्यः श्रेष्ठी वसति स्म । तस्य धारिणी नाम सुरूपा लावण्यवती च पत्नीरासीत् । तयोर्धनपालो धनदेवो धनगोपो धनरक्षितश्चेति चत्वारः पुत्रा आसन्। यथाकालं ते चत्वारोऽपि पुत्रा यौवनं प्राप्ताः । ततश्च पिता श्रेष्ठिनां रूपवतीभिः कन्याभिस्सह तान् पुत्रान् पर्यणाययत् । अन्यदा पितुर्मनसि गृहचिन्ता सञ्जाता 'एतासां वधूनां मध्ये का वधूर्मे गृहभारं वोढा ? अतस्तन्निश्चेतुं तासां परीक्षा कर्तव्येति विचिन्त्य तेन श्रेष्ठिना भोजनार्थं सर्वेऽपि स्नेहिजना आमन्त्रिताः । भोजनानन्तरं श्रेष्ठिना तेभ्यस्सर्वेभ्योमूल्यानि विविधान्युपायनानि दत्तानि, पश्चात् स श्रेष्ठी ताभ्यः सर्वाभ्यो वधूभ्यः पञ्च पञ्च शालिकणान् ददौ जगाद च - 'यदाऽहं कथयेयं तदैते मे दातव्याः । श्रेष्ठिन एतादृशं विचित्रं वर्तनं वीक्ष्य सर्वेषां परिवारजनानां चित्ते आश्चर्यमभूत् । अथ प्रथमा वधूश्चिन्तयाञ्चकार - 'सत्यं खलु मे श्वशुरस्य बुद्धिर्भष्टा, येन सर्वेषां स्नेहिजनानां मध्ये पञ्च शालिकणान् दत्त्वा मेऽवमाननं कृतम् । एतैः किं मे प्रयोजनम् ? यदा श्वशुरो याचिष्यते तदाऽन्यान् दास्यामी'ति । सा तान् शालिकणानुज्झितवती । अथ द्वितीया वधूः 'एतैर्न मे किमपि प्रयोजनमस्ति तथाऽपि श्वशुरेण दत्तानामेतेषां त्यागो नोचित' इति चिन्तयित्वा सा तत्क्षणमेव श्वशुरस्य प्रसादं मत्वा तान् शालिकणान् भक्षितवती । - तृतीया वधूर्व्यमृशत् - 'प्रयोजनं विना व्यवहारनिपुणो जनको न कदाऽप्येवं करोति' । अतस्तया ते शालिकणा रक्षणबुद्ध्याऽऽभरणसमुद्रके रक्षिताः । 'कनीयसी वधूर्व्यचिन्तयत् - 'मम श्वशुरश्चतुरस्सुधीश्चाऽस्ति । ततः केनचित् कारणविशेषेणैव स बान्धवजनानां समक्षमेतान् पञ्च कणान् दत्तवान् । अथ एतेषां वर्धनं करणीय'मिति । सा त्वरितमेव स्वपितुर्गृहे तान् शालिकणान् प्रेषितवती सूचितवती च - 'भवद्भिस्स्वक्षेत्रे एते पुनः पुनर्वपनीया वर्द्धनीया चे 'ति । मया सूचिते सति भवद्भिः प्रेषणीयम् । तैरपि तत्कथनानुसारेणैव कृतम् । ५३ Page #65 -------------------------------------------------------------------------- ________________ अथ कतिपयवर्षैः पुनरपि श्रेष्ठिना स्वबन्धुजना भोजनार्थमामन्त्रिताः । भोजनानन्तरमेकैकां वधूं समाहूय श्रेष्ठी पृष्टवान् - वत्से ! पूर्वं मया ये शालिकणा दत्तास्तान् मेऽर्पय । तदा प्रथमा वधूर्गृहान्तर्गत्वा पञ्च कणानानीय दत्तवती, तान् दृष्ट्वा श्रेष्ठी आह नैते मया पूर्वं दत्ताः कणाः, किन्त्वेते तु नवीना भासन्ते । तयोक्तं - सत्यं, ते तु प्रोज्झिता मया । श्रेष्ठी उवाच भवतु । ततो द्वितीयां वधूमाहूय 'तनये ! पूर्वं दत्तान् कणानर्पय मह्यम्' इत्युक्तं श्रेष्ठिना । साऽवोचत् - ते तु मया भक्षिताः । श्वशुरोजगाद अस्तु । ततस्तृतीया वधूः पृष्टा । तदा सा स्वप्रकोष्ठं गतवती । तत्राऽऽभरणसमुद्गके स्थितान् कणानानीय श्रेष्ठ दत्तवती । आसन् । -- आवश्यकाः । किं ते एवैते कणा ये मया पूर्वं दत्ता: ? श्वशुर उवाच वधूरुवाच आं पितर् ! मयैते कणा इयन्ति दिनान्याभरणसमुद्रके रक्षिता - - श्वशुरोजगाद बाढम् । अन्ते कनीयसीं वधूमाहूय श्वशुरोऽवोचत् - त्वमप्यानयतु तान् कणान् । वधूरुवाच - पितर् ! क्षमताम् । तत्कणानामानयनार्थं तु बहवः शकटा श्रेष्ठी जगाद कथम् ? कथम् ? साऽवोचत् भवता ये कणा दत्तास्ते तु मया पितृगृहं प्रेषिताः । तैस्ते कणा मे सूचनानुसारेण स्वक्षेत्रे पुनः पुनः उप्त्वा वर्द्धिताः । अतोऽहं कथयामि यत्तदानयनार्थं बहुशकटा उपयोक्तव्या भविष्यन्तीति । तस्या एतादृशं चातुर्ययुतं वर्तनं निरीक्ष्य श्वशुरस्सर्वेऽपि च गृहजनाः प्रसन्ना अभूवन् । प्रसन्नवदनः श्रेष्ठी - "भोः ! प्रथमया वध्वा ते शालिकणा उज्झिताः, ततस्तां गृहशुद्धिकार्यार्थं नियोजयामि । द्वितीयया वध्वा ते कणा भक्षिता:, अतस्तां महानसाधिकारं समर्पयामि। तृतीया वधू रक्षणशीलाऽस्ति, अतस्सा गृहस्य सारवस्तूनि रक्षतु । कनीयसी वधूर्निपुणाऽस्ति, अतस्सा गृहस्वामिनी भवतु, तथाऽस्या आज्ञा सर्वैर्गृहजनैस्स्वीकार्ये" ति निर्णयं श्रावितवान् । एतच्छ्रुत्वा पूर्वमुद्गतस्याऽऽश्चर्यस्य समाधानं जातम् । ५४ Page #66 -------------------------------------------------------------------------- ________________ कथा बोधकथा ) मुनिधर्मकीर्तिविजयः (१) SapaaDADAARADADA कश्चित् साधको बौद्धादीनां नैकानां गुरूणां समीपमटति स्म । एवमेवाऽऽटमाटं स एकदा कस्यचिद् झेनगुरोः सांनिध्यं प्राप्तवान् । मया बहूनि शास्त्राणि पठितानि किन्तु तृप्तिर्न जाता, अतो भवानपि किञ्चिदपि शास्त्रं पाठयतु येन तृप्तिस्स्यात्, इत्युक्तवान् सः । - झेनगुरु उवाच - उपविश । तेन समीपस्थितेन शिष्येण चायपूर्ण बृहत्पात्रं चषकं चाऽऽनायिते । तच्चषके च चायं भर्तुं प्रारब्धवान् । चषकं यद्यपि सम्पूर्णं भृतं तथाऽपि गुरुणा तक्रिया न स्थगिता। अतश्चायं चषकाद् बहिः पतितम् ।। साधकोऽवोचत् - प्रभो ! किं करोति भवान् ? किं भृते चषकेऽपि चायं छ भ्रियते? एतत्तु सर्वं निरर्थकं भवति । झेनगुरुर्जगाद-किं सत्यं वदसि ? भ्रातः ! यथा भृते पात्रे न किमपि भ्रियते तथैवाऽनेकविकल्पभृताय तुभ्यं ज्ञानं दातुं न समर्थोऽहम् । अतः प्रथमं त्वं हृदयं विकल्पशून्यं कुरु, पश्चादत्राऽऽगच्छेः । PAPADABADAADAARADADAPADABADASANAADARADARADARA PTETTENDVEDOEDOMETRIEVEDOETETD.ETTPOEM (२) एकदा बुद्धेन परुषवचनैर्देवदत्तो निष्कासितः । तदैकेन जिज्ञासुना पृष्टम्- अहो ! भवताऽपि क्रोधः कृतः ? बुद्धोऽवोचत् - मया क्रोधो न कृतः, किन्तु तस्योपयोगो विहितः । __ जिज्ञासुना व्याकृतं - को भेदोऽत्र ? " बुद्धो जगाद - केनाऽपि वैद्यराजेन कटुकं तिक्तं चौषधमुपयुज्येत तदा A किं सोऽपि कटुकः तिक्तश्च भवेत् ? जिज्ञासुना गदितं - 'न' इति । बुद्धः प्राह- ममाऽप्येवमेवाऽस्ति । क्रोधो मयौषधरूपेणैवोपयुक्तः, अतो व नैतावन्मात्रेणाऽहं क्रोधी स्याम् । - ५५ Page #67 -------------------------------------------------------------------------- ________________ कथा प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् ॥ मुनिकल्याणकीर्तिविजयः अस्ति किल शतशो धनदैः सहस्रशः पारिजातैर्लक्षशश्चोच्चैः श्रवोभिरपहस्तितसुरपुरं काम्पील्यपुरं नाम पुरवरमत्र भारते । जनास्त्वत्रत्या वैदग्ध्येन विबुधा अपि सुचरितैरतिविबुधाः । तथा रूप - लावण्य- -सौन्दर्यादिभिरप्सरस्तुल्या अपीहत्या योषितः शील- लज्जादिभिर्गुणैरत्यप्सरसः । अथाऽत्र नगरे वसन्तदेवो नाम वणिक्पुत्रो निवसति स्म । स सर्वास्वपि कलासु प्रवीणोऽपि तदुपरिष्टाद् धर्मकलायामपि निपुणो निरतश्चाऽऽसीत् । समासादितनवयौवनोऽसौ कदाचिदचिन्तयत् 'पित्राऽर्जिता लक्ष्मीहि भगिनीतुल्या भवति । कथं सोपभुज्यते ? मया तु स्वयमेव देशान्तरान् गत्वा प्रभूतं धनमुपार्जनीयं, तेन चैहिक-पारलौकिककार्याणि कृत्वा कुन्दावदातं यशोऽपि समुपलब्धव्यम्' इति । अतः पितुः किञ्चिन्मूलधनमुपादाय स जयन्तीपुर्यां ययौ । तत्र च वणिक्कलया वाक्कौशलेन च स प्रभूतं धनमुपार्जयत् । प्रथमप्रयले एव महान्तं लाभं प्राप्याऽतीव सन्तुष्टोऽसौ 'पुनरपि धनेनाऽनेन व्यवसायं करिष्यामीति विचिन्त्य तत्रैव नगर्यां पुनरपि व्यवहारमारभत । एवं च व्यवहारादि कुर्वता तत्र पुर्यां केचन वणिक्पुत्रास्तस्य मैत्रीभावमुपागताः । अथाऽन्यदैतेषामेव मित्राणामनुरोधतः सोऽष्टमीचन्द्रोत्सवे रतिनन्दननामोद्यानमगच्छत् । तत्र च बहवो नागरा नागरीयुता यदृच्छया विहरन्त आसन् । अयमपि च ससुहृत् सनर्मालापं च इतस्ततो भ्राम्यन्नेकस्मिन् लतामण्डपे सखीभिः सह खेलन्तीं कन्यामेकां दृष्ट्वान् । तस्याः सौन्दर्यं लवणिमानं मौग्ध्यं च दृष्ट्वाऽदेवोऽपि वसन्तदेवो देव इवाऽनिमिषनयनोऽभवत् । सहसा च तस्या अपि लोचनगोचरोऽयमभवत् । तस्या अपि दृष्टिर्वसन्तदेवसाक्षात्कारेण स्निग्धाऽभवत् । तदा वसन्तदेवः स्वमित्रं प्रियङ्करं पृष्टवान् 'केयं युवति: ? कस्य वा सुतेयम् ?' तेनाऽप्युक्तं 'एषा तु केसरा नाम, पञ्चनन्दिश्रेष्ठिनो दुहिताऽस्ति । ५६ Page #68 -------------------------------------------------------------------------- ________________ तथाऽस्माकमेव सुहृदो जयन्तिदेवस्य स्वसाऽस्ति ।' तत आरभ्य वसन्तदेवो जयन्तिदेवेन सह गाढं सौहृदमारब्धवान् । इदमेव च सौहृदं द्वयोः परस्परं सद्मगतागतनिबन्धनमप्यभवत् । अन्यदा वसन्तौ जयन्तिदेवो वसन्तदेवं स्वगृहे न्यमन्त्रयत् । सोऽपि च । 2 सादरं ससम्भ्रमं च तन्निमन्त्रणं स्वीकृत्य तद्गृहं प्राप । यदा स गृहाङ्गणं प्राप्तस्तदा तेन कुसुमचयैः कुसुमायुधं पूजयन्ती केसरा दृष्टा । नयनकुमुदकौमुदीं तां निरीक्षितवतस्तस्य नयने उत्फुल्ले जाते मुखं च विकस्वरं सञ्जातम् ।। इतो जयन्तिदेवोऽपि वसन्तदेवं सहर्ष प्रवेश्य पुष्पमालादिभिः सत्कृतवान् । तदैव केसराऽपि तं सानुरागदृशा सम्भावितवती । एतेन द्वयोरपि नवर्णनीयो हर्षः सञ्जातः । एनं च द्वयोरपि भावं केसरासखी प्रियङ्करा लक्षितवती । इङ्गिता-. A कारवेदिभिर्हि परस्वान्तं सुलक्षमेव ननु ! अतस्तया केसरायै गदितं - ‘हले ! एष तव भ्राताऽस्य वसन्तदेवस्य र सत्कारादि करोति । त्वमपि यथोचितमस्य सत्कृति विधेहि ।' । तदा युगपद् व्रीडा-हर्ष- भयादिभावाननुभवन्त्या तयाऽप्युक्तं - 'भोः ! त्वमेवाऽत्राऽर्थे सुज्ञाऽसि, अतस्त्वमेव किञ्चित् कुरु ।' तदा प्रियङ्करयाऽङ्गणस्थप्रियङ्गतरुमञ्जरी कक्कोलकादीनि च फलान्यादाय वसन्तदेवसम्मुखं गत्वोक्तम् – 'सुन्दर ! स्वामिनी मे हस्ताग्रोच्चितान्येतानि पुष्पाणि फलानि चेष्टदेयानीति कृत्वा भवते प्रदत्ते ।' 'अभीष्टोऽहमेतस्याः' इति विचिन्त्य सहर्ष स्वपाणिना तेन पुष्प-फलानि गृहीतानि । ततोऽङ्गल्या नाममुद्रां निष्कास्य तस्यै च दत्त्वा कथितवान् - 'भद्रे ! . शोभनमिदं कृतं त्वया । एवमेव सदाऽपीष्टानुरूपमेव वर्तितव्यमिति तां कथयेः ।' । 'अवश्यं कथयिष्ये' इत्युक्त्वा साऽपि प्रियङ्करा केसराभ्यर्णं गत्वा मुद्रां । दत्तवती दृढानुरागकन्दोद्भेदने वारिसेकवत् तद्वचनमपि शंसितवती च । अथ च तस्यामेव रात्रौ चरमयामे केसरा वसन्तदेवश्च स्वप्ने उभयोः परस्परं परिणयनं दृष्टवन्तौ । एतच्च स्वप्नदर्शनं तयोविवाहादप्यभ्यधिकमासीत् । । प्रातःकाले केसरा प्रियङ्करायै स्वदृष्टं स्वप्नं कथितवती रोमाञ्चितवपुश्च तमेव पतीयाम्यहमिति निवेदितवती च । तदा निकटस्थेन पुरोधसाऽपि 'त्वदिच्छा फलीभूता - भविष्यत्येवे'ति साशिषा निगदितम् । प्रियङ्करयाऽप्युक्तं - 'स्वामिनि ! स्वप्नेन । Page #69 -------------------------------------------------------------------------- ________________ HE शुकनेनाऽनेन च वसन्तदेव एव ते भर्ता भविता। अतः शकुनग्रन्थिर्बध्यता'मिति। ५ 1 तयाऽपि शकुनग्रन्थिबंद्धा । ततः प्रियङ्करा वसन्तदेवमपि तं स्वप्नं कथितवती । श्रुत्वैतत् वसन्तदेवोऽपि स्वस्वप्नसंवादात् तमर्थं सिद्धमेवाऽमन्यत । प्रियङ्करयोक्तं - 'मे स्वामिन्या भवते स्वात्मा प्रकल्पितोऽस्ति । अतो विवाहाय सन्नह्यताम् ।' 'भद्रे ! विधिनैवेदं व्यधायि, अथाऽपि विधिरेव सर्वं घटयिष्यति । यतो मनुष्यघटितं कार्यं तु प्रायः क्वचिद् विघटतेऽपि ।' इति प्रत्युत्तरयन् वसन्तदेवो । रूपिणी नियतिमिव तां सत्कृत्य व्यसृजत् । इत्थं प्रियङ्कराद्वारा प्रत्यहमन्योन्योदन्तपीयूषपायिनोस्तयोः केचिद्दिना No व्यतीताः । ___अथाऽन्यदा स्वगृहे तस्थिवान् वसन्तदेवः पञ्चनन्दिश्रेष्ठिसदने वाद्यमानं मङ्गलतूर्यं श्रुत्वा तत्कारणं ज्ञातुं स्वकर्मकरं प्रेषयामास । तेनाऽप्यागत्योक्तम् - 'अद्य हि कन्यकुब्जनिवासिसुदत्तश्रेष्ठिनः पुत्राय वरदत्ताय पञ्चनन्दिना स्वदुहिता, केसरा प्रदत्तेति वर्धापनकृते तूर्यमेतद् वाद्यते ।' आकर्येदं मुद्गरेण ताडित इव वसन्तदेवो मुमूर्छ । एतावतैव प्रियङ्कराऽपि तत्राऽऽगता, शीतोपचारैस्तं स्वस्थीकृत्य समाश्वासितवती च यथा 'भद्र ! केसरा भवते सन्दिशति यत् "पित्रादिनोपक्रान्तमिदमाकर्ण्य भवता सर्वथा खेदो न कार्यः।। यतस्ते ममाऽभिप्रायानभिज्ञा अतस्तैरिदं विहितमस्ति । किन्त्वहं तु नैव विधास्ये तत् । भवानेव मे भर्ता भावी, नाऽन्यः । अन्यथा तु मरणमेव मे गतिः । इयं मे प्रतिज्ञा सत्या मन्तव्या यतः कुलीनानां वचनं न कदाऽपि मिथ्या भवति ।" / अंतो भवताऽत्राऽर्थे उद्वेगो न वोढव्यः' इति । एतेन प्रीतो वसन्तदेवोऽप्यूचे - 'सत्यमेतत् । न हि तादृशं स्वप्नदर्शनं कुलीनानां वाक् च मोघत्वं भजते कदाचित् । अतो ममाऽपीयमेव सन्धा यद यथाकथमपि केसरामेवोद्वक्ष्यामि मरणं वा शरणीकरिष्यामि ।' एतच्च तत्प्रतिश्रुतं प्रियङ्करा केसरां गत्वोक्तवती । साऽप्येतेनाऽत्यन्तं मुदिताऽभवत् । ततो द्वावपि परस्परमुद्वाहोपायान्वेषणपरौ कञ्चित् कालमत्यवाहयताम् । किन्तु बहूपायसेवनेनाऽपि तयोः कार्यं नैव सम्पन्नम् । तावताऽन्यदा प्रातः केसरोद्वाहार्थं कन्यकुब्जाद् जन्ययात्राऽप्याययौ । एतद् दृष्ट्वा निराशो वसन्तदेवश्चिन्ताजलनिधि Page #70 -------------------------------------------------------------------------- ________________ निमग्नो जात: 'हा ! दैव ! अनेन यथार्हसम्बन्धाविज्ञाभ्यां पितृभ्यां कृतेनाऽन्योद्वाहेन केसरा निश्चितं विपत्स्यते । अथवा प्रथममेव तत्पुरस्तादहमेव मृत्वा शान्तदुःखो भवामि येन दग्धे पिटकसन्निभं प्रियामरणं न श्रोतव्यं भवेत् ।' अतो झटिति नगराद् बहिरुद्यानं गत्वाऽशोकतरुशाखायां च पाशग्रन्थि बध्वा स्वंतत्र उद्बद्धवान् । ईषद्वद्धे एव च तत्पाशे समीपस्थनिकुञ्जात् कश्चित् पुरुष: 'मा भोः ! साहसं कार्षीः' इति पूत्कुर्वन् तत्राऽऽगतोऽशोकवृक्षमारुह्य च पाशग्रन्थि चिच्छेद । 'सुन्दर ! किमिदमाकृतेर्विरुद्धमेव भवता समारब्धम् ?' वसन्तदेवं समाश्वासयन् स पृष्टवान् । वसन्तदेवेनोक्तं 'भो ! दैवहतस्य ममाऽनयाऽऽकृत्या किमिति भ्रान्तोऽसि ? अहं तु प्रियाविरहदुःखान्तकरं मृत्युं प्राप्तुमतीवोत्सुक आसम् । तावता च भवताऽऽगत्य पाशग्रन्थि निकृन्तताऽन्तराय एव विहितः । ' तदा स पुरुषस्तं सान्त्वयन्नुक्तवान् - 'शान्तो भवतु भोः ! तथा प्रथमं वदतु, किं तद्दुःखं भवत आपतितं यस्य मरणमेवोपायत्वेन भवताऽङ्गीकृतम् ?' तदा वसन्तदेवस्तस्य स्वदयिताविवाहादिवृत्तान्तं शंसितवान् । शस्यमानं दुःखं प्रायः प्रशाम्यत्येव ननु ! पुरुषेणोक्तं- 'भो ! यद्यप्येवं सञ्जातं तथाऽपि विवेकिजनस्येत्थं प्राणत्यागो नैव योग्यः । यतो यदि विचार्यते तदा बहव उपाया अभीष्टलाभाय प्राप्यन्ते एव । भवत्कार्यसाधनायाऽपि सन्त्येवोपायोऽतः किमर्थमिदं प्राणत्यजनम् ? तथा यद्यत्रोपयो न स्यात् तथाऽपि मर्तुं तु नैवोचितम् । यतो मृतो हि स्वाभीष्टं कथमवाप्नुयात् ? पश्यतु, एषोऽहमप्युपायाभावतो निजाभिलषितं न प्राप्याऽपि जीवामि पर्यटामि च । जीवन्नेव नरो भद्राणि पश्यति खलु !! वसन्तदेवेन पृष्टं - 'को भवान् ? किं वा जातं भवतो जीवने ?' तेनोक्तं – ‘कृत्तिकापुराभिधनगरवास्तव्योऽहं कामपालो नाम श्रेष्ठपुत्रोऽस्मि । यौवनमदेन कस्याऽप्यकथयित्वैव देशान्तरदिदृक्षया नगरान्निर्गतोऽहमेकाक्येव । पर्यटंश्च कदाचिच्छ्ङ्खपुरं नाम महानगरं प्राप । तत्र च तदा शङ्खपालयक्षोत्सवः प्रचलति स्मेत्यहमपि तदीक्षितुं गत उद्याने । बहवो जनास्तत्र सम्मिलिता आसन् । अहमपीतस्ततो निरीक्षमाणः पर्यटामि स्म । तावता सहकारनिकुञ्जान्तः क्रीडन्ती स्मरसहधर्मिणीसन्निभा नितान्तशुभदर्शना चैका लावण्यवती कन्या मयाऽवलोकिता । ५९ . Page #71 -------------------------------------------------------------------------- ________________ HE तामवलोकयतो मम सानुरागस्योपरि तयाऽपि सानुरागो दृक्पाशः प्रक्षिप्तो येन र बद्धोऽहं तत्रैव चिराय स्थितवान् । ततस्तया स्वसखीहस्तेन मे ताम्बूलमपि दत्तं यदोष्ठरागस्येव मनोरागस्याऽपि निबन्धनं जातम् । अथ ताम्बूलमाददानस्य यावन्मम चिन्ता जाता यदत्र कृतप्रतिकृतिरवश्यं र कर्तव्या, तावतैव कुतश्चिदप्येको मदमत्तो महागजः स्वीयाः सर्वा अपि को पादशृङ्खलास्त्रोटयित्वाऽऽलानं चोन्मूल्य धावितः संस्तत्रैवाऽऽगतः । अङ्कशहस्ता र विहस्ता हस्तिपका यावत्तं हस्तगतं कुर्युस्तावत् स सर्वानप्यपहस्तयन् तमेव 'चूतनिकुञ्जमाससाद । करालकृतान्तमिवाऽऽपतन्तं तं दृष्ट्वा तस्याः कन्याया निखिलोऽपि परिच्छदः खिलीभूय पलायनं कृतवान् । भये घुपस्थिते सर्वस्याऽपि आत्मैवोपरि ननु !! सा पुनस्ततः पलायितुमक्षमा भयेन वेपमाना तत्रैव तस्थौ । अथ मत्तमतङ्गजस्तामेकाकिनी दृष्ट्वा गर्जारवं कुर्वन् यावच्छुण्डयाऽऽदत्त तावतैव मया लकुटेन स पुच्छोपान्तेऽताड्यत । अतः पृच्छस्पृष्टोरग इव रुष्टः स तां मुक्त्वा मामाकान्तुं ववले। अहं तु तं कथमपि वञ्चयित्वा तां कन्यां - - चाऽऽदायाऽन्यत्र गतवान् । तत एकस्मिन् निरुपद्रवे देशे तां मुक्तवान् । किन्तु सा - मां स्वहृदयान्नैव मुमोच । तावता तत्परिजनोऽपि तत्र समायातस्तां च निरापदNO मक्षताङ्गीं च दृष्ट्वा बन्दीव मां प्रशंसितवान् । तन्नामाऽपि मया तदैव मदिरेति - ज्ञातम् । ततः सा पुनरपि सखीभिस्तत्रैव सहकारवनखण्डे नीता । अथ दैवात् पुनरपि कुतश्चिद् गजचीत्काराः कर्णपथं समागताः । अतः सर्वोऽपि तत्परिजनो भीतः सन् दिशो दिशं पलायिष्ट । साऽपि च क्वाऽपि गतेत्यजानानोऽहं तद्दिदृक्षया चिराय पर्याट किन्तु सा न कुत्राऽपि दृष्टेति शून्यस्वान्तोऽत्राऽऽगतः । परं निरुपायोऽपि जीवाम्येव न पुनर्मरणाय प्रयते । । भवतस्तु केसराप्राप्त्यै उपायाः सन्त्येवेति किमिति भवान् मरणं वाञ्छति ? पश्यतु भोः ! श्वः प्रातस्तस्या विवाहोऽस्ति ननु ! तीद्य सा रतिसमन्वितं मन्मथं पूजयितुं - कल्प इति - अवश्यमागमिष्यति । तत्तदागमनपूर्वमेवाऽऽवां स्मरदेवालयान्तः प्रविश्य निभृतं साधकाविव तिष्ठावः । यदा सा तत्राऽऽगन्ता तदा तस्या वेषमहं ग्रहीष्यामि तत्परिजनेन सार्धं च तद्गृहं यास्यामि । मयि दूरमपक्रान्ते सति भवानपि तामादायाऽन्यतो निर्गच्छेत् स्वेच्छानुरूपं च यत्र कुत्राऽपि यातुमर्हेत् । एवं च भवदिच्छाऽखण्डिता सेत्स्यति ।' SEARCH 16 ६० Page #72 -------------------------------------------------------------------------- ________________ इदमाकर्ण्य मुदितेन वसन्तदेवेनोक्तं - 'सुन्दरोऽयमुपायो भवता दशितः, * किन्तु मम सुखाय यतमानो भवान् व्यसनगर्तायां पतिष्यतीति महद् भयं मे ।' __ अथ तदैव समीपस्थया कयाचिद् वृद्धब्राह्मण्या क्षुतं कृतम् । एतदाकर्ण्य कामपालेनोक्तं पश्यतु भो ! भवत्साहाय्यकरणेन ममेह व्यसनं नैव भविष्यति प्रत्युताऽभ्युदय एव भविता । यतः सात्त्विकानां सत्त्वानां तु दैवमप्यनुकूलतां की प्रयाति ।' तदा च तत्रस्थेन वृद्धब्राह्मणेनाऽप्युक्तम् - ‘एवमेतद् भोः !, नाऽत्र । सन्देहः ।' वसन्तदेवेनाऽपि तद्वचः प्रतिपद्य शकुनग्रन्थिनिबद्धः । ततस्तौ द्वावपि ततो निर्गत्य पुरीं प्राविशताम् । तत्राऽशनादि कृत्वा पुनरपि सायंकाले नगराद् बहिः । 2 स्थितं स्मरदेवकुलं गत्वा स्मरप्रतिमापृष्ठतो निभृतं स्थितौ । क्षणान्तर एव ताभ्यां मङ्गलतूर्यध्वनिः श्रुतोऽतो नूनं केसराऽत्राऽऽयातीति से निश्चित्य हृष्टौ तौ । साऽपि च प्रियसमागमं मन्त्रं स्मरन्ती तत्राऽऽययौ । शिबिकायाः समुत्तीर्णा सा विमानादवतीर्णा देवीव शुशुभे । ततः प्रियङ्कराकरात् स्वर्णमयीं । पूजामुपादायैकाकिन्येव सा स्मरदेवकुलं प्रविष्टा तद्द्वारं चाऽऽचारत्वात् पिनद्धवती । ' ततो मन्मथमूर्तिपुरतः पुष्पपत्रार्घ प्रक्षिप्य मन्मथाक्रान्तहृदया सा प्राञ्जलिरेवमब्रवीत्- ‘भगवन् मकरध्वज ! त्वं सदा सर्वेषां चित्ते भवसि तत्रैव च वससीति तद्भावं सम्यग् जानासि। किन्तु सर्वभावविदोऽपि तव हे भगवन् ! - अनभीष्टेन पत्या मम नियोजनं किं युक्तं वा? वसन्तदेवं विना मम चित्तं नाऽन्यत्र कुत्राऽपि रमते । यथा विषकन्या पत्युस्तथाऽन्यः पतिरपि मे मरणायैव भविष्यति । प्रभो ! वसन्तदेव एव जन्मान्तरेऽपि मे भर्ता भूयादिति प्रार्थनया सहाऽहमन्तिम बस नमस्कारं करोमि ।' एवमुक्त्वा साऽऽत्मनं तोरणे उद्वध्य मरणाय व्यवसिता तावतैव वसन्तदेवो * धावित्वा पाशग्रन्थि विसूत्रितवान् । 'कुतोऽयम् ?' इति साश्चर्या सलज्जा सभया च सा वसन्तदेवेन समाश्वास्य ' सप्रेम गदिता 'प्रिये ! एषोऽहं वसन्तदेवस्ते प्राणप्रियोऽस्मि यं त्वं परलोकेऽपि * भर्तृत्वेन स्मरात् प्रार्थयसे । अहमिह निष्कारणवयस्यस्याऽमुष्य महात्मनो बुद्ध्या - त्वां जिहीर्घस्तवाऽनागतमेवाऽत्र प्रविष्टोऽस्मि । अतः स्वस्थीभूय स्वनेपथ्यमर्पय, ६१ Page #73 -------------------------------------------------------------------------- ________________ येन तद् धारयित्वाऽसौ वयस्यस्ते परिजनं मोहयंस्त्वद्वदेव त्वत्सदनं गमिष्यति । ततः स्तोककालमत्र गमयित्वाऽऽवामपि देशान्तरं गमिष्यावः ।' निशम्यैतद् हर्ष - रभस - लज्जादिभावान् युगपदेवाऽनुभवन्ती स्ववेषं कामपालायाऽऽर्पयत् । सोऽपि च तत् परिधाय कामदेवं कुसुमादिनाऽचित्वा च नीरङ्गीपिहिताननो द्वारमुदघाटयत् । तत्र स्थितां प्रियङ्करामवलम्ब्य शनैः-शनैः स याप्ययानं गत्वा परिजनैरलक्षित एव तत् समारोहत्, वाहीकाश्च तदुद्वाह्य पञ्चनन्दिगृहं प्राप्ताः । नूनं, सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ! । ततः स प्रियङ्करयैव यानादवतार्य वधूगृहं नीतः स्वर्णासने चोपवेशितः । तदनु 'केसरे ! प्रियसमागमं मन्त्रं स्मरन्तीतिष्ठाऽत्र' इति सोपहासमुदित्वा निर्गता । अयमपि च तद्वचसो भावार्थं स्वाशयानुरूपं गृहीत्वा काम - रतिसमागमं मन्त्रं मुहुर्मुहुः स्मरति स्म । अथेतः सा शङ्खपुरवास्तव्या केसरामातुलसुता मदिराऽपि जन्ययात्रायां निमन्त्रिता तत्राऽऽगताऽऽसीत् । सा केसरां द्रष्टुं वधूगृहमागता केसरावेषधारिणश्च कामपालस्य पुरत उपविश्य सनिःश्वासं वक्तुमारब्धा 'हले केसरे ! विध्यधीनेषु कार्येषु मा खिद्यस्व । मया श्रुतमासीद् यत् ते वसन्तदेवसङ्गम एवाऽभीष्टोऽस्ति । ! मयाऽपि प्रेोविरहवेदनाऽनुभूताऽस्ति । अतस्त्वां समाश्वासयितुमेवेदं वच्मि यद् यथाऽयं विधिः प्रतिकूलोऽनभीष्टं कुरुते तथैवाऽनुकूलीभूयाऽभीष्टमपि करोति । किञ्च सखि ! त्वं तु धन्यैवाऽसि यस्यास्ते प्रियेण साकं दर्शनालापप्रभृतीनि बहुशो जातानि । परं मम वृत्तान्तस्तु दारुणो दुःश्रवश्चाऽस्ति । शृणु तावत् - अस्माकं नगराद् बहिः प्रवर्तमाने शङ्खपालोत्सवे एकदाऽहं परिजनैः सह गतवत्यासम् । तत्र चाऽशोकपादपाधस्तादेकं मनः सर्वस्वतस्करं प्रत्यक्षं मन्मथमिव युवानमद्राक्षमहम् । तं च दृष्ट्वाऽनुरागवती सञ्जाताऽहं सखीहस्तेन तस्मै एकं ताम्बूलं प्रेषितवती । तेनाऽपि चाऽहं साक्षात्कृतान्तादिव घोरान्मत्तवारणात् स्वचातुर्येण पराक्रमेण च रक्षिता । अथैतावता पुनरपि हस्तिनः शङ्कायां त्रस्ताऽहं यावत् किञ्चिद् गत्वा पुनरागता तावत् स विस्तीर्णनभसि विहग इव कुत्रचिद् गत एव । ससख्या मया बह्वविष्टोऽपि स कुत्राऽपि नोपलब्धः । ततः प्रभृत्यहं वृश्चिकदष्टा मर्कटीव सर्वत्राऽरतिभाजनभूता कथंकथमपि वराक्येषा जीवामि । तथाऽद्ययावत् तं स्वप्ने दर्शं दर्शमेव समाश्वासयामि स्वं, कदाचित्तु दैवप्रसादेन स प्रत्यक्षो भविष्यति । इदं सर्वमपि रहस्यं तव दुःखं लघूकर्तुमेव शंसितं मया । अन्यं दुःखितं दृष्ट्वा दुःखिनः समाश्वसन्ति ननु ! | ६२ Page #74 -------------------------------------------------------------------------- ________________ म तदलं खेदेन भोः ! । अनुकूले हि विधौ स्वयं प्रेयोमेलनं भविष्यत्येव । मा धैर्य - हारय ।' श्रुत्वेदं सर्वं कामपालेन नीरङ्गीमपसार्य कथितं, 'सुन्दरि ! एषोऽहं त्वया यक्षोत्सवे दृष्टपूर्वस्ते प्रियोऽस्मि । दैवानुकूल्याद् यथाऽद्याऽऽवयोः सङ्गमोः जातस्तथैव 'वसन्तदेव-केसरयोरपि जातः । अथवाऽलमालापविघ्नेन । भीति विमुच्य 5 किञ्चिन्निर्गमद्वारं दर्शय येनाऽऽवामितः पलायावः ।' तदा तयाऽपि गृहोद्याने पश्चिमद्वारवर्त्म दर्शितं, सोऽपि च समदिरो निर्गत्य ततो यत्र वसन्तदेव-केसरे गते आस्तां तत्रैव गत्वा ताभ्यां सहैव ससुखमवसत् । सात्त्विकानां हि दैवमप्यनुकूलतां प्रयात्येव ननु !! कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-त्रिषष्टिशलाका-पुरुषचरितस्य पञ्चम-7 पर्वणः पञ्चमसर्गे वर्णिताया उपकथाया आधारेण सङ्कलिता कथैषा ।। TEACEBSI+ or यथा मुख्यस्य सौन्दर्य प्रतिनिम्नस्य नो तथा । सूर्याचन्द्रमसौ वारिसक्रान्ती क्लान्ततेजसौ ॥ (नल विलासनाटके) ६३ Page #75 -------------------------------------------------------------------------- ________________ कथा विश्वज्योतिः ('जहाँ आरा') श्रीयुतो जयशङ्करप्रसादः (संस्कृतरूपान्तरकारः - डॉ. रूपनारायणपाण्डेयः, एस्. II /३३०, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः, प्रयागः, उ.प्र., २११००२) विद्यते दारुणा नीरवता यमुनातटीये राजप्रासादे । केवलं वारं वारं श्रूयते शतघ्नीनां गडगडायितमस्त्राणां च झङ्कारः । वृद्धो विश्वेशः ('शाहजहाँ') उपधानाश्रयेण निषण्णोऽस्ति, एका च दासी कस्यचिदौषधस्य पात्रं गृहीत्वा तस्थौ । विश्वेशोऽन्यमनस्को भूत्वा किमपि चिन्तयति, शतघ्नीनां ध्वानेन कदाचित्कदाचित् सहसा कम्पते । सहसा तस्य मुखाद् निःसृतम् - 'नैव-नैव, अपि स एवं करिष्यति ? अपि वयं राजसिंहासनाद् निराशा भवेम?' 'आम्, अवश्यं निराशा भवेम ।' विश्वेशः शिर उत्थाप्य जगाद - 'का ? विश्वज्योतिः ? अपि त्वमिदं सत्यं वदसि?' D विश्वज्योतिः (समीपमुपगम्य) 'आम्, लोकनाथ ! इदं सत्यमस्ति, हि विश्वरक्षकः ('दाराशिकोह') अकर्मण्यो भवत्पुत्रः पलायितः, कृतघ्नश्च निर्भयः ('दिलेरखाँ') क्रूरं मयूरासनमति ('औरंगजेब') मिमेल, दुर्गञ्च तस्याऽधिकारे बभूव । विश्वेसः "किन्तु विश्वज्योतिः ! अपि मयूरासनमतिः क्रूरोऽस्ति ? अपि स वृद्धस्य स्वपितुः किञ्चन सम्मानं न करिष्यति ? अपि स मयि जीवत्येव राजसिंहासनमधिष्ठास्यति?' D- विश्वज्योतिः (यस्या लोचने अभिमानाश्रुजलपरिपूर्णे बभूवतुः) 'लोकनाथ ! . अनेनैव भवतः पुत्रवात्सल्येन भवदीयेयमवस्था विहिता । मयूरासनमतिरेको नारकीयः पिशाचोऽस्ति; एकं शुभं कार्यं विहाय तेन किं कर्तुं न शक्यते ?' ६४ Page #76 -------------------------------------------------------------------------- ________________ विश्वेशः 'नैव विश्वज्योतिः ! एवं मा वद ।' विश्वज्योतिः 'आम्, लोकेश ! अहमेवमेव वदामि ।' विश्वेणः ‘एवंविधम् ? तर्हि विश्वज्योतिः ! अपि शरीरेऽस्मिन्मुगलरक्तं नास्ति ? अपि त्वं मम किमपि साहाय्यं कर्तुं शक्नोषि ?' विश्वज्योतिः 'यथाऽऽज्ञापयति देवः ।' । Dविश्वेशः तर्हि मम तरवारिं मम करे धेहि । यावत् सा मम हस्ते विद्यते, कोऽपि मां राजसिंहासनात् पृथक् कर्तुं नाऽर्हति ।' आवेशेन सह विश्वज्योतिः - 'आम् , लोकेश ! एवंविधमेव भविष्यति ।' र इत्यभिदधती वृद्धस्य विश्वेशस्याऽसिं तत्करे निधाय तस्थौ । विश्वेश उत्तस्थौ, B प्रस्खल्य पतितुमारेभे, राजसुता विश्वज्योतिर्नृपं जग्राह, राजसिंहासनकक्षं प्रति च निनाय । (२) B. - । राजसिंहासने वृद्धो विश्वेश उपविष्टोऽस्ति, वर्णकावृता विश्वज्योतिश्च निकट एव निषण्णा, केचन च नायकाः- ये तस्मिन् काले तत्राऽऽसन् – स्थिताः सन्ति; वन्दिन्यपि तस्थौ । विश्वेशे सङ्केतयत्येव सा चिराभ्यस्तं स्वशब्दं वक्तुमारेभे । सद्य एव तन्मुखात् प्रथम एव शब्दे निर्गते तच्छिरोऽवपत्य दूरं याति ! सर्वे विस्मिता भूत्वाऽपश्यन् । धृतकवचो मयूरासनमतिः स्वखड्गं करवस्त्रेण प्रोञ्छन् पुरतः तस्थौ नत्वा च निजगाद - ‘श्रीमतो देहस्थितिं प्रतिकूलां श्रुत्वाऽऽत्मनो न प्रबभूव, अत उपतस्थौ ।' विश्वेशः (कम्पित्वा) 'किन्तु पुत्र ! एतादृशस्य रक्तपातस्य काऽपेक्षाऽऽसीत् ? सद्य एव पश्य, वृद्धाया वन्दिन्याः शवो लुठति । हा! मयाऽवलोकितुं न शक्यते । (कम्पित्वा) अपि पुत्र, मामपि...' (इत्येतावदभिदधानो मूच्छितो भूत्वाऽऽसनेनाऽवनतो बभूव) । मयूरासनमतिः (उच्चैर्ध्वनित्वा स्वसहचरान्) 'अपसारय तमपूतं शवम् ।' अधुना विश्वज्योतिरात्मनो न प्रबभूव, द्रुत्वा सुरभि वारि च नीत्वा वृद्धपितुर्वदने प्रोक्षितुं प्रारेभे । - Page #77 -------------------------------------------------------------------------- ________________ D. मयूरासनमतिः (तत्राऽवलोक्य) 'अहो ! केयमस्ति, या वृद्धं मम पितरं गृहीतवती? । (विश्वेशस्य पार्श्वगान्) यूयमतीवाऽशिष्टाः, नैव पश्यथ, प्रियस्याऽस्माकं पितुः का दशाऽस्ति ?, सोऽधुनापि पर्यङ्के नैव शायितः ।' (मयूरासनमतिना साकं सर्वे सिंहासनमनुजग्मुः ।) विश्वज्योतिस्तानेवमग्रे प्रगच्छतो विलोक्य त्वरया कट्टारं निष्काम्य, हस्ते च राजकीयमुद्राङ्कितं पत्रं निधायोत्तस्थौ, उवाद च - ‘पश्यतु, एतदादेशमनुसृत्याऽहं युष्मान् आदिशामि यत् स्वस्वस्थाने तिष्ठत, यावदहं द्वितीयमादेशं न प्रदिशामि।' सर्वे तत्पत्रं ददृशुः । 'सर्वैरस्य जनस्याऽऽदेशः पालनीयः, ममेव च D सम्मानो विधेयः' इति तत्र लिखितमासीत् । सर्वे तदभ्यर्थनायै नताः, स्वयं मयूरासनमतिरप्यवनतः, कतिपयक्षणान् सर्वे निस्तब्धाः जाताः । सहसा मयूरासनमतिरुत्तन्य तस्थौ, गर्जित्वा चोवाच - 'गृहाणेमा मायाविनीम्, इदं सर्वं मिथ्या विप्लवोऽस्ति, वयं महाराजं विहाय कमप्यन्यं नाङ्गीकुर्मः ।' सर्वे तां प्रतिजग्मुः । यदा सैतद् ददर्श, तदा तत्क्षणं स्ववर्णकं परिवर्तयामास । - सर्वे शिरोऽवनमयामासुः, पश्चाच्च जग्मुः । मयूरासनमतिः सकृत् पुनः शिरो भी नमयामास, किञ्चित् प्रजल्प्योच्चैरुवाद - ‘का, विश्वज्योतिः, त्वमत्र कथम् ?' विश्वज्योतिः 'मयूरः, त्वमत्र कथम् ?' मयूरः . (प्रत्यावृत्य स्वपुत्रं प्रत्यवलोक्य) 'वत्स ! प्रतीयते राजदुहितुश्चित्तं किमपि विकृतमस्ति, अन्यथाऽनया निर्लज्जतयाऽत्र नाऽऽगच्छेत् । इयं त्वया रक्ष्या। विश्वज्योतिः 'मयूरस्य च मतेः किमभूत्, यः स्वजनकेन साकं धृष्टतया व्यवजहार...।' एतावदेवाऽभिहिते तयाऽधुनैव राजपुत्रस्त्वरितं तत्करात् कट्टारं - निष्कामयामास, जगाद च-'अहं विनयेन वदामि यद् भवती प्रासादं प्रविशतु, नो चेत्.....' इदमवलोक्य विश्वज्योतिरात्मनो न प्रबभूव । नारीसुलभस्य वीर्यस्याऽस्त्रस्य च, क्रन्दनस्य नयनोदकस्य च प्रयोगः तया व्यधायि, अतीव दीनतया मयूरमुवाद- - hdhhhhhhhhhhhhhh Page #78 -------------------------------------------------------------------------- ________________ D. किं मयूर ! त्वयि कापि दया न वर्तते ?' D. मयूरेणोदितम् - 'दया कथं न राजसुते ! विश्वरक्षको यथा तव भ्राताऽभूत्, तथैवाऽहमपि तु भ्रातैवाऽभूवं, तर्हि कथं पक्षपात: ?' K- विश्वज्योतिः 'स तु पितुः नृपासनं नैवाऽपहर्तुमियेष, तस्याऽऽदेशेन शासनस्य - कार्य सम्पादयामास ।' मयूरः 'तहि किमहं तत्कार्यं कर्तुं न शक्नोमि ? आम् , अलं विवादेन । राजसुता प्रासादं यातु ।' K विश्वज्योतिः कातरदृष्ट्या मूच्छितं वृद्धं पितरं पश्यन्ती राजसुतावेदिते मार्गे जगाम । (३) यमुनातटे एकस्मिन् प्रासादे विश्वेशः पर्यङ्के निषण्णोऽस्ति, विश्वज्योतिश्च । - तच्छिरोधाने उपविष्टा । "त्वं कुत्र वस्तुं वाञ्छसि' इति मयूरेण यदा पृष्टा, तदा तया केवलं हतभाग्येन वृद्धेन च स्वपित्रा सार्धं वासः स्वीकृत, इदानीञ्च सा साधारणदासीवेशे । स्वजीवनं हतभाग्यस्य पितुः सपर्यायां यापयति । साम्प्रतं तच्छरीरे तानि भासुराणि राजकीयानि नृत्यवस्त्राणि न दृश्यन्ते, केवलं श्वेतवस्त्राण्येव प्रशान्तस्य तस्य मुखस्य शोभां वर्धयन्ति । तं राजप्रासादं न D परित एका शान्तिर्दृश्यते । विश्वज्योतिर्यत् किमपि वस्तु तस्या अभूत्, तत्सर्वं । दीनेभ्यः प्रददौ, बहुमूल्यान् च स्वालङ्कारानपि सा न परिदधौ । इदानीं सैका तपस्विन्यृषिकन्येव बभूव । क्षणे क्षणे सा दासी ऽधिक्षिपति । तस्या आवासे केवलमावश्यकवस्तूनि विहाय किमपि चाऽन्यद् नाऽऽसीत् ।। वृद्धो विश्वेशो निषण्ण एव नेत्रे उन्मील्य जगाद्- 'वत्से ! इदानीं किमप्यौषधं नाऽपेक्ष्यते, औषधं चेश्वरस्मृतिरेव । साम्प्रतं त्वयैतदर्थं न प्रयतितव्यम् ।' - विश्वज्योती रुदित्वोवाद - 'यावच्छरीरमस्ति, तावत्तद्रक्षणीयम् ।' __ विश्वेशः किमप्यनुक्त्वा तूष्णीं निषसाद । किञ्चित् कालं यावद् विश्वज्योतिः । । तस्थौ; तत उत्तस्थौ, औषधस्य काचकूपीश्च यमुनाजले प्रचिक्षेप । ___ किञ्चित् कालपर्यन्तं सा तत्रैव सीदन्ती यमुनाया मन्दं प्रवाहं पश्यति । सा र ६७ Page #79 -------------------------------------------------------------------------- ________________ - चिन्तयामास- यथैव यमुनाप्रवाहोऽस्ति, तथैव मुगलसाम्राज्यमपि; स विश्वेशोऽपि । R जीवति, किन्तु राजसिंहासने नोपविशति ।। अस्मिन् चिन्तने सा तावत्तस्थौ, यावच्चन्द्रकिरणास्तन्मुखे न पेतुः । । (४) राजपुत्री विश्वज्योतिस्तपस्विनी बभूव । तस्या हृदये तन्नैसर्गिकं तेजोऽधुना - D नैवाऽभूत्, किन्त्वेकेन दिव्येन तेजसा सा दीप्यते । तस्या औदार्य पूर्वतोऽपि ववृधे। . दीनात्तैः सार्धं तस्या एतादृशी सहानुभूतिर्बभूव यज्जनाः 'मूर्तिमती करुणा' इति । ताममन्यन्त । तस्या अनया गत्या पाषाणहृदयो मयूरोऽपि विचचाल । तस्याः । स्वातन्त्र्यं यत् परिहृतं बभूव, तत् सा पुनर्लेभे। किन्तु साम्प्रतं स्वातन्त्र्यस्योपभोगायाऽवसर एव कुत्र बभूव ? पितुः सपर्यायाः कष्टाश्रितान् प्रति च सहानुभूतेस्तस्या कालो नाऽवाशेषि । यस्याः सेवायां दासीनां शतानि करौ बद्ध्वा R तस्थुः, सा स्वयं दासीव स्वपितरं सेवमाना जीवनं यापयामास । वृद्धस्य विश्वेशस्य र सङ्केते सा तमुत्थाप्योपवेशयति, कदाचित् कदाचिच्चाऽवलम्ब्य यमुनातटं यावत्तं नयति, तन्मनः प्रसादयन्ती छायेव भवति । वृद्धो विश्वेशः परलोकं जगाम । इदानीं विश्वज्योतिषः कृते किमपि कृत्यं नत्र न विद्यते। केवलमितस्ततः तस्मिन् प्रासादे विचरणमपि शोभनं न प्रतीयते । । तस्याः पूर्वस्मृतिस्तां भूयोऽपि सन्तापयति । शनैः शनैः साऽतीव क्षीणा बभूव, रुग्णाऽभूत्, किन्त्वौषधं न जग्राह । शनैः शनैस्तस्या रुग्णता वृद्धि याता, स्थितिश्च शोचनीया जाता, तदा मयूरः शुश्राव । सोऽपि सोढुं न शशाक । स विश्वज्योतिषं द्रष्टुं जगाम । प्राक्तने पर्यङ्के, जीर्णे प्रस्तरे विश्वज्योतिर्निषण्णाऽभूत्, केवलमेकं मन्दं • श्वसिति स्म। मयूरेणाऽवलोकितम् - सा विश्वज्योतिः, यस्याः कृते भारतस्य किमपि वस्त्वलभ्यं न बभूव, रुग्णायां यस्यां विश्वेशो व्यग्र एव भवति स्म, . परःशता वैद्याः तदारोग्यार्थमुटुक्ताश्च भवन्ति । सा विश्वज्योतिरेकस्मिन् कोणे K स्थिताऽऽसीत् । पाषाणोऽपि द्रुद्राव, मयूरस्य नेत्रे जलपूर्णे सञ्जाते, स जानुनोपविवेश । वदनं समीपं नीत्वोवाद - 'भगिनि ! मदर्थमपि कोऽप्यादेशः ?' Ahhhhhhhhhhhhhhhhhkk ६८ Page #80 -------------------------------------------------------------------------- ________________ विश्वज्योतिः स्वलोचने उन्मिमेल, एकं पत्रकं तत्करे निदधौ, यद् विनतेन - मयूरेणाऽङ्गीकृतम् । पुनश्च पृष्टम् - 'भगिनि, अपि त्वं मां क्षमिष्यति ?' विश्वज्योतिरुन्मीलिताभ्यां लोचनाभ्यां गगनमनुददर्श । तदानीं ताभ्यामेकं - दिव्यं ज्योतिः निःसरति स्म, सा तद्वदेव पश्यन्ती बभूव । मयूर उत्तस्थौ, सोऽश्रूणि प्रमार्जयन् पत्रकं पपाठ। तत्र लिखितमासीत् - 'शादं विहाय कोऽपि मम समाधिस्थलं न परिदधातु, हि तृणान्येव केवलमस्माकं दीनानां समाधिस्थानामाच्छादनानि भवन्ति ।' TTTTTTTTTTTTTTTTTY शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा परेषां संसर्गान खलु गुण-दोषौ प्रभवतः । अपांपत्युर्मध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् ।। (नलविलासनाटके) ६९ Page #81 -------------------------------------------------------------------------- ________________ बन्यथा महाभारते परशुरामस्य पितृभक्तिः डॉ. रूपनारायणपाण्डेयः व्यासप्रणीते महाभारते भगवतः परशुरामस्य चरितं विस्तरेण वर्ण्यते।। |_तस्य पितृभक्तिः सुविदिताऽस्ति । अत्र सा महाभारतमाश्रित्य सङ्क्षपेण प्रस्तूयते। । भार्गवो जमदग्निः (द्र.- ऋग्वेदः ३/६२, ८/१०१, ९/६५, १०/११०, १०/१६७) वेदाध्ययने रतस्तपसा देवान् वशमानयत् । स राजानं प्रसेनजितमधिगम्य तत्पुत्री रेणुकां वरयामास । नृपस्तस्मै तां ददौ । रेणुकायां जमदग्नेः पञ्च पुत्रा जाताः, तेषु रामः पञ्चमो बभूव । कदाचिद् रेणुका स्नातुं गता । नद्यां सभार्य क्रीडन्तं चित्ररथं विलोक्य सा तस्मिन् अनुरक्ता बभूव । तस्या मानसं भावं विज्ञाय महर्षिस्तस्या वधाय पुत्रान् आदिदेश । तस्य चत्वारः पुत्रास्तदाज्ञापालने शक्ता न बभूवुः । ततो महातपाः परशुराममुवाच - 'इमां पापां मातरं जहि ।' परशुरामः परशुमादाय मातुः शिरो जहार । तदनन्तरं महात्मनो जमदग्नेः क्रोध उपशान्तः । प्रसन्नः स परशुराममुवाद'तात ! मम वचनात् त्वया दुष्करमिदं कर्म कृतम् । धर्मज्ञ ! कामान् वृणुष्व, ये तव मनसि वर्तन्ते।' परशुरामोऽवदत् - 'पितृपाद ! मम माता जीवतु । तस्या मनसि मम वधस्य स्मृतिर्न स्यात् । सा मानसपापात् सर्वथा विमुक्ता भवतु । मम चत्वारो भ्रातरः स्वस्था भवन्तु । युद्धे मम कोऽपि प्रतिद्वन्द्वी न भवतु, अहं च दीर्घमायुः 4 प्राप्नुयाम् ।' महर्षिर्जमदग्निस्तस्य सर्वान् कामान् पूरयामास । एकदा कार्तवीर्यः समागत्य महर्षे)मधेनुवत्सं बलाज्जहार, आश्रमस्थान महाद्रुमान् च बभञ्ज । परशुरामाय तत्पिता सर्वं कार्तवीर्यदुराचारं निवेदयामास । रोरुदती होमधेनुं विषण्णं च पितरमवलोक्य कुद्धो रामः कार्तवीर्यम् उपाद्रुवत् । स युधि निशितैर्बाणैस्तस्य सहस्रसम्मितान् बाहून् चिच्छेद । सहस्रबाहोः सुताः परशुरामं विनाऽऽ श्रमं विलोक्य महर्षि जमदग्नि शरैर्जघ्नुः । मृत्युवशं पितरं दृष्ट्वा परशुरामोऽतीव विललाप । स उवाच ७० Page #82 -------------------------------------------------------------------------- ________________ N "किं तु तैर्न कृतं पापं यैर्भवान् तपसि स्थितः । अयुद्ध्यमानो वृद्धः सन् हतः शरशतैः शितैः ॥" __ (महा., आदि० १०७/३) ___एवं सकरुणं बहु विलप्य स पितुः प्रेतकार्याणि चक्रे, सर्वक्षत्रस्य वधं च प्रतिजज्ञे । स शस्त्रमादाय कार्तवीर्यस्य सुतान् हतवान् । ये ये क्षत्रियाः कार्तवीर्यस्य सुतानां साहाय्यं चक्रुः, तेऽपि तेन हताः । एवं त्रिसप्तकृत्वः पृथिवीं क्षत्रियरहितां कृत्वा समन्तपञ्चके तेषां रक्तेन पितॄन् तर्पयामास । ततो यज्ञं सम्पाद्य महीमृत्विग्भ्यः स ददौ । परशुरामस्य पितृभक्तिरपूर्वाऽस्ति । आतङ्कवादस्य निवारणायाऽद्य तादृशाः NA पुत्रा अपेक्ष्यन्ते । जयतु परशुरामः । K आत्मन्यपत्य-दारेषु प्राणेषु विभवेषु च । इतो नृपः इतो रङ्कस्तुल्या प्रीतियोरपि ॥ (नलविलासनाटके) ७१ Page #83 -------------------------------------------------------------------------- ________________ - राजाश्चाः अहं विश्वम्भरा मुनिधर्मकीर्तिविजयः RAN पात्राणिमनमोहनः वसन्तः तिलका मन्दा जयन्तः दीपिका मेघना आङ्ग्लवैद्यः पिता पुत्रः पुत्रवधूः सखी मित्रम् मित्रपत्नी मित्रपुत्री । ७२ Page #84 -------------------------------------------------------------------------- ________________ (दृश्यं - १ ) (अभ्रंलिहो रमणीय एकः प्रासादोऽस्ति । तत्प्रासादस्य सर्वा अपि भित्तयो रमणीयचित्रैः सुशोभितास्सन्ति । तत्र नितरां सुखमनुभवन्तौ दम्पती वसतः । एकदैकस्मिन्नपवरके प्रेमालापं कुर्वन्तावुपविष्टौ आस्ताम् ।) तिलका प्रिय ! काऽन्या मादृशी भाग्यवती ? वसन्तः कथम् ? तिलका यत्त्वादृशो भर्ता मया प्राप्तः । वसन्तः अहो ! एवं त्वहमपि भाग्यवानेव खलु ? तिलका सत्यम् । तथाऽपि प्रिय ! स्त्रियाः कृते एष विषयश्चिन्तनीयोऽस्ति । यतः पत्न्या इच्छामनिच्छां सुखं दुःखं चेत्यादिकं विचिन्त्य व्यवहरन् भर्ता दुर्लभोऽस्ति । वसन्तः (ससङ्कोचं) प्रिये ! परस्परमनुकूलीभूय व्यवहरणमेव दाम्पत्यजीवनस्य साफल्यस्य प्रधानं कारणमस्ति । किन्तु स्वार्थीभूय एव यदि व्यवह्रियते तर्हि समस्तमपि जीवनं क्लेशमयं भवति । एतेन न केवलं स्त्री वा पुरुषो वाऽपि तु समग्रमपि कुटुम्बं क्लेशं दुःखं च प्राप्नोति । तिलका सत्यं सत्यम् । मया बहवो जना दृष्टाः, ये सत्स्वपि धनाद्यतनसुखसाधनेषु नितरां दुःखिनः सन्ति । प्रियतम ! यतः प्रभृत्यहमस्मिन् गृहे प्रविष्टा तावदारभ्याऽद्यपर्यन्तं 'किं नाम दुःखम्' इति न ज्ञातं मया । बाह्यवस्तुनोऽभावाद् यदुःखं जायते तदुःखं तु सह्यं क्षम्यं च भवति, किन्तु हृदयस्याऽनौदार्यं कार्पण्यं च शङ्काशीलस्वभावाविश्वासकठोरवचनादिकारणाद् यदुःखमुत्पद्यते तत्त्वसह्यमक्षम्यं च भवति । एतादृशं मलिनं वातावरणं विद्यते तदृहं श्मशानमिव तथा रूप्यकाणां कोटिरपि रज इवाऽऽभाति । (पत्युरङ्के वदनं संस्थाप्य रुदती) प्रिय ! तव माया केवलं सुखमेवाऽनुभूतम् । अत एव कथयामि - काऽन्या मादृशी भाग्यवती ? वसन्तः (पृष्ठौ हस्तं प्रसार्य, सबाष्पं ) तिलके! तिलके! न कदाऽप्येकेनैव हस्तेन तालिका दीयते । यथा मम स्वभावस्तथैव तवाऽपि सरलस्वभावो हृदयौदार्यं ७३ Page #85 -------------------------------------------------------------------------- ________________ कर्तव्यभानं चाऽप्येतच्छान्तेः सुखस्य च परमं कारणमस्ति । अतः.... ' तिलका मम प्रियतम !..... (द्वारे 'टक् टक्' इति ध्वनिः श्रूयते ।) तिलका कः ? (अहमिति वदन्ती मन्दा प्रविशति ।) मन्दा (सकटाक्षं) किं युवयोर्वार्तालापे प्रवेशार्हा वाऽहम् । तिलका अवश्यम्, अवश्यम् । आगच्छ, आगच्छ । वसन्तः (सहासं) न, न । मन्दा (उच्चैर्हसन्ती) यद्यागच्छेयं तर्हि किं करिष्यति भवान् ? 9 वसन्तः (हसन्) अहं बहिर्गमिष्यामि । (आसन्दं दर्शयित्वा) अनोपविशतु भवती। र युवां द्वे सख्यौ वार्तालापं कुरुताम् । अहं कार्यालयं गच्छामि । (स गच्छति ।) तिलका किं बहुकार्यव्यग्राऽसि ? येन मे गृहं नाऽऽगच्छसि ? मन्दा न, न । मम ऋत्विजो द्वादशकक्ष्यायां तथा श्वेता दशमकक्ष्यायां पठतः । १६- दिनाङ्कतो वार्षिकपरीक्षाऽऽरभ्यते । अतो बहिर्गन्तुं त्ववकाश एव नोपलभ्यते । तिलका (सगर्व) यस्य सन्ततिस्स्यात्तस्यैवैतादृशी चिन्ता स्यात् । अहं तु निर्बाधं सर्वत्र गन्तुं शक्ता । मन्दा (सोपहासं) रे ! इदानीं तु सर्वं सुन्दरं भासते । किन्तु पश्चाद् भानं भविष्यति । तिलका असत्यम् । पुत्रं विनैवाऽद्यपर्यन्तं जीवनं व्यतीतम् । न कदाऽपि मया दुःखमनुभूतम्। मन्दा यदि पुत्रो न स्यात्तर्हि वृद्धत्वे कस्ते सेवां करिष्यति ? नाऽन्यो बान्धव आगमिष्यति । अन्यच्च तदा स्वर्गसुखादप्यधिकं सुखमनुभूयते यदा पौत्र: स्वस्याऽङ्के रमते । तेषां 'लल्ल-मन्मनं' श्रोतुं न शक्यते, पुत्रं विना । तिलका (सदैन्यम्) एतत्तु भाग्याधीनमस्ति । यतः पुत्रेषु सत्स्वपि जनकः कार्य करोति, एकाकी वसति, इति मया बहुशो दृष्टम् । अतः..... ७४ Page #86 -------------------------------------------------------------------------- ________________ " मन्दा (सक्रोधं) 'दोषदर्शनं' तु मनुष्यस्वभावोऽस्ति । स स्वदृष्ट्यानुरूपमेव चिन्तयति, तदनुरूपमेवाऽन्यानपि पश्यति । (सोपहासम्) अपुत्रवती स्त्री जनेषु 'वन्ध्या' इति ख्याति प्राप्नोति । समाजे शुभप्रसङ्गे च तादृश्याः स्त्रियो मुखदर्शनमप्यशुभमपशकुनं च विभाव्यते । किं.... 59 तिलका (रुदती) मैवं वादीः..... (पटीक्षेपः) (दृश्यं - २) (दीनवदना ललाटोपरि हस्तं संस्थाप्याऽऽसन्दे तिलकाऽऽसीना ।) वसन्तः (गृहे प्रविशन्) प्रियतमे ! प्रियतमे ! कुत्र गतवती ? तिलका हुँ, हुँ। वसन्तः कथमद्य मे स्वागतार्थं सन्मुखं नाऽऽगतवती ? (हस्तं गृहीत्वा) प्रिये ! किं जातम् ? कथमुदासीनाऽसि ? (तिलका तस्याऽङ्के वदनं संस्थाप्य रोदिति ।) वसन्तः (सखेदं) किं जातम् ? किं मे गृहे दुःखमस्ति ? किं केनाऽपि एy तेऽवमाननं कृतम् ? किं गृहेऽमङ्गलं घटितम् ? तिलका (रुदती) न, न किमपि जातम् । तव सांनिध्ये केवलं सुखमेवाऽनुभूयते । _(मुखमधः कृत्वा) केवलं.... वसन्तः केवलं किम् ? वद, वद । तिलका पुत्रचि...न्ता... (उच्चै रोदिति ।) वसन्तः (सबाष्पं) प्रिये । यथा त्वं पीड्यसे तथैवाऽहमपि पीड्ये । पुत्रप्राप्त्यर्थमद्यावधि किं किं न कृतम् ? किन्तु.... तिलका. एतन्नाऽस्मदधीनम्, इति जानाम्येव । किन्त्वद्य... (तमालिङ्ग्य पुन 'रोदिति ।) वसन्तः (तस्याः केशपाशं हस्तेन विमय) सत्यं वद । अद्य किमप्यघटितं घटितमेव, अन्यथा त्वमेतादृशमाचरणं न कुर्याः । अष्टादशवर्षेष्वपि त्वयैवं न कृतम् । अतः प्रिये ! सत्यं वद । ७५ Page #87 -------------------------------------------------------------------------- ________________ तिलका मम प्रिय ! सा न स्त्री कथ्यते या पुत्रं न वाञ्छति । आराज्ञीकर्मकरी नास्ति तादृशी काऽपि स्त्री या पुत्रप्राप्त्यर्थं निरन्तरं व्याकुलतां नाऽनुभवेत्, न रुद्यात्, नेतस्ततोऽटेत्, न च प्रभुप्रार्थनां कुर्यात् । अपुत्रवत्याः स्त्रियाः कृते सुवर्णरत्नरचितप्रासादः, आभूषणानि, चीनाशुकवस्त्राणि, कोटिरूप्यकाणि, प्रतिदिनं मिष्टान्न भोजनं चैतादृश आनन्दमयः संसारोऽपि विषायते । पुत्रस्य तुलनायामेतत्सर्वमपि तुच्छं हीनं च प्रतिभासते । एतां मनोव्यथां न केवलं सोढुमपि तु ज्ञातुमपि न शक्तः पुरुषः । प्रतिदिनमसह्यामेतां मनोवेदनामनुभवाम्यहम्, अतोऽहं मनसा सम्पूर्णा भग्नाऽस्मि, तथाऽपि तव सुखार्थं शान्त्यर्थं च तुभ्यं नैतावत्कालमुक्तम् । किन्तु... अद्य.... । वसन्तः वद, निःसङ्कोचं वद, मौनं कथं प्राप्तवती ? तिलका (सबाष्पं) व्यतीतेषु वर्षेषु बहुशः परोक्षरूपेण, कदाचित् प्रत्यक्षरूपेणाऽपि 'वन्ध्या' इति मर्मभेदकमश्राव्यवचनं च श्रुतम् । तेन बहु दुःखमनुभूतं, किन्तु तवाऽमृतमयमधुरसमागमे सति तदुःखं बाष्पीभवति स्म । किन्तु, प्रिय ! द्वयोर्दिनयोर्बहुशोऽवमाननं सोढं मया । वसन्तः (सक्रोधं) केन कृतम् ? तिलका परह्यो ममताया अतीवाऽऽग्रहवशात्तस्याः पुत्रस्य विवाहमहोत्सवे गतवत्यासम् । यदाऽहं तगृहे प्रविष्टा तदैव मां दृष्ट्वा मुखं परावर्तितं तया । सर्वेऽपि गृहजना 'वन्ध्या वन्ध्या, प्रथमं कथमागता' इति परस्परं वदन्ति स्म । एतन्निशम्य लज्जिताऽहं प्रतिनिवृत्ता तथाऽपि मामाह्वयितुं नाऽऽगता काऽपि । वसन्तः (सक्रोधं) तवाऽङ्गगतसख्याऽप्येवं कृतम् ? धनस्यैतादृश उन्मादः ? अस्तु, समय एव तां बोधयिष्यति । तिलका ततो निवृत्त्य मम भगिन्या गृहे तस्याः पुत्रस्य प्रथमं मुखदर्शनार्थं गता । गवाक्षे पुत्रं गृहीत्वा स्थितवती साऽप्यागच्छन्तीं मां दृष्ट्वाऽन्तो गत्वा पुत्रं प्रेङ्खायां शायितवती । 'कुत्राऽस्ति बालः' इति पृष्टं मया तदा सोक्तवती 'स रात्रौ न स्वपिति स्म, देहो न समीचीनः । अधुनैवौषधं दत्तम् । अतस्साम्प्रतं न जागरिष्यति' । मयोक्तम्- 'तत्र गत्वाऽहं मुखं पश्येयमिति । ७६. Page #88 -------------------------------------------------------------------------- ________________ " तदा 'न, न, स जागरिष्यति, रोदिष्यति' इत्यादिकं व्याजवचनमुक्तवती। तदा ममाऽतीव खेदो जातो हृदयं च भग्नं जातम् । किं पुत्रो नास्ति, अत। एतादृशमवमाननं सहनीयं मया ? . वसन्तः (सबाष्पं) हा, हा, स्वजना अप्येवं कुर्वन्ति ? धिक् तान् । तिलका (रुदती) ततोऽप्यधिकदुःखदा घटना जाता । ह्यः प्रातःकाले मन्दिरं गतवत्यासम् । तदा मार्ग सम्मार्जनं कृतवत्यौ शूद्रस्त्रियावपि मां दृष्ट्वा मुखं परावर्त्य 'वन्ध्येयं, वन्ध्येयम्, अस्या मुखदर्शनाद् दिनमशुभं भविष्यति' इत्यवदताम् । एवं श्रुते सत्येव मनसि शूल इव तीव्राघातो लग्नः । वसन्तः (सबाष्पं) प्रिये ! किं करवाण्यहम् ? तिलका अद्य कोऽपि निर्णयः करणीय एव । (सबाष्पम्) इतः परमहमेतादृश- मवमाननं सोढुं न शक्ता ।। वसन्तः (सदैन्यं) प्रिये ! त्वं तु मे प्राणवल्लभाऽस्ति । किं न जानासि, मयैतदर्थं किं किं न कृतम् ? अष्टादशवर्षेषु जगति विद्यमानानां सर्वासामपि देवदेवीनां पूजा कृता, तत्र सङ्कल्पः कृतः, दानं दत्तम्, उपवासादिकरणेन कायः शोषितश्च । रात्रिन्दिवमविगणय्य पुत्रप्राप्त्यर्थं सर्वं कृतम् । नैकमपि स्थानमवशिष्टं यत्र न गतोऽहम् । अद्यावधि यद्धनमुपार्जितं तस्य ८०% धनमेतदर्थं व्ययीकृतम् । प्रिये ! वयं हिन्दवस्स्मस्तथाऽपि 'पीरफकीरादीनां समीपमपि गतवानहम् । तेन दत्तं मन्त्रितं जलमपि पीतम्, तेन दत्तं दवरकमपि बद्धम् । किन्तु... (सबाष्पं) मनोरथो न सफलीभूतः । प्रिये ! प्रिये ! 'सर्वं भाग्याधीनमस्ति' इत्युक्तिमनुसृत्य ससुखं यथावज्जीवनं जीव । तिलका (सक्रोधम्) आजीवनमेतदवमाननं सोढुं न शक्ताऽहम् । 'वन्ध्या' इति न, किन्तु 'सौभाग्यवती जननी' इति श्रोतुमिच्छामि । मम कृतेऽवमानाद्वरं . मरणम् । वसन्तः (सभयं सदैन्यं च) प्रिये ! किं वदसि ? (तस्या हस्तं गृहीत्वा सबाष्पं) मम किं भवेत् ? तिलका यत्किमपि स्यात् । पुत्रं विना जीवितुं नाऽहं शक्ता । यदि मे जीवितमिच्छति ७७ Page #89 -------------------------------------------------------------------------- ________________ तहि अनाथाश्रमादप्येकं बालकमानयतु । वसन्तः किं, किम् ? (स्तब्धो जातः । तन्मुखं पश्यन् तूष्णीं स्थितवान् । स्वगतं पुत्रमोहः पुत्रवाञ्छा च किं किं न कारयति ? सत्सु सुखसाधनेष्वपि स्वयमेव स्वपादोपरि कुठाराघातेन दुःखं कष्टं चाऽनुभावयति । स्वयं तु दुःखी भवत्येव, किन्त्वन्यानपि दुःखिनः करोति । मधुरसंसारमानन्दमयं जीवनं चाऽपि विषमयं क्लेशमयं च करोति । धिक् संसारं पुत्रवाञ्छां च ।) (पटीक्षेपः ।) (दृश्यं - ३) (वसन्तः कार्यालये कार्यरतोऽस्ति । तदा ट्रीन ! ट्रीन इति दूरभाषध्वनी रणति ।) वसन्तः (दूरभाषायन्त्रमुन्नीय) कः ? मनमोहनः (सदैन्यं) झटिति त्वं गृहमागच्छ । वसन्तः (सभयं) पितर् ! किं जातम् ? मनमोहनः तिलकाऽकस्मादेव मूच्छिता जाता । वसन्तः अस्तु । अधुनैवाऽहमागच्छामि । (शीघ्रं गृहं प्रविशति ।) वसन्तः (धावमानस्तिलकाया वदने हस्तं प्रसार्य) तिलके ! तिलके ! पश्य, क आगतः ? (पितरमुद्दिश्य) भवानाङ्ग्लवैद्यमाह्वयतु ।) मनमोहनः पुत्र ! स इदानीमेवाऽऽगमिष्यति । __ (वसन्तस्तिलकाया वदनं पुनः पुनः पश्यन् हस्तं प्रसारयति । तदा तेनोपधानस्य समीपे पतितमेकं पत्रं दृष्टम् । तद् गृहीत्वा पठति ।) मम प्राणवल्लभ ! हृदयङ्गम ! वसन्त ! का स्त्री मूर्खा स्याद्या त्वादृशस्य पत्युर्मधुरं सांनिध्यं प्राप्याऽपि मरणमिच्छेत् ? 'आदर्शपतिः कीदृशस्स्यात्', इत्यत्र त्वमेवोदाहरणम् । अद्यावधि मया न कदाऽपि दुःखमनुभूतं, नितरां सुखमेवाऽनुभूतम् , किन्तु भाग्यवशान्मे गृहे ra ७८ Page #90 -------------------------------------------------------------------------- ________________ 2 पुत्रो न जातः । तदा लोकैर्ममाऽवमाननं कृतं, मर्मवचनैर्मे हृदयं विद्धम् । तत एतादृशसमाजे इतः परं जीवितुं न शक्ताऽहम् । समाजस्य कठोरनीतेर्वशादेवाऽद्य विषं पिबामि । मृत्युद्वारेणाऽहं जनान् कथयितुमिच्छामि- 'पुत्रजन्म भाग्याधीनमस्ति । पुरुषस्य स्त्रियो वा शारीरिकवैकल्यात् कदाचित् प्रसूतिर्नाऽपि स्यात्, किन्तु तन्मात्रेणैव न सा स्त्री निन्दनीयाऽदर्शनीया वा भवति । समाजस्यैतादृशङ्करनीतिवशाद् मादृश्यो बढ्यः स्त्रियो मरणमेव शरणं कुर्वन्ति' इति । प्रिय ! यदि ममोपरि दृढानुरागस्स्यात्तर्हि त्वया शोको न करणीयः किन्तु समाजस्यैतादृशीं दुष्टनीतिमपाका जीवनपर्यन्तं प्रयत्नः करणीयः । एवं कृत्वा मादृशीनामनेकानां स्त्रीणां जीवनं रक्षणीयम् । आगामिनि जन्मनि ते मेलनमवश्यं भवेदित्याशया त्वामेव स्मरन्ती विषं पिबामि। ... तव प्रिया तिलका। पत्रं विमद्य तिलकाया वक्षस्स्थले मस्तकमारोप्योच्चै रोदिति ।) वसन्तः (सबाष्पं) प्रिये ! प्रिये ! किं... किं कृतम् ? किं मया.... मनमोहनः (सभयं साश्चर्यं च) पुत्र ! किं लिखितम् ? कथं रोदिषि ? (तदैवाऽऽङ्ग्लवैद्यः प्रविशति । निरीक्षणं कृत्वा विषापहरं सूच्यौषधं दत्तवान् तथैवाऽन्योपचारं करोत्याङ्ग्लवैद्यः ।) वसन्तः भो ! वैद्यराज ! किमेषा जीविष्यति किल ? आङ्ग्लवैद्यः अवश्यम् ? कियत्कालं सावधानेन वर्तितव्यम्, तथा यथावसरमौषधं देयम् । वसन्तः भवता महानुपकारः कृतः । आङ्ग्लवैद्यः न, न, एतत्तु मे कर्तव्यमस्ति । अस्तु, गच्छामि । श्व आगमिष्यामि। मनमोहनः (सदैन्यं) पुत्र ! किमर्थमेतयैवं कृतम् ? किं कलहो जातः ? वसन्तः न । (पत्रं दत्त्वा ) पठतु । मनमोहनः (पठित्वा) हा, हा, पुत्रचिन्तयैवं कृतम् ! ७९ Page #91 -------------------------------------------------------------------------- ________________ १ वसन्तः (सदैन्यं) पितः ! यद्भूतं तन्न स्मरणीयं, किन्त्वितः परं किं करणीयं तदेव चिन्तनीयमस्ति, यतो यदैषा स्वस्था भविष्यति तदा पुनरेष प्रश्न उपस्थितो भविष्यति । मनमोहनः (किञ्चिद्विचार्य) दत्तकपुत्रः स्वीकरणीयः । वसन्तः (पितुर्मुखं पश्यन्) अशक्यम् । यत्किमपि स्यात् किन्तु कदाऽप्येतत्कार्य न करिष्यामि। मनमोहनः मा त्वरिष्ठाः । किञ्चिद् विचारयतु । प्रश्नो गम्भीरोऽस्ति । न केवलं पुत्रस्य, अपि त्वस्या जीवनस्य प्रश्नोऽस्ति । वसन्तः (सक्रोध) किं पुत्रविहीनो जनो दुर्भागी निन्दनीयोऽदर्शनीयश्च कथ्यते ? पुत्रस्स्यान्न वा तेन जीवने का बाधा ? पुत्रशून्योऽप्यहं सुखेन जीवामि, निद्राम्यद्मि च। १ मनमोहनः सत्यम् । पुत्रो न सुखमानन्दं स्वर्ग वा ददात्येव । पञ्चसु पुत्रेषु सत्स्वपि जनक एकाकी वसति, कदाचिद् वृद्धाश्रमेऽपि गच्छति च । मृत्युकाले नैकोऽपि पुत्र उपस्थितो भवति, तदा स पिता निःश्वसिति- मम कुले यद्यश्मानस्समजनिष्यन्त तदेव वरमभविष्यत्, अलं पुत्रैः, इति । पुत्र ! एतत्सर्वं जानामि, किन्तु.... वसन्तः तर्हि कथं पुत्राग्रहः ? Y. मनमोहनः (सबाष्पं) पुत्र ! किं कथयानि ? किं मया वार्धक्येऽपि 'पुत्रचिन्तया तिलका यत्किमपि करोति वदति च' इत्येतादृशं द्रष्टव्यम् ! वसन्तः (सबाष्पं) पितः ! मैवं वादीः । (पटीक्षेपः) ܫܫܫܫܫܳܬ݂fit (दृश्यं - ४) (तिलका पल्यङ्के सुप्ताऽस्ति । वसन्तो दत्तकपुत्रस्स्वीकरणीयो न वेति चिन्तयन्नितस्ततोऽटति । तस्य हस्ते वृत्तपत्रमस्ति ।) वसन्तः (वृत्तपत्रं पठन् सदैन्यं) पितः! गोधरानगरे दुर्घटना जाता । एकस्यैव कुटुम्बस्य द्वौ बालकौ विहाय सर्वेऽपि जना मृताः । ८० Page #92 -------------------------------------------------------------------------- ________________ |asanaanaananas मनमोहनः (सखेदं) हा, हा, प्रतिदिनमेतादृशी दुर्घटना घटते । बहवो जना म्रियन्ते। किन्त्वद्य त्वश्राव्यं घटितम् । द्विवर्षीयौ बालकौ विहाय सर्वेऽपि मृताः । एताभ्यां बालकाभ्यां किमपराद्धम् ? येनैतादृशि लघुवयस्येव मातापितभ्यां वियोगो जातः ? (गद्दस्वरेण) तयोः पालनं कः करिष्यति ! ('ट्रीन, ट्रीन' इति दूरभाषध्वनिः श्रूयते ।) वसन्तः कः ? जयन्तः अहं, नमस्ते । वसन्तः नमस्ते । कुशलं वर्तते ? जयन्तः न, न । गोधरानगरे दुर्घटना जाता । किं त्वया वृत्तपत्रं पठितम् ? तत्रैको निकटस्वजन आसीत् । आपत्काले स एव मे साहाय्यं करोति स्म । स एव पन्या सह मृतः । तस्य द्वौ बालकौ विहाय सर्वे स्नेहिजना ) अपि मृताः । वसन्तः (सखेदं) तयोर्द्वयोर्बालकयोः किं भविष्यति ? जयन्तः तत्र गत्वा मया द्वौ बालकौ मद्गृहे एवाऽऽनीतौ । अहमेव तयोः पालनं करिष्यामि। वसन्तः किमहं तयोः पालनं कर्तुं शक्नोमि ? जयन्तः किं ? स्पष्टं वद । वसन्तः मम पुत्रो नास्ति । (ससङ्कोचम्) अतोऽहं तौ बालकौ दत्तकरूपेण स्वीकर्तुमिच्छामि। जयन्तः (क्षणं विचिन्त्य) यथा बालकयोः पिता मत्सखा तथैव त्वमपि मत्सखाऽसि । अतो यदि त्वं तयोरुत्तरदायित्वं स्वीकुर्यास्तहि मे न ... काऽपि चिन्ताऽस्ति । किन्तु.... वसन्तः- 'किन्तु' किम् ? निःसङ्कोचं वद । जयन्तः (सबाष्पं) तौ मत्पुत्रसमौ स्तः । अतः.... वसन्तः मित्र ! चिन्तां मा कुरु । "अद्याऽऽरभ्यैतौ मत्पुत्रौ" इति शपथं । गृह्णामि । जीवनपर्यन्तं मे प्राणवत्तयोः पालनं करिष्यामि । FFERHITH ८१ Page #93 -------------------------------------------------------------------------- ________________ ܐܳܪܰܓ݂ܪܰܓ݂ܪܰܓ݂ܪܰܓ݂ जयन्तः। अस्तु । वसन्तः इदानीमेव तव गृहे आगच्छामि । (दूरभाषायन्त्रं मुक्त्वा समीपस्थितस्य पितुः पादयोः पतितः ।) पितर् ! अद्य भगवतः कृपाऽस्माकमुपरि सञ्जाता । तेन द्वौ पुत्रौ दत्तौ। मनमोहनः (सहर्ष) मया सर्वमपि श्रुतम् । अधुनैव गच्छ, मा विलम्बस्व । (वसन्तस्तिलकाया वदनं वीक्ष्य गच्छति । क्षणेनैव 'कार' यानेन मित्रगृहं गच्छति प्रविशति च । तदा जयन्तो दीपिका मेघना चेति सर्वेऽपि चिन्तामग्ना आसीनास्सन्ति । वसन्तं दृष्ट्वा) जयन्तः आगच्छ । आगच्छ । (आसन्दं दर्शयित्वा) उपविश । वसन्तः (सरभसं) बालकौ कुत्र स्तः ? जयन्तः (शयनखण्डं प्रविश्य) अत्राऽऽगच्छ, पश्य । वसन्तः (सुप्तौ तौ निरीक्ष्याऽतिप्रसन्नतामनुभवन्) पुत्र ! पुत्र ! (इति वदन् चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । नयनाभ्यां हर्षोद्रेकादश्रुधारा प्रवहति ।) जयन्तः मित्र ! मित्र ! बन्धो ! एतौ नयामि । मित्र ! पुत्रवत् पा..ल...नीयौ । (रोदिति) वसन्तः (सहर्षम्) अवश्यम् । (कोमलहस्ताभ्यां गृहीत्वा बहिर्गच्छति, तदैव मेघना धावमानाऽऽगतवती ।) मेघना . पितः ! भ्रातरौ कुत्र गच्छतः । जयन्तः (सग्लानि) न, कुत्राऽपि न, अत्रैव स्तः । मेघना (वसन्तस्य वस्त्रमाकृष्य) पितृव्य ! मम भ्रातरौ कुत्र नयति ? (रुदती) मम भ्रातरौ मुञ्चतु, मुञ्चतु । वसन्तः पुत्रि ! मम.......(रोदिति) जयन्तः (सबाष्पं) पुत्रि ! एतौ तयोर्मातृगृहं गच्छतः । मेघना किं तयोः पितरौ अन्यत्र वसतः ? १ वसन ८२ Page #94 -------------------------------------------------------------------------- ________________ जयन्तः (रुदन्) आम् । मेघना पितर् ! कथं भवान् रोदिति ? दीपिका (सबाष्पं) पुत्रि ! भगवतामस्माकमुपरि कृपा नास्ति, यद् भाग्यवशाद् लब्धावपि बालकावन्यत्र गच्छतः । वसन्तः मेघना जयन्तः वसन्तः (गृहं प्रविश्य, सानन्दं धावमानः) पितर् ! पितर् !... मनमोहनः किम् ? किम् ? वसन्तः पश्यतु, पश्यतु । (सहर्षम् ) अद्य भगवता महानुपकारः कृतः । (मनमोहनस्तौ गृहीत्वा चुम्बति, आलिङ्गति च । सहसैवाऽश्रुबिन्दुः पतति । पश्चाद् वसन्तस्तौ बालकौ नीत्वा सहर्षं प्रसुप्तायास्तिलकाया द्वयोः पार्श्वयोर्मुञ्चति ।) (मेघनामालिङ्ग्य) पुत्रि ! त्वमपि मया सहाऽऽगच्छ । (रुदती) न, न । मम भ्रातरौ मुञ्चतु । (मेघनामालिङ्ग्य, सबाष्पं) मित्र ! यथावसरं तौ नीत्वाऽत्राऽऽगमनीयं त्वया । (वसन्तस्तौ नीत्वा गच्छति । तदा जयन्तो दीपिका च रोदितः, मेघना तु 'भ्रात:, भ्रातर्' इत्युच्चैराराटिं कुर्वन्ती रोदिति । ) तिलका (मृदुस्पर्शमनुभूय) किम् ? एतत् किम् ? वसन्त ! प्रिय ! वसन्तः (सानन्दं) किम् ? तिलका (बालकौ दृष्ट्वा ) कस्यैतौ ? वसन्तः (सहर्ष) तव पुत्रौ ! तिलका (साश्चर्यं ) किं... किं... मम पुत्रौ ! कथम् ? वसन्तः भगवता दत्तौ । तिलका (सबाष्पं) किं सत्यमेतद् ? (तौ चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । क्षणं हस्तं पादं नेत्रं वदनं कर्णं च निरीक्षते चुम्बति च तदा सहसैव हर्षावेशान्नयनाभ्यामश्रुधारा प्रवहति ।) प्रिये ! तिलके! म...म... वसन्तः ८३ Page #95 -------------------------------------------------------------------------- ________________ तिलका (सहर्षं द्वाभ्यां हस्ताभ्यां बालको उन्नीय) अहं विश्वम्भरा, न तु CH वन्ध्या। इतः परं मम कृते सर्वेऽपि बालकाः पुत्रतुल्यास्सन्ति । वन्ध्यत्वमपि भगवतः कृपाऽस्ति । तत्कृपयैवाऽहं विश्वम्भरा जाता । " यदि मम गृहे बालोऽभविष्यत्तदा मे सर्वमपि वात्सल्यं तस्योपर्येव स्थिरमभविष्यत्, अन्यं बालकं निरीक्ष्य मे चित्ते द्वेषादयोऽप्युदभविष्यन् । धरा सर्वानपि पालयति । तस्याः कृते 'एतन्मम-एतत्तवे'ति भेदो नास्ति, सर्वमपि स्वकीयमस्ति, अतो यथा सा धरा विश्वंभरा कथ्यते तथैवाऽहमपि विश्वम्भराऽस्मि । एतत्सौभाग्यमवाप्तुं न समर्थास्सर्वा अपि स्त्रियः, केवलमहमेव । मादृशी भाग्यवती पुण्यवती च न काऽपि स्त्री विद्यते । पितर् ! पितर् !... वसन्त !... वसन्त !... (सबाष्पम्) अहं विश्वम्भरा, अहं विश्वम्भरा । (पटीक्षेपः) ܓܟܟܟܓܬܬܟܠܝܓܟܠܪܓܝ RANNARRA ८४ Page #96 -------------------------------------------------------------------------- ________________ १. २. ३. ४. रङ्गमशः क्रीतानन्दम् प्रा. अभिराजराजेन्द्रमिश्रः पात्राणि सोमः (नगरनिगमाधिकारी) मङ्गलः (कश्चिन्नागरिकः) महिला सम्मर्दादन्यतमः सम्मर्दादपरः ५. ६. ७. ८. कृपानाथः पुलिसाधीक्षक: ९. पति: गिरिधरः ८५ Page #97 -------------------------------------------------------------------------- ________________ xekKoxeKKR NAKoxehKxeek XOXKR Heag क्रीतानन्दम् प्रातःकाले दशवादने महानगरशृङ्गाटके विशालजनसम्मर्दोऽवलोक्यते । कार्यालयं जिगमिषवः प्रायः सर्वेऽपि जनास्तत्रैव पुञ्जीभूताः ।। सोमः (सोत्कण्ठम्) भ्रातः किं जातम् ! किमर्थमियान् सम्मर्दः ? मङ्गलः (सोद्वेगम्) कश्चिन्मृतः । तत्पत्नी करुणं विलपति, तदन्त्येष्टिं सम्पादयितुं साहाय्यशुल्कं च प्रयाचते । सोमः कुतस्त्य आसीदयं जनः ? किञ्चिज् ज्ञातं न वा? हिन्दुरस्ति मुस्लिमो वा? है मङ्गलः (विहस्य) बन्धो ! सर्वमहमेव भणिष्यामि चेत्त्वदर्थं किमवशेक्ष्यति ? गच्छ तावत् । निर्भरं ज्ञातुं यतस्व । (इति शनैः प्रतिष्ठते) हुँ : विक्षिप्तोऽयं प्रतिभाति । मुखोद्धाटनेऽपि कष्टमनुभवति । यदा स्वयं क्वचिन्निर्जने मरिष्यति तदा ज्ञास्यति । (आत्मगतम्) विक्षिप्तोऽहमपि यदेवं भणामि । अरे यदि मरिष्यत्येव तदा किं ज्ञास्यति ! मृते सति कोऽवकाशो ज्ञानस्याऽनुभवस्य वा ? (इति मन्दं हसति) भवतु, स्वयमेव गत्वा पश्यामि किं घटितमत्र ? (सम्मर्दमतिकाम्यन् घटनास्थलमुपैति । विलपन्तीं महिला पश्यति) महिला (क्रन्दन्ती) आह रे दैव ! सम्प्रति क्व यामि ? कं साहाय्यं याचे । हा नाथ ! मामेकाकिनी विहाय क्व प्रद्रुतोऽसि ? ५१ सोमः भोः कथमयं मृतः ? (इति पृष्ट्वैव स्वमूर्खतामनुभवन्) सोमः MOOK 9.Kin HOMOK MEROK - ८६ Page #98 -------------------------------------------------------------------------- ________________ oXeroMOM कश्चिदसाध्यरोग आसीत् ? अन्यत् कारणं वा इत्यहं पृच्छामि । Fx महिला अये भद्र ! मृत्योरपि किमपि कारणं भवति ? अवसरे समुपस्थिते । एव सर्वोऽपि म्रियते । सोमः युक्तमाह भवती । कुतस्समागताऽसि ? महिला राजस्थानेऽलवरनाम नगरं श्रुतं न वा ? तत एवाऽऽगताऽस्मि । सोमः किं तव सहयायिनो न वर्तन्ते ? सम्मर्दादन्यतमः भोः किमेवं निरर्थकं पृच्छसि ? पत्युर्मरणात्स्फुटितहृदयां वराकी पर महिलां समधिकतरं क्लेशयसि ! यदि दातुमिच्छसि किञ्चित् तर्हि । दत्त्वा स्वमार्गमवलम्बस्व । ॐ सोमः बन्धो ! कथमेवं दुर्मनायसे ? अहं प्रयोजनवशादेव सञ्चिनोमि ॐ समाचारसूत्राणि । पश्य, महिलेयं महाजनगृहोत्पन्ना प्रतीयते वेषभूषाभिरलङ्करणैश्च । नेयं यायावरभिक्षुकी ! अहमस्मि नगरनिगमस्याऽधिकारी । अत एवाऽस्य परिचयसूत्रं विज्ञाय नगरनिगमपक्षतोऽस्य दाहसंस्कारप्रबन्धं कारयिष्यामि । ६२ सम्मादपरः साधु साधु ! साधु चिन्तितं भवता । * सोमः भो ! इदमस्माकं कर्तव्यम् । राजस्थानादागतोऽयं जनो निश्चप्रच- ** मस्माकमतिथिरेव । स यदि दुर्भाग्यवशादिहैव पञ्चत्वं गतस्तहि से अस्माभिरेवाऽस्या महिलायाः सहायैर्भवितव्यम् । (महिला प्रति) तद् भगिनि ! अलं चिन्तया । सोऽहं साहाय्यं करिष्ये । नाऽसि र त्वमेकाकिनी। किं तव पत्यु म ? महिला (वार्तालापं श्रुत्वा भीतभीता सती, आत्मगतम्) हा धातः ! (किमिदानीं भविष्यति ? नित्यसफलेयं धनार्जनयोजनाऽद्य विफलायते । पति मृतमुद्घोष्य, अमृताञ्जनमहिम्नाऽ श्रूणि च निपात्य भूल प्रायेणाऽर्धहोरायामेव पञ्चाशद्रूप्यकाणि प्रसह्य स्वायत्तीकरोमि । ६ यद्ययमधिकारी समधिकपृच्छां विधास्यति तर्हि सकलमपि षड्यन्त्रमुद्घाटितं स्यात् । तदेवं कथयिष्यामि) (प्रकाशम्) GKOMXNXGXDXNXGXXNXGXOXNXXHDKA X MLO XeKOK MeMOKSxe. ८७ Page #99 -------------------------------------------------------------------------- ________________ सोमः resoKdxeNOK भो ! अस्माकं समाजे न पत्न्यः पत्युर्नाम स्वमुखेनोच्चारयन्ति । १४ (सादरम्) आं ज्ञातम् ! इयं परम्परा तु वाराणस्यामत्राऽपि वर्तते । भवतु, मां प्रतीक्षस्व । अहं सत्वरं कार्यालयमुपेत्य, सर्वामप्यौपचारिकता प्रपूर्य नगरनिगमभिषजा सहैव सवाहनमागच्छामि । दाहसंस्कारात्प्राक् मृत्युप्रमाणपत्रमनिवार्यम् । तत्सर्वं नगरनिगमभिषजा क्षणेनैव । सम्पत्स्यते। अलं क्रन्दनेन । अहमागत एव । (इति प्रतिष्ठते) महिला (सर्वान् सम्बोधयन्ती) हे भ्रातरः ! किमेवं पश्यथ ? किमुपरतं मानवं न दृष्टवन्तो भवन्तः? Ki यदि किञ्चित्साहाय्यं कर्तुमिच्छथ तर्हि वरम् । अन्यथा गच्छत । (द्वित्राः पञ्चषाश्चजना आस्तृतप्रच्छदोपरि रूप्यकाणि प्रक्षिपन्ति) महिला (कृतकरोदनं कुर्वती) भ्रातरः ! बहूपकृतं भवद्भिः । एतावता धनेन दाहसंस्कारप्रबन्धं करिष्ये । परमेश्वरो भवतां कल्याणं करोतु । भवतां बालवत्सां सुखिनस्स्युः । * सम्मादन्यतमः भो ! अलं त्वरया । नगरनिगमाधिकारी सर्वमवलोक्य गतोऽस्ति। मन्येऽसौ शीघ्रमेव समायास्यति भिषजं वाहनं चाऽऽदाय । है महिला युक्तं युक्तमाहुर्भवन्तः । सम्प्रति गच्छन्तु भवन्तः श्रीमन्तः । अहमत्रैव है तमधिकारिणं प्रतीक्षिष्ये । (शनैः शनैः सम्मर्दोऽपयाति । स्थानं जनशून्यमवलोक्य महिला प्रच्छदावृतं पति नखक्षतैः प्रबोधयति) पतिः (प्रच्छदमवतार्य सभयमुपविष्टः) भोः ! सर्वं श्रुतम्मया । तदधिकार्यागमनात्प्रागेव क्वचिद् वाराणसीवीथिकायां निलीनैरस्माभिर्भवितव्यम् । अद्य रक्षितं भगवता 8 विश्वनाथेन । युक्तमाह भवान् । अहं तु एतावतैव भीताऽऽसं यदसावधिकारी । क्वचिद्गतागतं न सम्यक्तया निरीक्षेत भवच्छ्वासानाम् । एतेषां ds Sxekexxesex महिला ८८ Page #100 -------------------------------------------------------------------------- ________________ र महिला सोमः पठितशिक्षितानां नेत्राणि दूरवीक्षणयंत्रकल्पानि भवन्ति ।। पतिः भाग्यवति ! कति रूप्यकाणि प्राप्तानि ? __ भो ! आत्मानं रक्ष प्रथमम् । पश्चाद्रूप्यकाणां गणनां करिष्यसि एतत्सर्वं मम मृषाविलपनस्य मूल्यम् ।। पतिः (अपाङ्गमाकुञ्च्य) अलं मृषावादेन । भाग्यवति ! एतत्सर्वं मम मृषामरणस्य मूल्यम्। (उभो प्रहसन्तौ समुगकमादाय सघननगरवीथ्यां प्रविशतः) (स्थानमुपेत्य चालकं प्रति) तिष्ठ तिष्ठ, वाहनमत्रैव स्थापय । (भिषजा सहावतीर्य परितोऽवलोक्य) अये न कोऽप्यत्र । क्व गताऽसौ महिला ? (इति सर्वतोऽवलोकयति) ६ गिरिधरः श्रीमन् ! गिरिधरनामाऽहं ताम्बूलविक्रेता । अयं ममाऽऽपणः । मन्ये ६१ कमपि मार्गयते भवान् ? सोमः भद्र ! अत्र काचित् महिला मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमाना मयाऽवलोकिता। सम्प्रति नाऽवलोक्यते ! R गिरिधरः श्रीमन् ! इदानीमेव गताऽसौ प्रबुद्धेन पत्या सार्धम् । १ सोमः (साश्चर्यम्) किमुक्तं भद्र ? प्रबुद्धेन पत्या सार्धं गता ? * गिरिधरः (सस्मितम्) अथ किम् ! । सोमः भद्र गिरिधर ! एतत् किमुच्यते त्वया ? स तु मृत आसीत् ? गिरिधरः श्रीमन् ! सत्यमहं भणामि । असौ जनस्तु प्रतिदिनमत्रैव धवल प्रच्छदेनाऽऽत्मानं प्रच्छाद्य शयानस्तिष्ठति तत्पत्नी च तं मृतं प्रख्याप्य सकरुणक्रन्दनं तदन्त्येष्टिनिमित्तं धनं याचते । प्रायेणाऽर्धहोरामितेन नाट्येन पञ्चाशद्रूप्यकाण्यर्जयति महिलेयम् । सोमः तत्किमिदं सर्वं मरणनाट्यमेव ? गिरिधरः अथ किम् । जीवनदं मरणनाट्यमिति वाच्यम् । सोमः भद्र ! किमिदं नाट्यं यूयं पूर्वत एव जानीथ ? ८९ Page #101 -------------------------------------------------------------------------- ________________ म: in 9.M Fx गिरिधरः श्रीमन् ! न केवलं वयमेव ! एते रक्तोष्णीषाश्चतुष्पथरक्षिणोऽपि xx नाट्यमिदं सम्यग् जानान्ति ।। तथापि न च निवारयन्ति भीषयन्ति तर्जयन्ति वा ? गिरिधरः श्रीमन् ! आत्मोदरोपरि पादप्रहारं को नु कुरुते । पञ्चाशद्रूप्यकाणां पञ्चमो भाग एतेषामेव भवति । एवं हि, तेऽपि प्रसन्ना रक्षिणोऽपि प्रसन्नाः । आदिवसं स्थानं परिवर्त्य महिलेयं नाट्यमिदमेव सम्पादयति, प्रायेण शतद्वयमितानि रूप्पकाणि चाऽर्जयति ! सोमः (ललाटं ताडयन्) भो परमेश्वर ! अहमपि कस्मिन् युगे जीवामि ! एतावदपि मया न ज्ञातम् ! सत्यमुक्तं कविना केनापि - अग्निरन्नं मलं प्रीत्या किं न भक्षयितुं क्षमः । किं न कर्तुं क्षमा नारी किं न सिन्धौ विलीयते ॥ (भिषजं चालकं गिरिधरं प्रति) भवतु, चायपेयं पिबामः । भद्र गिरिधर ! चायपेयार्थमापणिकमादिश । गिरिधरः यथाज्ञापयति श्रीमान् । (तथा कृत्वा पुनरुपावर्तते) श्रीमन् ! एतावन्मानं प्रक्ष्यामि । किमर्थं भवानात्मानमायासयत्येवम् ? * गिरिधर ! नगरनिगमाधिकारी अहमस्मि । इमां महिला परमार्थतो विपद्ग्रस्तां मत्वा साहाय्यार्थमुद्यतोऽभवम् । (सर्वे चायं पिबन्ति) अ सोमः MeNMOK PVT.KC ॥ द्वितीयं दृश्यम् ॥ "नगरनिगमकार्यालये सान्ध्यकालिकोऽवकाशः । सर्वेऽप्यधिकारिणः कर्मचारिणश्च कारस्कूटरद्विचक्रिकादियानैर्यथायथं प्रस्थातुमुत्सुका दृश्यन्ते ॥ पर कृपानाथः (स्कूटरयानं पुरस्सारयन्) अरे सोम ! गृहमुपावर्तिष्यसे न वा ? एहि, पृष्ठवर्तिनीमासन्दीमुपविश (सोम उपविशति । उभौ प्रस्थितौ) Page #102 -------------------------------------------------------------------------- ________________ कृपानाथः सोम ! गृहमुपावर्तितुं त्वरा वर्तते किम् ? न तावत् । किमर्थं पृच्छसि ? सोमः कृपानाथः अद्य कन्यायाः कृते विद्यालयपरिधानानि क्रेतव्यानि । अत एव किञ्चिद् विलम्बेनाऽऽसादयिष्यावः । परन्त्वलं चिन्तया । त्वामहं गृहं यावत् प्रापयिष्यामि । युक्तं युक्तम् । न काऽपि चिन्ता कार्या । परिधानापणमेव प्रथमं गच्छावः । कृपानाय : (सोमं प्रति) सोमः सोमः सोमः सोम ! कथं मौन भजसे ? नाऽयं तव स्वभावः । अस्ति कश्चिद् विशेष: ? कृपानाथः मुञ्च तावदिमां कथाम् । एतत्सर्वं घटते एव । न केवलं भारतेऽपि तु निखिलेऽपि संसारे । उदरपूर्त्यर्थं किं न कुरुते जनः ? दारिद्र्यं सर्वं कारयति । किं कथयानि मित्र ! अद्य कार्यालयमागच्छता मया विचित्रमेव दृश्यं दृष्टम् । ततः प्रभृत्येवोन्मनस्कोऽस्मि जातः । कार्यालयेऽपि किञ्चित्कर्तुं नाऽशकम् । त्वामपि श्रावयामि तां विचित्रां घटनाम् । (इति यथाघटितं श्रावयति) (अकस्मादेव राजमार्गं निकषा जनसम्मर्दं सम्प्रेक्ष्य) कृपानाथ ! मित्र ! क्षणं यावत्तिष्ठ । कीदृशोऽयं जनसम्मर्दः ? मन्ये सैव महिला अत्राऽपि वर्तते । तदेव नाटकमत्राऽपि प्रवर्तते । (यानं क्वचिदेकान्ते संस्थाप्योभौ समीपं गच्छतः । तामेव महिलां मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमानामवलोक्य हतप्रभावुभौ भवत:) महिला- (करुणं विलपन्ती) हा दैव ! भगवन् विश्वनाथ ! श्रुतम्मया यत् त्रिलोकतोऽपि पृथग् वर्तमानेयं काशी । नाऽत्र संसारनियमाः प्रचलन्ति । तथाऽप्यहमत्राऽवसीदामि । भ्रातरः ! मृतपत्युरन्त्येष्टिनिमित्तं कं याचे ? ९१ Page #103 -------------------------------------------------------------------------- ________________ MCXOK NXOK ४ सम्मर्दादेकःदेवि ! अलं क्रन्दनेन ! काशीयम् । यस्य क्वाऽपि गतिर्नास्ति तस्य ४४ वाराणसी गतिः। भगवान् विश्वनाथस्ते साहाय्यं विधास्यति । गृहाण तावदिदम् । (इति पञ्चरूप्यकमुद्रामास्तृतप्रच्छदोपरि प्रक्षिपति । अन्येऽपि जना यथाशक्ति रूप्यकाणि प्रयच्छन्ति) महिला भ्रातरः ! बालवत्सा युष्माकं सुखिनस्स्युः । यथा युष्माभिरहं ११ रक्षिताऽसहायमहिला तथैव कालभैरवो भवतस्सर्वान् नितरां पातु । ॐ (मृतपत्युश्चरणं संस्पृश्य, साभिनयं विलपन्ती च) भोः कथं न पश्यसि नगरवासिनां बन्धुजनानां नवनीतकोमलं हृदयम्। ११ हा मातः ! क इदानीं भविष्यत्यपरिचितेऽस्मिन् महानगरे शरणम् ? । सोमः (समक्षमागत्य) नित्यसौभाग्यवति ! अयं जनो भविता ते शरणम् ! प्रत्यभिज्ञातवती मां न वा? प्रातरपि त्वत्सहायतार्थमागतवानहम् । अकस्मादेव क्व तु विलीनाऽऽसीः। (सोमं पुलिसाधीक्षकेण सार्धं विलोक्यैव महिला शुष्कमुखी जायते) (अपरिचयं नाटयन्ती) श्रीमन् ! कोऽस्ति भवान् ? किमर्थं मामुपहसति दुर्भाग्यशालिनीम् ? पश्यन्ति भवन्तो यदहं मृतपत्युर्दाहसंस्कारार्थं भ्रातॄन् धनं याचे । मा भैषीः । मा भैषीः । अहमेव तव पति मणिकर्णिकाघट्ट प्रहिणोमि । (पुलिसाधीक्षकं प्रति) आरक्षिमहोदय ! कृपया साहाय्यं कुर्वन्तु भवन्तोऽपि । (पुलिसाधीक्षकः शयानं जनं वेत्रेण सकृत् ताडयति । स च । वेत्रप्रहृतस्सन् प्रच्छदं दूरे प्रक्षिप्य समुत्तिष्ठति । दर्शका विस्फारितनेत्रा ** जायन्ते ) है, पुलिसाधीक्षकः किं रे ! स्वर्गलोकं गतवानसि यमलोकं वा? एकेनैव वेत्रप्रहारेण पुनः पृथ्वीलोकमागतवानसि ? इयती त्वरा काऽऽसीत् ? पञ्चषान् वेत्रप्रहाराननुभूय नित्यमरणस्य ते प्रवृत्तिरेव प्रणष्टा स्यात् । । । महिला सोमः ९२ Page #104 -------------------------------------------------------------------------- ________________ N SAKXSXK XBXEKX reOKcxesex महिला (अधीक्षकचरणौ निपत्य सप्रमाणम्) मर्षयतु मर्षयतु श्रीमान् । अग्रेxx नैवमाचरिष्यावः। (जनसम्म महान् संभ्रमः, विविधास्पष्टवाध्विनिः) अधीक्षकः (जनसमूहं प्रति) पश्यन्ति भवन्तोः भिक्षाटनस्य नूतनसरणिमिमाम् । इयं महिलाऽऽदिवसं २ नगरस्य विविधभागेषु एवमेव जनसमूहमाकृष्य स्वकरुणक्रन्दनैः पतिं च सद्योमृतं प्रख्याप्य ताद्दाहार्थं धनमाहरति । प्रायेण नाट्यमिदं चतुर्धा सम्पाद्य द्विशतरूप्यकाणि दुष्टेयमर्जयति। सम्मर्दादेकःधिग् धिग् रण्डामिमाम् । अहोऽर्थस्य कृतेऽयमनर्थः ? स्वपतिमपि दिवङ्गतीकृत्य गाढं क्रन्दतीयं दुष्टा ! आत्मानं विधवां प्रदर्श्य पौराणां * सहानुभूतिं धनद्वितीयामवाप्नोति? अधीक्षकमहोदय ! कृपया निगृह्णातु से पौरप्रवञ्चकाविमौ। (अधीक्षको निगृह्य तौ वाहनमधिरोहयति । सोमं प्रति) र अधीक्षकः बन्धो सोम ! कृतज्ञस्ते पुलिसविभागः । सम्प्रति गमिष्यामि । पुनर्मिलिष्यावः। ___ (सोमोऽपि कृपानाथस्कूटरमारूह्य प्रतिष्ठते) XOSA xexy इति श्रीगौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य सद्योऽवसितसम्पूर्णानन्दसंस्कृतविश्वविद्यालयकौलपत्यस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य नाट्यं क्रीतानन्दमवसितम् ॥ 1 ९३ Page #105 -------------------------------------------------------------------------- ________________ maithun AKR RAMMADARA कीर्तित्रयी शिक्षिका (विज्ञानविषयं पाठयन्ती) रीने ! किं त्वं जानासि यद् र गुरुत्वाकर्षणस्य नियमस्य कारणादेव वयं सर्वेऽपि पृथिव्यां वसामः ? रीना सत्यमेतद्, किन्तु मान्ये ! यदाऽयं नियम आविष्कृतो नाऽऽसीत् ए. तदा वयं कुत्र वसानाः स्यामेति तु नाऽवबुध्यते । माधुरी अद्याऽऽवां भोजनाय कञ्चिदुपाहारगृहं गच्छेव ।। भोः !, मम पाककरणे जामिताऽनुभूयतेऽद्य। ।( मधुकरः समीचीनमेतत् । ममाऽप्यद्य भाजनक्षालनायो- (( त्साहो नास्ति !! RAMATLAMALAN rrarararararang अध्यापकः (विद्यार्थिनं प्रति) चत्वारो जनाः पञ्च च है नागरङ्गफलानि सन्ति । कथं तानि तेषु र मध्ये समानभागेन विभक्तव्यानि ? विद्यार्थी महोदय ! फलानां रसं निष्पाद्य । PakarRaran s-ms- non ९४ Page #106 -------------------------------------------------------------------------- ________________ किङ्करः श्रेष्ठी (धावन्निवाऽऽगत्य) स्वामिन् ! स्वामिन् ! एतानि दश रूप्यकाणि ततोऽपवरकात् प्राप्तानि । किं भवत एतानि ? धन्यवादः, धन्यवादः ! अहमेतान्येव मृगयन्नासम् । भवतु, तव नीतिमत्तया प्रसन्नोऽस्मि। अत: पारितोषिकरूपेण त्वमेवैतानि स्वीकुरु । अन्यदा(सर्वत्र किञ्चिन्मृगयति किन्तु कुतोऽपि नोपलभते, अतः किङ्करमाहूय) भो ! रामदास ! मम शतं रूप्यकाणि कुत्राऽपि नष्टानि । किं त्वया दृष्टानि प्राप्तानि वा ? आम् स्वामिन् ! आम्, तानि मया प्राप्तानि । किन्तु मम नीतिमत्तायाः पारितोषिकरूपेण मयैव तानि स्वीकृतानि । श्रेष्ठी किङ्करः ॐ द्वौ वयस्यौ प्राणिसङ्ग्रहालयं द्रष्टुं गतौ । तत्र, एकत्र बृहत्कायपञ्जरस्य । पुरत उत्थाय वार्तालापं कुरुतः स्म । तदा पञ्जरमध्ये दृष्ट्वाएकः भो ! यद्येष व्याघ्रो वक्तुं समर्थः स्यात् तर्हि स किं वदेत् ? 4 अपरः अरे ! यद्येवं स्यात् तर्हि प्रथमं तु स एवमेव वदेद् यद् - 2 'मूर्ख ! नाऽहं व्याघ्रः किन्तु चित्रकः ! दग्धः अहं । भवतः सकाशाद् गालिमुपालम्भं वा श्रोतुं नाऽत्राऽऽगतो भोः । दुर्विदग्धः तर्हि भवान् तत्सर्वं श्रोतुं कुत्र गच्छति ? ९५ Page #107 -------------------------------------------------------------------------- ________________ नूतनः किं विवाहोऽवश्यं कर्तव्यः ? पुरातनः यदि दुःखमेवाऽभीष्टं तदाऽवश्यं कर्तव्यः !! - आलापः किं भवान् सङ्गीतसाधनायां मम साहाय्यं कुर्याद् वा ? 2 प्रलापः अवश्यं भोः ! वदतु किं कर्तव्यम् ? आलापः 'पियानो' तथाऽन्यानि वादित्राणि गृहस्योपरितने तले ४ नेतव्यानि ! एकदा स्कूटीयानेन गच्छन्ती महिलैका चतुष्पथे ट्राफिक्नियमभङ्ग कृत्वाऽग्रे गतवती। ट्राफिक्-पुलिसाधिकारिणा मनजितसिंहाख्येन झटिति धावित्वाऽवरुद्धा सा, चालनादेशपत्रं (License) दर्शयितुं चाऽऽदिष्टा । तया स्वीयवनितास्यूताद् लघुरेक आदर्शो निष्कास्य तस्मै दत्तः । सोऽपि तं दृष्ट्वा कथितवान् - क्षम्यतां मान्ये ! किन्तु यदि प्रथमत एव भवत्या 'ट्राफिक्-पुलिसाधिकारिण्यह'-मित्युक्तमभविष्यत् तदा नाऽहं भवत्या अवरोधनमकरिष्यम् ! Page #108 -------------------------------------------------------------------------- ________________ VIVNavawal प्राकृतविभागः श्रीवर्धमानजिनस्तुतिः ॥ आ. विजयशीलचन्द्रसूरिः . जस्स सासणरवी अत्थमइ नो क्या जो समुज्जालई तिहुयणं सव्वया । नाणकिरणोहणासियतमोबद्दलो जयउ सो वद्धमाणो जिणाखंडलो ॥१॥ सुद्धनियअप्पवस्स झाणे रओ परमअविगप्पआणंदसुहसंगओ। जम्मजरमणमग्गे य दत्तग्गलो जयउ सो वद्धमाणो जिणाखंडलो ॥२॥ समवसरणम्मि गयणोवमे उग्गओ सुमुणिगणतारयालंकि ओडच्चभुओ। पुण्णचंदो ब्व जो रेहइ समुज्जलो जयउ सो बद्धमाणो जिणाखंडलो ॥३॥ झायई दव्वगुणपज्जवाणं ठिइं पण्णवइ तह जहत्थं तिलोगट्टिइं। नामगहणेण वि विणासियामंगलो जयउ सो वद्धमाणो जिणाखंडलो ॥४॥ LINE तिण्णभवसिंधुओ भुवणजणबंधुओ सोसिओ जेण तवसा य् कम्मधुओ। परमकरुणासुधासित्तभूमंडलो जयउ सो वद्धमाणो जिणाखंडलो ॥५॥ Page #109 -------------------------------------------------------------------------- ________________ Hetaupasar प्राकतविभाग: XXWARWAVRANI सङ्कलियता - डॉ. आचार्यरामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः (गताङ्कादग्रे) (२) सहीओ हला सउन्दले ! अवि सुहअदि दे णलिणीपत्तवादो । सउन्दला किं वीअअन्ति मं सहीओ ? पिअंवदा अणसूए ! तस्स राएसिणो पढमदंसणादो आरहिअ पज्जुस्सुआ विअ सउन्दला। किं णु खु से तण्णिमित्तो अअं आतंको भवे । BY अणसूआ सहि ! ममवि ईदिसी आसंका हिअअस्स । होदु । पुच्छिस्सं दाव __णं । सहि ! पुच्छितव्वासि किं पि । बलवं खु दे संदावो । o सउन्दला हला ! किं वत्तुकामासि ? अणसूआ हला सउन्दले ! अणब्भन्तरा क्खु अम्हे मदणगदस्स वुत्तन्तस्स । किं दुजादिसी इदिहासणिबन्धेसु कामअमाणाणं अवत्था सुणीअदि, तादिसी दे पेक्खामि । कहेहि किंणिमित्तं दे संदावो? विआरं क्खु परमत्थदो अजाणिअ अणारम्भो पडिआरस्स। सउन्दला बलवं क्खु मे अहिणिवेसो । दाणि वि सहसा एदाणं ण सक्कणोमि णिवेदिदं [अत्त-गदं] । पिअंवदा सहि सउन्दले ! सुट्ठ एसा भणादि । किं अत्तणो आतंकं उवेक्खसि? अणुदिअहं क्खु परिहीअसि अंगेहि । केवलं लावण्णमई छाया तुम ण मुंचदि। सउन्दला सहि ! कस्स वा अण्णस्स कहइस्सं । किन्दु आआसइत्तिआ दाणि वो भविस्सं। ९८ Page #110 -------------------------------------------------------------------------- ________________ सहीओ अदो एव्व क्खु णिब्बन्धो । सिणिद्धजणसंविभत्तं हि दुक्खं सज्झवेदणं र होदि। सउन्दला सहि ! जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा राएसी.... । उभे सहीओ कहेदु पिअसही ! सउन्दला तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवुत्ता । तं जइ ) वो अणुमदं, तह वट्टह जह तस्स राएसिणो अणुकम्पणिज्जा होमि । अण्णहा अवस्सं सिंचह मे तिलोदअं। पिअंवदा अणसूए ! दूरगअमम्महा अक्खमा इअं कालहरणस्स । जस्सि बद्धभावा एसा, स ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं । अणसूआ तह जह भणासि । पिअंवदा सहि ! दिट्ठिआ अणुरूवो दे अहिणिवेसो । साअरं उज्झिअ कहिं वा महाणई ओदरइ। को दाणि सहआरं अन्दरेण अदिमुत्तलदं पल्लविदं सहेदि । अणसूआ को उण उवाओ भवे, जेण अविलम्बिअं णिहुअं अ सहीए मणोरहं संपादेम्ह। पिअंवदा णिहुअं त्ति चिन्तणिज्जं भवे । सिग्घं त्ति सुअरं । अणसूआ कहं विअ । पिअंवदा णं सो राएसी इमस्सि सिणिद्धदिट्ठीए सूइदाहिलासो इमाइं दिअहाई पजाअरकिसो लक्खीअदि । हला ! मअणलेहो से करीअदु । तं , सुमणोगोविदं करिअ देवप्पसादस्सावदेसेण से हत्थअं पावइस्सं । CS अणसूआ रोअइ मे सुउमारो पओओ । किं वा सउन्दला भणादि ? सउन्दला किं णिओओ वो विकप्पीअदि ? पिअंवदा तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दाव किं पि ललिअपदबन्धणं । सउन्दला हला, चिन्तेमि अहं । अवहीरणाभीरुअं पुणो वेवइ मे हिअअं । Page #111 -------------------------------------------------------------------------- ________________ सहीओ सउन्दला णिओइआ दाणि म्हि । हला, चिन्तिदं मए गीदवत्थु । असण्णिहिदाणि उण लेहणसाहणाणि । पिअंवदा इमस्सि सुओदरसुउमारे णलिणीपत्ते हेहिं णिक्खित्तवण्णं करेहि । सउन्दला हला, सुणुद दाणिं सगदत्थं णवेदि । उभे सहीओ अवहिदे म्ह । सउन्दला (वाचेदि) दुष्यन्तः दुष्यन्तः पिअंवदा दुष्यन्तः पिअंवदा अयि अत्तगुणावमाणिणि ! को दाणि सरीरणिव्वावइत्तिअं सारदिअं जोसिणि पडन्तेण वारेदि ? तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथाहि कुमुद्वतीं दिवसः ॥ सहीओ साअदं अविलम्बिणो मणोरहस्स । अणसूआ इदो सिलातलेक्कदेसं अलंकरेदु वअस्सो । पिअंवदा दुवेणं वि वो अण्णोण्णाणुराओ पच्चक्खो । सहीसिणेहो उण मं पुणरुत्तवादिणिं करेदि । दुष्यन्तः सउन्दला - तुज्झण आणे हिअअं मम उण कामो दिवावि रत्तिम्पि । णिग्घिण तवइ बलीअं तुइ वुत्तमणोहराई अंगाई ॥ (विटपान्तरित: सहसोपसृत्य) भद्रे ! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । आवण्णस्स विसअणिवासिणो जनस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो । नास्मात्परम् । तेण हि इअं णो पिअसही तुमं उद्दिसिअ इमं अवत्थन्तरं भअवता अणेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बितुं । भद्रे ! साधारणोऽयं प्रणयः । सर्वथाऽनुगृहीतोऽस्मि । हला पिअंवदे ! किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण ? १०० Page #112 -------------------------------------------------------------------------- ________________ र अणसूआ वअस्स ! बहुबल्लहा राआणो सुणीअन्ति । जह णो पिअसही बन्धु- अणसोअणिज्जा ण होइ तह णिव्वाहेहि । दुष्यन्तः भद्रे ! किं बहुना ? परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम् ।। O, उभे सहीओ णिव्वुदे म्ह । न पिअंवदा अणसूए ! जह एसो इदो दिण्णदिट्ठी उत्सुओ मिअपोदओ मादरं अण्णेसदि। एहि, संजोएम णं । [इत्युभे प्रस्थिते ।] सउन्दला हला, असरणा म्हि । अण्णदरा वो आअच्छदु । उभे सहीओ पुहवीए जो सरणं सो तुह समीवे वट्टइ । [इति निष्क्रान्ते।] सउन्दला कहं गदाओ एव्व ? [गन्तुमिच्छति ।] दुष्यन्तः अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । किं शीतलैः क्लमविनोदिभिराद्रवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ।। [इति बलात्तां निवर्तयति । - सउन्दला पोरव ! रक्ख विणअं । मअणसंतत्तावि ण हु अत्तणो पहवामि भीरु ! अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नाऽत्र दोषं ग्रहीष्यति कुलपतिः । अपि चगान्धर्वेण विवाहेन बढ्यो राजकन्यकाः । श्रूयन्ते परिणीतास्तां पितृभिश्चाऽभिनन्दिताः ।। सउन्दला मुञ्च दाव मं । भूओ वि सहीजणं अणुमाणइस्सं । दुष्यन्तः भवतु । मोक्ष्यामि । सउन्दला कदा ? दुष्यन्तः अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन । दुष्यन्तः १०१ Page #113 -------------------------------------------------------------------------- ________________ अधरस्य पिपासिता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य । [इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति हस्तेन । नेपथ्ये] चक्कवाकवहुए, आमन्तेहि सहअरं । उवट्ठिआ रअणी । सउन्दला पोरव ! असंसरं मम सरीरवुत्तन्तोवलम्भस्स अज्जा गोदमी इदो एव्व आअच्छदि। ता विडवन्तरिदो होहि । दुष्यन्तः तथा । सहीओ इदो इदो अज्जा गोदमी । जादे ! अवि लहुसंदावाइं दे अंगाई ? सउन्दला अज्जे ! अत्थि मे विसेसो । गोदमी इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि । वच्छे ! परिणदो दिअहो। एहि, उडजं एव गच्छम्ह । [पत्थिदा ।] सउन्दला (अत्तगदं) हिअअ ! पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुंचसि । साणुसअविहडिअस्स कहं दे संपदं संदावो । लतावलअ संदावहारअ, आमन्तेमि तुमं भूओ वि परिभोअस्स । [इदि दुक्खेण गदा ।] गोदमी (क्रमश:) अत्थालोअण-तरला इअरकईणं भमंति दिट्ठीओ । अत्थ च्चेअ निरारंभमेंति हिअयं कइंदाणं ।।। (सिद्धहेमप्राकृतव्याकरणे) १०२ Page #114 -------------------------------------------------------------------------- ________________ "लण्डन्प्रदेशस्य विद्यालये पञ्चवर्षीयाणां बालकानां वर्गे शिक्षिकोक्तवती - यः कोऽपि मह्यं 'विश्वस्य सर्वश्रेष्ठो महापुरुषः कः ?' इति कथयिष्यति तस्मै अहं 10 पाउण्ड-राशिं पारितोषिकरूपेण दास्यामि ! आइरिश्-विद्यार्थी हस्तमुन्नीयोक्तवान् - सन्त पेट्रिकः। शिक्षिका - पेडी ! नैष यथार्थः प्रत्युत्तरः। एकोटिश-विद्यार्थी - सन्त एण्डुः / शिक्षिका- हेमिश ! तवाऽपि प्रत्युत्तरो न समीचीनः। अन्ततो गत्वा कश्चिद् हिन्दुविद्यार्थी उत्थितः - जीसस क्राईस्ट ! शिक्षिका - सम्पूर्ण सत्यम् / किन्तु नलिन ! त्वं तु हिन्दुः, कथं त्वया... ? नलिनः - सत्यं मान्ये ! मम मनसि यथार्थः प्रत्युत्तरस्तु "भगवान् श्रीकृष्ण' इत्येवाऽऽसीत् / किन्तु भवती जानात्येव Business is a business !" www.janehbrary.com