SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विश्वेशः 'नैव विश्वज्योतिः ! एवं मा वद ।' विश्वज्योतिः 'आम्, लोकेश ! अहमेवमेव वदामि ।' विश्वेणः ‘एवंविधम् ? तर्हि विश्वज्योतिः ! अपि शरीरेऽस्मिन्मुगलरक्तं नास्ति ? अपि त्वं मम किमपि साहाय्यं कर्तुं शक्नोषि ?' विश्वज्योतिः 'यथाऽऽज्ञापयति देवः ।' । Dविश्वेशः तर्हि मम तरवारिं मम करे धेहि । यावत् सा मम हस्ते विद्यते, कोऽपि मां राजसिंहासनात् पृथक् कर्तुं नाऽर्हति ।' आवेशेन सह विश्वज्योतिः - 'आम् , लोकेश ! एवंविधमेव भविष्यति ।' र इत्यभिदधती वृद्धस्य विश्वेशस्याऽसिं तत्करे निधाय तस्थौ । विश्वेश उत्तस्थौ, B प्रस्खल्य पतितुमारेभे, राजसुता विश्वज्योतिर्नृपं जग्राह, राजसिंहासनकक्षं प्रति च निनाय । (२) B. - । राजसिंहासने वृद्धो विश्वेश उपविष्टोऽस्ति, वर्णकावृता विश्वज्योतिश्च निकट एव निषण्णा, केचन च नायकाः- ये तस्मिन् काले तत्राऽऽसन् – स्थिताः सन्ति; वन्दिन्यपि तस्थौ । विश्वेशे सङ्केतयत्येव सा चिराभ्यस्तं स्वशब्दं वक्तुमारेभे । सद्य एव तन्मुखात् प्रथम एव शब्दे निर्गते तच्छिरोऽवपत्य दूरं याति ! सर्वे विस्मिता भूत्वाऽपश्यन् । धृतकवचो मयूरासनमतिः स्वखड्गं करवस्त्रेण प्रोञ्छन् पुरतः तस्थौ नत्वा च निजगाद - ‘श्रीमतो देहस्थितिं प्रतिकूलां श्रुत्वाऽऽत्मनो न प्रबभूव, अत उपतस्थौ ।' विश्वेशः (कम्पित्वा) 'किन्तु पुत्र ! एतादृशस्य रक्तपातस्य काऽपेक्षाऽऽसीत् ? सद्य एव पश्य, वृद्धाया वन्दिन्याः शवो लुठति । हा! मयाऽवलोकितुं न शक्यते । (कम्पित्वा) अपि पुत्र, मामपि...' (इत्येतावदभिदधानो मूच्छितो भूत्वाऽऽसनेनाऽवनतो बभूव) । मयूरासनमतिः (उच्चैर्ध्वनित्वा स्वसहचरान्) 'अपसारय तमपूतं शवम् ।' अधुना विश्वज्योतिरात्मनो न प्रबभूव, द्रुत्वा सुरभि वारि च नीत्वा वृद्धपितुर्वदने प्रोक्षितुं प्रारेभे । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy