________________
कथा
विश्वज्योतिः ('जहाँ आरा')
श्रीयुतो जयशङ्करप्रसादः (संस्कृतरूपान्तरकारः - डॉ. रूपनारायणपाण्डेयः, एस्. II /३३०, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः,
प्रयागः, उ.प्र., २११००२)
विद्यते दारुणा नीरवता यमुनातटीये राजप्रासादे । केवलं वारं वारं श्रूयते शतघ्नीनां गडगडायितमस्त्राणां च झङ्कारः । वृद्धो विश्वेशः ('शाहजहाँ') उपधानाश्रयेण निषण्णोऽस्ति, एका च दासी कस्यचिदौषधस्य पात्रं गृहीत्वा तस्थौ । विश्वेशोऽन्यमनस्को भूत्वा किमपि चिन्तयति, शतघ्नीनां ध्वानेन कदाचित्कदाचित् सहसा कम्पते । सहसा तस्य मुखाद् निःसृतम् - 'नैव-नैव, अपि स एवं करिष्यति ? अपि वयं राजसिंहासनाद् निराशा भवेम?'
'आम्, अवश्यं निराशा भवेम ।' विश्वेशः शिर उत्थाप्य जगाद - 'का ? विश्वज्योतिः ? अपि त्वमिदं सत्यं
वदसि?' D विश्वज्योतिः (समीपमुपगम्य) 'आम्, लोकनाथ ! इदं सत्यमस्ति, हि विश्वरक्षकः
('दाराशिकोह') अकर्मण्यो भवत्पुत्रः पलायितः, कृतघ्नश्च निर्भयः ('दिलेरखाँ') क्रूरं मयूरासनमति ('औरंगजेब') मिमेल, दुर्गञ्च
तस्याऽधिकारे बभूव । विश्वेसः "किन्तु विश्वज्योतिः ! अपि मयूरासनमतिः क्रूरोऽस्ति ? अपि स
वृद्धस्य स्वपितुः किञ्चन सम्मानं न करिष्यति ? अपि स मयि
जीवत्येव राजसिंहासनमधिष्ठास्यति?' D- विश्वज्योतिः (यस्या लोचने अभिमानाश्रुजलपरिपूर्णे बभूवतुः) 'लोकनाथ ! .
अनेनैव भवतः पुत्रवात्सल्येन भवदीयेयमवस्था विहिता । मयूरासनमतिरेको नारकीयः पिशाचोऽस्ति; एकं शुभं कार्यं विहाय तेन किं कर्तुं न शक्यते ?'
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org