SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (दृश्यं - १ ) (अभ्रंलिहो रमणीय एकः प्रासादोऽस्ति । तत्प्रासादस्य सर्वा अपि भित्तयो रमणीयचित्रैः सुशोभितास्सन्ति । तत्र नितरां सुखमनुभवन्तौ दम्पती वसतः । एकदैकस्मिन्नपवरके प्रेमालापं कुर्वन्तावुपविष्टौ आस्ताम् ।) तिलका प्रिय ! काऽन्या मादृशी भाग्यवती ? वसन्तः कथम् ? तिलका यत्त्वादृशो भर्ता मया प्राप्तः । वसन्तः अहो ! एवं त्वहमपि भाग्यवानेव खलु ? तिलका सत्यम् । तथाऽपि प्रिय ! स्त्रियाः कृते एष विषयश्चिन्तनीयोऽस्ति । यतः पत्न्या इच्छामनिच्छां सुखं दुःखं चेत्यादिकं विचिन्त्य व्यवहरन् भर्ता दुर्लभोऽस्ति । वसन्तः (ससङ्कोचं) प्रिये ! परस्परमनुकूलीभूय व्यवहरणमेव दाम्पत्यजीवनस्य साफल्यस्य प्रधानं कारणमस्ति । किन्तु स्वार्थीभूय एव यदि व्यवह्रियते तर्हि समस्तमपि जीवनं क्लेशमयं भवति । एतेन न केवलं स्त्री वा पुरुषो वाऽपि तु समग्रमपि कुटुम्बं क्लेशं दुःखं च प्राप्नोति । तिलका सत्यं सत्यम् । मया बहवो जना दृष्टाः, ये सत्स्वपि धनाद्यतनसुखसाधनेषु नितरां दुःखिनः सन्ति । प्रियतम ! यतः प्रभृत्यहमस्मिन् गृहे प्रविष्टा तावदारभ्याऽद्यपर्यन्तं 'किं नाम दुःखम्' इति न ज्ञातं मया । बाह्यवस्तुनोऽभावाद् यदुःखं जायते तदुःखं तु सह्यं क्षम्यं च भवति, किन्तु हृदयस्याऽनौदार्यं कार्पण्यं च शङ्काशीलस्वभावाविश्वासकठोरवचनादिकारणाद् यदुःखमुत्पद्यते तत्त्वसह्यमक्षम्यं च भवति । एतादृशं मलिनं वातावरणं विद्यते तदृहं श्मशानमिव तथा रूप्यकाणां कोटिरपि रज इवाऽऽभाति । (पत्युरङ्के वदनं संस्थाप्य रुदती) प्रिय ! तव माया केवलं सुखमेवाऽनुभूतम् । अत एव कथयामि - काऽन्या मादृशी भाग्यवती ? वसन्तः (पृष्ठौ हस्तं प्रसार्य, सबाष्पं ) तिलके! तिलके! न कदाऽप्येकेनैव हस्तेन तालिका दीयते । यथा मम स्वभावस्तथैव तवाऽपि सरलस्वभावो हृदयौदार्यं Jain Education International ७३ For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy