________________
2 पुत्रो न जातः । तदा लोकैर्ममाऽवमाननं कृतं, मर्मवचनैर्मे हृदयं विद्धम् । तत
एतादृशसमाजे इतः परं जीवितुं न शक्ताऽहम् । समाजस्य कठोरनीतेर्वशादेवाऽद्य विषं पिबामि ।
मृत्युद्वारेणाऽहं जनान् कथयितुमिच्छामि- 'पुत्रजन्म भाग्याधीनमस्ति । पुरुषस्य स्त्रियो वा शारीरिकवैकल्यात् कदाचित् प्रसूतिर्नाऽपि स्यात्, किन्तु तन्मात्रेणैव न सा स्त्री निन्दनीयाऽदर्शनीया वा भवति । समाजस्यैतादृशङ्करनीतिवशाद् मादृश्यो बढ्यः स्त्रियो मरणमेव शरणं कुर्वन्ति' इति ।
प्रिय ! यदि ममोपरि दृढानुरागस्स्यात्तर्हि त्वया शोको न करणीयः किन्तु समाजस्यैतादृशीं दुष्टनीतिमपाका जीवनपर्यन्तं प्रयत्नः करणीयः । एवं कृत्वा मादृशीनामनेकानां स्त्रीणां जीवनं रक्षणीयम् ।
आगामिनि जन्मनि ते मेलनमवश्यं भवेदित्याशया त्वामेव स्मरन्ती विषं पिबामि।
... तव प्रिया तिलका। पत्रं विमद्य तिलकाया वक्षस्स्थले मस्तकमारोप्योच्चै रोदिति ।) वसन्तः (सबाष्पं) प्रिये ! प्रिये ! किं... किं कृतम् ? किं मया.... मनमोहनः (सभयं साश्चर्यं च) पुत्र ! किं लिखितम् ? कथं रोदिषि ?
(तदैवाऽऽङ्ग्लवैद्यः प्रविशति । निरीक्षणं कृत्वा विषापहरं
सूच्यौषधं दत्तवान् तथैवाऽन्योपचारं करोत्याङ्ग्लवैद्यः ।) वसन्तः भो ! वैद्यराज ! किमेषा जीविष्यति किल ? आङ्ग्लवैद्यः अवश्यम् ? कियत्कालं सावधानेन वर्तितव्यम्, तथा यथावसरमौषधं
देयम् । वसन्तः भवता महानुपकारः कृतः । आङ्ग्लवैद्यः न, न, एतत्तु मे कर्तव्यमस्ति । अस्तु, गच्छामि । श्व आगमिष्यामि। मनमोहनः (सदैन्यं) पुत्र ! किमर्थमेतयैवं कृतम् ? किं कलहो जातः ? वसन्तः न । (पत्रं दत्त्वा ) पठतु । मनमोहनः (पठित्वा) हा, हा, पुत्रचिन्तयैवं कृतम् !
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org