SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १ वसन्तः (सदैन्यं) पितः ! यद्भूतं तन्न स्मरणीयं, किन्त्वितः परं किं करणीयं तदेव चिन्तनीयमस्ति, यतो यदैषा स्वस्था भविष्यति तदा पुनरेष प्रश्न उपस्थितो भविष्यति । मनमोहनः (किञ्चिद्विचार्य) दत्तकपुत्रः स्वीकरणीयः । वसन्तः (पितुर्मुखं पश्यन्) अशक्यम् । यत्किमपि स्यात् किन्तु कदाऽप्येतत्कार्य न करिष्यामि। मनमोहनः मा त्वरिष्ठाः । किञ्चिद् विचारयतु । प्रश्नो गम्भीरोऽस्ति । न केवलं पुत्रस्य, अपि त्वस्या जीवनस्य प्रश्नोऽस्ति । वसन्तः (सक्रोध) किं पुत्रविहीनो जनो दुर्भागी निन्दनीयोऽदर्शनीयश्च कथ्यते ? पुत्रस्स्यान्न वा तेन जीवने का बाधा ? पुत्रशून्योऽप्यहं सुखेन जीवामि, निद्राम्यद्मि च। १ मनमोहनः सत्यम् । पुत्रो न सुखमानन्दं स्वर्ग वा ददात्येव । पञ्चसु पुत्रेषु सत्स्वपि जनक एकाकी वसति, कदाचिद् वृद्धाश्रमेऽपि गच्छति च । मृत्युकाले नैकोऽपि पुत्र उपस्थितो भवति, तदा स पिता निःश्वसिति- मम कुले यद्यश्मानस्समजनिष्यन्त तदेव वरमभविष्यत्, अलं पुत्रैः, इति । पुत्र ! एतत्सर्वं जानामि, किन्तु.... वसन्तः तर्हि कथं पुत्राग्रहः ? Y. मनमोहनः (सबाष्पं) पुत्र ! किं कथयानि ? किं मया वार्धक्येऽपि 'पुत्रचिन्तया तिलका यत्किमपि करोति वदति च' इत्येतादृशं द्रष्टव्यम् ! वसन्तः (सबाष्पं) पितः ! मैवं वादीः । (पटीक्षेपः) ܫܫܫܫܫܳܬ݂fit (दृश्यं - ४) (तिलका पल्यङ्के सुप्ताऽस्ति । वसन्तो दत्तकपुत्रस्स्वीकरणीयो न वेति चिन्तयन्नितस्ततोऽटति । तस्य हस्ते वृत्तपत्रमस्ति ।) वसन्तः (वृत्तपत्रं पठन् सदैन्यं) पितः! गोधरानगरे दुर्घटना जाता । एकस्यैव कुटुम्बस्य द्वौ बालकौ विहाय सर्वेऽपि जना मृताः । ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy