SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मङ्गलवादः मुनिकल्याणकीर्तिविजयः प्रारिप्सितशास्त्राणां निष्प्रत्यूहसमाप्त्यर्थं शिष्टाचारविषयत्वाच्च 'शास्त्रादौ मङ्गलं कर्तव्य'मिति प्रायशः सर्वेऽपि शास्त्रकारा निर्दिशन्ति । जैनागमेष्वपि मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । इह तु पूज्यैः श्रीमज्जिनभद्रगणिक्षमा श्रमणैः स्वप्रणीते श्रीविशेषावश्यकभाष्याभिधे महाग्रन्थे आगमानुसारं यन्मङ्गलस्वरूपवर्णनं कृतमस्ति, तदनुसृत्यैव किञ्चित् प्रस्तूयते । * ननु किमर्थं शास्त्रस्याऽऽदौ मङ्गलं कर्तव्यमित्याह स्वाध्याय: " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि " इति वचनात् सर्वाण्यप्युत्तमकार्याणि प्रायो विघ्नप्रचुराणि भवन्ति, किं पुनः शास्त्रस्य ग्रहणं पठनं रचनं वा ? अतस्तत्र कर्तव्ये त्ववश्यं मङ्गलोपचारः आदरणीय एव । यथा महानिधि महाविद्यां वा प्राप्नुवन् कश्चिन्मङ्गलोपचारं कृत्वैव तद् गृह्णाति तथेदमपि शास्त्रं ग्रहीतव्यमिति । ननु क्व पुनस्तन्मङ्गलं कर्तव्यं ? किमर्थं वा ? इत्याह मङ्गलं हि शास्त्रस्याऽऽदौ - प्रारम्भे, मध्यभागे तथा पर्यवसाने चेति त्रिषु स्थानेषु क्रियते । अथ प्रत्येकमपि किमर्थमिति करणफलमाह - प्रथमं हि मङ्गलं तावच्छास्त्रग्रहणेऽविघ्नतया पारगमनाय निर्दिष्टमस्ति । मङ्गले हि कृते शास्त्रार्थो निर्विघ्नतया गृह्येतेत्याशयः । Jain Education International प्रथममङ्गलकरणानुभावाद् यः शास्त्रार्थो निर्विघ्नतया गृहीतस्तस्यैव स्थिरीकरणार्थं शास्त्रस्य मध्यभागे द्वितीयं मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । तथाऽन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य द्वितीयमङ्गलप्रभावात् स्थिरीभूतस्य शिष्यप्रशिष्यादिवंशेऽव्यवच्छिन्नतयाऽनुवर्तनाय कर्तव्यम् । अथ परः प्राह - ननु भवतः शास्त्रं मङ्गलं न प्राप्नोति । कुत: ? इत्याहमङ्गलकरणादेवेति । अमङ्गले हि मङ्गलं कर्तव्यम् । यत्तु स्वयमेवं मङ्गलं तत्र किं मङ्गलविधानेन ? न हि कश्चिच्चन्द्रमसं शुक्लीकर्तुं प्रयतते कदाचित् । अतो मङ्गलविधानादेव ज्ञायते यच्छास्त्रं न मङ्गलमिति । ★ विशेषावश्यकभाष्ये सटीकाः गाथा: १२तः द्रष्टव्याः । १६ For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy