________________
Kota
अथ यदि मङ्गलस्याऽपि सतस्तस्य शास्त्रस्याऽन्यदपि मङ्गलं विधीयमानमभ्युपगम्यते तदा त्वनवस्थैवाऽत्र महद्दूषणमापतति । तथा हि-मङ्गलरूपस्याऽपि शास्त्रस्य यद्यन्यन्मङ्गलमुपादीयते तदा तस्याऽपि मङ्गलस्याऽन्यदपि मङ्गलं विधातव्यं, तस्याऽप्यन्यत, तस्याऽपि चाऽन्यदित्येवमनवस्थाऽऽपतन्ती न वारयितं शक्या ।
अथ च यदि मङ्गलस्याऽन्यन्मङ्गलं विधीयमानं नेष्यते तथा चाऽनवस्थाऽपि नेष्यते, तदा तु यथा मङ्गलमपि शास्त्रमन्यस्मिन्मङ्गलेऽकृते मङ्गलं न भवति तथेदमपि मङ्गलमन्यमङ्गलेऽकृते मङ्गलं न भवेत् ।
एवं च शास्त्रे यन्मङ्गलं विहितं तदन्यमङ्गलशून्यत्वान्मङ्गलत्वं न प्राप्नोति, 2 तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् । तथा चेयमुभयतःपाशा रज्जुः । -
__ अत्रोत्तरमाह - भोः ! शास्त्रादागमादेरर्थान्तरभूतं-भिन्नं यदि विधीयमानं Y () मङ्गलं स्यात् तदा भवता कल्पितममङ्गलत्वानवस्थादिदूषणजातं सार्थकमपि भवेत्। 0
किन्तु शास्त्रमेव यदि मङ्गलस्वरूपमभ्युपगम्यते तद्भिन्नं च मङ्गलं नैवोपादीयते । तदा तु हन्त ! किममङ्गलं का वाऽनवस्था भवन्ती भवता प्रेर्यते ? नन्वाकाशरोमन्थनमेवेदं भवतः ।
पुनरपि परः प्रेरयति - ननु यदि शास्त्रं स्वयमेव मङ्गलं तदा 'तं मंगलमाईए' इत्यादिवचनात् तत्र मङ्गलं किमित्युपादीयते ?
तदाऽऽह - सत्यम् - किन्तु तदुत्तरं त्वग्रे वक्ष्यतेऽतो मा त्वरिष्ट ।
अथ च शास्त्रादर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य दूषणानि निराकुर्वन्नाह शास्त्रकारः - भो वादिन् ! यदि शास्त्रादर्थान्तरभूतमपि मङ्गलमभ्युपगम्यते । तदाऽपि शास्त्रस्याऽमङ्गलत्वं नाऽस्ति नाऽप्यनवस्था काचित् । यतः मङ्गलं तु . सदाऽपि प्रदीप इव स्व-परेषामनुग्रहकृदेव वर्तते । यथा हि प्रदीपः स्वमपि । प्रकाशयन् स्वानुग्रहकारी भवति, परितो वर्तमानांश्च पदार्थान् प्रकाशयन्
परेषामप्यनुग्राहको भवति परं न स्वप्रकाशने प्रदीपान्तरमप्यपेक्षते । यथा वा लवणं X. रसवर्ती मधुरयन् स्वमपि च सलवणं करोत्येव न तु तदर्थं लवणान्तरमप्यपेक्षते।
एवं मङ्गलमपि शास्त्रादर्थान्तरभूतत्वेऽपि निजसामर्थ्याच्छास्त्रे स्वस्मिन्नपि च मङ्गलतामादधानं स्वपरानुग्रहकृद् भवत्येव, न तु तत्र मङ्गलान्तरमप्यपेक्षते । अतो मङ्गलान्मङ्गलरूपताप्राप्तौ शास्त्रस्य नाऽमङ्गलरूपता नाऽपि च स्वमङ्गलार्थमन्यमङ्गलानपेक्षत्वादनवस्थाऽपि काचिदिति ।
-
१७ For Private & Personal Use Only
Jain Education International
www.janelibrary.org