SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पुनरप्याह परः ननु भवता शास्त्रस्याऽऽदौ मध्ये पर्यवसाने चेति त्रिधा मङ्गलं क्रियते इति निर्दिष्टम् । एवं च तेषां त्रयाणां मङ्गलानां यदन्तरालद्वयं तन्मङ्गलत्वं न प्राप्नोति यतो भवता नियतस्थानेष्वेव मङ्गलमुपादीयते इति निर्दिष्टम् । अथवा भोः सिद्धान्तवादिन् ! भवता तु सर्वमेव शास्त्रं मङ्गलमित्यपि कथितमस्ति । एवं स्थिते किमर्थमिह मङ्गलत्रिकग्रहणम् ? सर्वस्मिन्नेव शास्त्रे मङ्गलभूते सति मङ्गलत्रिकपरिकल्पनं हि न युक्तियुक्तम् । अतो भवताऽपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपत्तव्यं मङ्गलत्रयग्रहणं वा न कर्तव्यम् । अत्रोत्तरमाह आचार्य: नन्वस्माभिस्तु शास्त्रमेव त्रिधा विभक्तमस्ति बुद्ध्या । एवं च तदन्तरालयोर्वार्तेव नास्ति । यथा हि मोदकादिवस्तुनि त्रिधा खण्डिते सति तदन्तरालं न सम्भवत्येव । एवं चाऽत्राऽपि ज्ञातव्यमिति कस्याऽमङ्गलता स्यात् ? - किन्तु त्रिधा विभक्तेऽपि शास्त्रे कथं वा सर्वस्य मङ्गलत्वम् ? भोः ! इदं सर्वमपि शास्त्रं कर्मविनाशस्वरूपनिर्जरार्थमस्तीति तत् स्वयमेव तपोवद् मङ्गलमेव । एवं चाऽपान्तरालद्वये यद् भवताऽमङ्गलत्वमाक्षिप्तं तदयुक्तमेव । यदि तत् सर्वमेव मङ्गलं स्यात् तदा तु न क्वाऽपि तस्याऽमङ्गलत्वलेशोऽपीति भावः । परः पर्यनुयुङ्क्ते भोः सिद्धान्तवादिन् ! यदि हि भवता सर्वमपि शास्त्रमेव स्वयं मङ्गलतयेष्यते तदा किमिति प्रारम्भे मध्येऽध्यवसाने च मङ्गलपरिग्रहः क्रियते ? हन्त ! निरर्थक एव सः । अत्राऽऽहाऽऽचार्यः - ननु सत्यमेतत् । तथाऽपि शिष्याणां मतौ मङ्गलस्य कर्तव्यत्वेन परिग्रहणार्थमेव तदभिहितमस्ति । शिष्या हि तस्मिन्नभिहिते ‘मङ्गलमेतच्छास्त्र’मिति स्वमतौ स्थिरीकुर्युरित्येतदर्थमेव तदभिधानमिति भावः । तथा मङ्गलमपि मङ्गलबुद्ध्या गृह्यमाणमेव मङ्गलं भवति । मङ्गलबुद्ध्या गृहीतमेव मङ्गलं स्वकार्यं करोति न त्वमङ्गलबुद्ध्या । अथैवं सति अमङ्गलमपि मङ्गलबुद्ध्या गृहीतं मङ्गलकार्यं कर्तुमलं भविष्यतीति चेत्- मैवं वोचः । यद्धि स्वत एव मङ्गलं तदेव मङ्गलबुद्ध्या गृहीतं स्वकार्यं साधयेत् । यत्तु स्वयमेवाऽमङ्गलं तत् कथं मङ्गलबुद्ध्या गृहीतमपि मङ्गलकार्यं साधयितुमलम् ? सत्यमणिरेव सत्यमणितया गृहीतो गौरवमापादयेत् Jain Education International १८ For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy